प्रतिकृतम् (Returned)

यत् पत्रं मया ह्यः प्रेषितं तत् पत्रम् अद्य प्रतिकृतम्।
ते प्रतिकर्तुम् (to counter act) ईदृशम् कुर्वन्ति।

२००९-०६-२६ शुक्रवासरः (2009-06-26 Friday)

वक्तव्यम् आसीत् (Had a Talk)

अद्य विश्वविद्यालये अहं यत् शोधं करोमि तत् अधिकृत्य एकं वक्तव्यम् आसीत्। वक्तव्ये प्राचार्याः छात्राः च सन्ति। छात्राः प्रायः आङ्ग्लभाषां बोधितुं न शक्नुवन्ति तस्य उपरि मम उच्चारणं तेभ्यः अतीव क्लिष्टम् आसीत्।

२००९-०६-२५ गुरुवासरः (2009-06-25 Thursday)

सङ्गणित्रं कार्यं न करोति (Computer Doesn’t work)

अद्य अत्र ब्राजीलदेशे विश्वविद्यालये अहं मम सङ्गणित्रं बृहत्जालेन सह संयोजनस्य प्रयासम् अकरवम्। इतः एका कार्यकारिणी अकथयत् अहं संयोजनं सम्यग् करिष्यामि इति किन्तु सा किं कृता अहं न जानामि किन्तु तत् परं अहं सङ्गणित्रे प्रवेष्टुम् अपि कर्तुं न शक्नोमि। तत् परं ते किमपि अकुर्वन् मम प्रवेशः सम्भवम् अकारयन् किन्तु अहम् अतिन्यूनम् एव कार्यं कर्तुं शक्नोमि।

२००९-०६-२४ बुधवासरः (2009-06-24 Wednesday)

ब्राजीलदेशं गतम् (Departed for Brazil)

अद्य मया केन्बरानगरतः ब्राजीलदेशं प्रस्थितम्। केन्बरानगरतः प्रातः सार्धषट्वादने मम प्रस्थानम् आसीत्। ततः सिडनीनगरं ततः सेन्तियागोनगरं ततः सा-ओ-पावलोनगरम्। सा-ओ-पावलोनगरे मम सहकरर्मी होड्रिगोवर्यः स्वभार्यया सह मम नेतुम् आगच्छत्। तेन सह अहं सा-ओ-कर्लोसनगरं गतवान्। सा-ओ-पावलोनगरतः सा-ओ-कर्लोसनगरस्य यात्रा स्वयानेन त्रिहोरापर्यन्तम् आसीत्। तत्र वयं रात्रौ एकादशवादने प्राप्तवन्तः।

२००९-०६-२३ मङ्गलवासरः (2009-06-23 Tuesday)

प्रत्यागच्छन् (Returned)

अद्य मीता-शुचिता-ज्वलिताः आरती-वेणु-महाभागे च मेल्बोर्ननगरात् प्रत्यागच्छन्। ताः त्रिदिवसाय मेल्बोर्ननगरम् अगच्छन्। मया मन्यते ताः मेल्बोर्ननगरस्य भ्रमणं करिष्यन्ति इति किन्तु ताः केवलं क्रयणम् (shopping) एव अकुर्वन्।

२००९-०६-२२ सोमवासरः (2009-06-22 Monday)

द्वौ, द्वे, द्वे (two)

पुंलिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे
द्वौ द्वे द्वे
द्वौ द्वे द्वे
द्वाभ्याम् द्वाभ्याम् द्वाभ्याम्
द्वाभ्याम् द्वाभ्याम् द्वाभ्याम्
द्वाभ्याम् द्वाभ्याम् द्वाभ्याम्
द्वयोः द्वयोः द्वयोः
द्वयोः द्वयोः द्वयोः

२००९-०६-२१ रविवासरः (2009-06-21 Sunday)

एकः एका एकम् (One)

पुंलिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे
एकः एका एकम्
एकम् एका एकम्
एकेन एकया एकेन
एकस्मै एकस्यै एकस्मै
एकस्मात् एकस्याः एकस्मात्
एकस्य एकस्याः एकस्य
एकस्मिन् एकस्याम् एकस्मिन्

२००९-०६-२० शनिवासरः (2009-06-20 Saturday)

एकत्रिंशत् – नवत्रिंशत् (31-39)

एकत्रिंशत् जनाः सन्ति।
द्वात्रिंशत् स्त्रियः सन्ति।
त्रयत्रिंशत् मोदकानि सन्ति।
चतुस्त्रिंशत् बालकाः सन्ति।
पञ्चत्रिंशत् कन्याः सन्ति।
षट्त्रिंशत् वृक्षाणि सन्ति।
सप्तत्रिंशत् बान्धवाः सन्ति।
अष्टात्रिंशत् बालिकाः सन्ति।
नवत्रिंशत् गृहाणि सन्ति।

२००९-०६-१९ शुक्रवासरः (2009-06-19 Friday)

विंशतिः (Twenty)

विंशतिः
विंशतिम्
विंशत्या
विंशत्यै-विंशतये
विंशत्याः-विंशतेः
विंशत्याः-विंशतेः
विंशत्याम्-विंशती

२००९-०६-१७ बुधवासरः (2009-06-17 Wednesday)