संवननम् (A charm)

न हीदृशं संवननं त्रिषु लोकेषु विद्यते।
दया मैत्री च भूतेषु दानं च मधुरा च वाक्॥महाभारतम् १.८७.१२॥
अर्थस्तु स्पष्ट एव।

२०२१-०१-३१ रविवासरः (2021-01-31 Sunday)

प्रत्यवायः (Obstacle, Sin, Offence)

किंत्वनुष्ठाननित्यत्वं स्वातन्त्र्यमपकर्षति ।
संकटा ह्याहिताग्नीनां प्रत्यवायैर्गृहस्थता
॥८॥ (उत्तररामचरिते प्रथमेऽङ्के)

किन्तु अनुष्ठाननित्यत्वं स्वातन्त्र्यं अपकर्षति । हि आहिताग्नीनां गृहस्थता प्रत्यवायैः सङ्कटाः । अथवा

पक्षान्तरे अग्निहोत्रादिकार्याणां अथवा नित्यनैमित्तिककर्मणां नियतत्वं स्वच्छन्दतां अथवा चिरकालप्रसादिरूपां अपचिनोति। यतोहि अग्निहोत्राणां गार्हस्थ्यं विघ्नैः सङ्कटपूर्णाः भवन्ति । को नाम विघ्नः? विहितकर्मणां अनुष्ठानाभावेन जन्यः पातकः इति ।

२०२१-०१-३१ भानुवासरः (2021-01-31 Sunday)

स्तम्भः उत्खातः (An obstruction was pulled out)

समन्तात् विचिन्त्य पाणिनिना सूत्राणि विरचितानि। प्रथमसूत्रत्रयं छात्राः सुखं बुध्येरन्। किन्तु चतुर्थं सूत्रं आरभ्यमाणं छात्रं स्तभ्नोति। मन्ये पणिनिना चिन्तितं यदि छात्रे न तु बुद्धिरेव किन्तु मनोबलमपि भवेत् तदैव छात्रः अग्रे सरेत्। सः स्तम्भः सकारणमस्ति।
वृद्धिरादैच् (१.१.१)
अदेङ् गुणः (१.१.२)
इको गुणवृद्धी (१.१.३)
न धातुलोप आर्धधातुके (१.१.४) – अयं स्तम्भोऽस्ति।
तत् चतुर्थं सूत्रं मम अध्ययनेऽपि अवरोधकोऽभवत्। सहर्षेण लिखामि गतबुधवासरे श्रीवैष्णवमहाभागेन सः स्तम्भः उत्खातः। इदानीमग्रे सरामि इति मन्ये।

२०२१-०१-३० शनिवासरः (2021-01-30 Saturday)

विलक्षणं सूत्रम् (A strange sutra)

धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (३.१.२२)
प्रायः यदा सूत्रस्य प्रसक्तिः कस्मिन्नपि गणेऽस्ति तदा सः गणः गणपाठेऽस्ति अथवा इत्सञ्ज्ञेन सूचितोऽस्ति अथवा अर्थभेदेन ज्ञातोऽस्ति किन्तु अस्य सूत्रस्य यत्र प्रसक्तिः अस्ति सः गणः धातोः नाम्न एव विद्यते। धातोः नाम न व्याकरणाश्रित्य अस्ति तथापि अस्य सूत्रस्य प्रसक्तिः नाम्न एव अस्ति।
रुदादिभ्यः सार्वधातुके (७.२.७६) रुदादिगणः गणपाठेऽस्ति।
रुच्यर्थानां प्रीयमाणः (१.४.३३) अर्थाश्रित्य गणः।
ओदितश्च (८.२.४५) इत्सञ्ज्ञाश्रित्य गणः।

२०२१-०१-२९ शुक्रवासरः (2021-01-29 Friday)

१९८४ च २०२१ च (1984 versus 2021)

जवाहरलालवंशीयाः भारते न्यायव्यवस्थायां न विश्वसन्ति। १९८४वर्षे यदभवत् तस्य प्रतिकारः ते स्वस्य दलीयैः जाल्मैः नरसंहारेण अकारयन्। तेषां नास्ति धैर्यं न्यायालयं गच्छेयाम इति। ते जानन्ति यां व्यवस्थां ते न्यदधुः सा हीनास्ति न तया व्यवस्थाया न्यायस्य आशासीमहि।
२०२१-०१-२६तिथौ यदभवत् तस्य न्यायः संविधानाश्रित्य न्यायालये भवेत् इति चिन्तयति इदं प्रशासनम्। महदन्तरमस्ति द्वयोः चिन्तनयोः। जवाहरलालवंशीयाः चिन्तयन्ति यः ते इच्छन्ति सः न्यायः किन्तु श्रीमोदी चिन्तयति यः संविधानेष्वस्ति सः न्यायः।

२०२१-०१-२८ गुरुवासरः (2021-01-28 Thursday)

विद्वान् अबु-उल-आला-मौदूदीः (Great Scholar Abul A’la Maududi)

आचार्येणाद्याहं सूचित आसीत् कोऽपि अबु-उल-आला-मौदूदीः नाम विद्वान् दार्शनिकश्च येन इस्लामराष्ट्रस्य आधारः कल्पितः इति। तया कल्पनयया पाकिस्तानराष्ट्रः अन्येऽपि राष्ट्राः स्थापिताः सन्ति। भारतं तस्य अभिजनोऽस्ति सः तु गर्वविषयोऽस्ति।
अस्ति कोऽपि दार्शनिको येन भारतस्य पुरातनपरम्परायामाश्रित्य राष्ट्रनिर्माणस्य कल्पना कृता। अस्माभिः अबु-उल-आला-मौदूदीमहाभागस्य विचाराः अध्येतव्याः यस्माद् जानीयाम कथं विचाराः कल्पनीयाः कस्मात् जनाः विचारान् स्वीकुर्वन्ति। तस्य प्रथमं सोपानमस्ति कठोरपरिश्रमः। किं द्वितीयं सोपानम्?

२०२१-०१-२७ बुधवासरः (2021-01-27 Wednesday)

दुःखदघटना (Tragic Incident)

पञ्चाशतो वर्षेभ्यः पूर्वं केन्बरानगरे जलौघः आस्कन्दयत्। अस्मिन् नगरे इत्थमभवत् तस्य कल्पनापि न शक्यम्। जलौघः सप्तानां जनानां प्राणमहरत्।
https://www.abc.net.au/news/2021-01-26/act3a-50-years-on-from-the-woden-flood-which-killed-seven/13074262

२०२१-०१-२६ मङ्गलवासरः (2021-01-26 Tuesday)

पर्यायः (Order)

परि + इन गतौ + घञ् + सुँ = पर्यायः।
आवृत् परिपाटिः अनुक्रमः पर्यायः आनुपूर्वी इति तत्पर्यायः।
हिन्दीभाषायां पर्यायवाची इति synonym इति अर्थे प्रयुज्यते संस्कृतेऽपि। मन्ये यत् अनुक्रमे आयुक्तं सूच्यां कल्पितं तत् पर्यायः इत्युक्तम्।
पर्यायसेवामुत्सृज्य पुष्पसम्भारतत्पराः।
उद्यानपालसामान्यमृतवस्तमुपासते॥कुमारसम्भवम् २.३६॥
अन्वयः – ऋतवः पर्यायसेवाम् उत्सृज्य पुष्पसम्भारतत्पराः सन्तः उद्यानपालसामान्यं तम् उपासते।
संभारे संग्रहे तत्परा आसक्ताः सामान्यं साधारणम्।
The seasons abandoned their natural order, (and coming together) were devoted to collecting the flower like an ordinary gardener, and serving him (Taraka).

२०२१-०१-२५ सोमवासरः (2021-01-25 Monday)

कादरखानस्य अनुकल्पः राहुलः (Mr Gandhi – Kadar Khan’s replacement)

२०१८-१२-३१तिथौ यमराजो हास्यजीवितं कादारखानमुत्थापयत्। कोटिशश्चलचित्रप्रेमिणस्तस्मिन् दिवसे निराशस्य भूमौ अपतन्। तेभ्यो भूयिष्ठां मनोहारीं सूचनामानयामि। कादरखानस्य अनुकल्पः जातः आनन्दयतु।
ह्यः प्रतिकादारखानः तमिलनाडूप्रान्ते स्वकार्यमारभे। पश्यतु।

https://en.wikipedia.org/wiki/Kader_Khan https://en.wikipedia.org/wiki/Rahul_Gandhi

२०२१-०१-२४ रविवासरः (2021-01-24 Sunday)



उत्तररामचरिते पञ्चाशदधिकपञ्चशतं शब्दाः (550 Words in Uttararaamacharitam)

अस्मिन् सञ्चिकायां सन्ति प्रायः पञ्चाशदधिकपञ्चशतं शब्दाः। उत्तररामचरितं पठन्नहं यान् शब्दानर्थं नाव्याहितमवाबुध्ये तेषां शब्दानां मया एका सूची कल्पिता। तया सूच्या साहाय्येन पुनरावर्तनं परीशीलनं च करिष्यामि इति आशासे। इयं सूची भवद्भ्योऽपि सहायकरा स्यात्तस्मादत्र निहितास्ति।

२०२१-०१-२३ शनिवासरः (2021-01-23 Saturday)