अखिलेशः नाम नाटकम् भीमः च (A drama called Akhilesh & BHIM)

अद्य मोदिना भीमः इति यन्त्रं लोकाय समर्पितम्। तत् ज्ञात्वा हृष्यामि।

मोदी कथयति निराशावादिभ्यः मां निकषा का अपि ओषधिः नास्ति किन्तु आशावादिभ्यः मां सकाशे नैके विचाराः सन्ति।

समाचाराः सन्ति उत्तरप्रदेशे अखिलेशमुलायमयोः मध्ये कलहः भवति इति। मुलायमसिंहयादवेन स्वपुत्रः अखिलेशः सपादलात् षड्वर्षेभ्यः निष्कासितः। कथं कोऽपि जनः भ्रातुः पक्षं धरेत् न तु स्वपुत्रस्य इति अहम् अवगन्तुं न शक्नोमि। मन्ये अयं कलहः अखिलेशस्य सपादले प्रभुत्वं स्थापनाय भवति। तत्वतः अयं कलहः नास्ति किन्तु एकं नाटकम् अस्ति यस्मिन् नाटके अखिलेशः सर्वान् पराजित्य दलस्य मूर्धनि स्थास्यति। इदं नाटकं तु लोकदर्शनाय तस्मै अखिलेशाय मुलायमविरचिता अग्निपरीक्षा अस्ति। अस्मिन् नाटके सः अखिलेशः स्वपितृव्यं पराजेष्यति इति पूर्वमेव लिखितम् अस्ति।

२०१६-१२-३१ शनिवासरः (2016-12-31 Saturday)

Advertisements

ओस्ट्रेलियादेशेन पराजितः (Australia won)

पाकिस्तान-ओस्ट्रेलियादेशयोः मध्ये अत्र ओस्ट्रेलियादेशे फालका-स्पर्धा-शृङ्खला इदानीं प्रवर्तते। अस्यां शृङ्खलायाम् अद्य द्वितीयं खेलं समाप्तम्। प्रथमे खेले ओस्ट्रेलियादेशेन पाकिस्तानदेशः प्राजितः। अद्य द्वितीये खेले अपि ओस्ट्रेलियादेशः जितः। मध्याह्ने अहम् अमन्ये इदं खेलम् अनिर्णितम् एव भविष्यति इति किन्तु पाकिस्तान-फालका-वृन्देन मम मतम् अलीकीकृतम्।

२०१६-१२-३० शुक्रवासरः (2016-12-30 Friday)

प्रोञ्छति (Wipes)

श्रीचारुदत्तशास्त्रिविरचिते उपसर्गार्थचन्द्रिका इति पुस्तके षष्ठे पृष्ठे अस्ति –
उञ्छ् (उछि उञ्छे)। उञ्छः कणश आदानमिति वैजयन्त्यां यादवः। लिखितमपि ललाटे प्रोञ्छितुं कः समर्थः (हित. १।२१)। प्रमार्जितुमित्यर्थः।
अहं पटलं प्रोञ्छामि। I wipe the table.
अहं अङ्गोञ्छेन मम गात्रं प्रोञ्छामि।

२०१६-१२-२९ गुरुवासरः (2016-12-29 Thursday)

श्राम्यति (tires out)

श्रमुँ तपसि खेदे च दिवादिगणीयः परस्मैपदी सेट् धातुः अस्ति।
अहं श्राम्यामि। I am tired. शमादिः – शमामष्टानां दीर्घः श्यनि (७.३.७४)
इदं सुभाषितम् अस्ति –
नाधीतेऽत्र जनो यदि कश्चिद्धीते/कश्चिधिते/कश्चिदधीते शते सहस्रे वा।
दुस्तर्केषु श्राम्यति दूरीकुरुते श्रुतिस्मृतिसुतर्कान्॥
अस्मिन् सुभाषिते न जानामि कश्चिद्धीते वा कश्चिधिते वा कश्चिदधीते वा शुद्धरूपमस्ति। जालपत्रे कश्चिद्धिते कश्चिधिते इति रुपे दृश्येते। यदि जानाति तर्हि शुद्धरूपं सूचयतु। अपि धीते इति साधुपदम् अस्ति?

२०१६-१२-२८ बुधवासरः (2016-12-28 Wednesday)

शमुँ उपशमने (sham – to be quiet, calm, satisfied or contended)

शमुँ उपशमने दिवादिगणीयः परस्मैपदी सेट् धातुः अस्ति।
अहं शाम्यामि। I am quiet. शमादिः – शमामष्टानां दीर्घः श्यनि (७.३.७४)
न जातु कामः कामानामुपभोगेन शाम्यति।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते॥
हविषा – by the offering (like ghee) – हविस् + टा = हविषा – तृतीयाविभक्तिः एकवचनम्।
न जातु – never ever
कृष्णवर्त्मा इव – like the fire

२०१६-१२-२७ मङ्गलवासरः (2016-12-27 Tuesday)

क्षमूँ सहने (kSham – to bear)

क्षमूँ सहने दिवादिगणीयः परस्मैपदी सेट् धातुः अस्ति। शमादिः – शमामष्टानां दीर्घः श्यनि (७.३.७४)
अहं क्षाम्यामि। I tolerate. 
क्षान्तिः इति सहिष्णुता।
अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम्।
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः॥गीता १३.७॥

२०१६-१२-२६ सोमवासरः (2016-12-26 Monday)

आमान्यते (Celebrate)

अद्य समग्रविश्वे जनैः ईसामसीहजन्मदिवसपर्व आमान्यते।
आमान्यते इति संस्कृतवार्तायाम् उपयुञ्जते। आमान्यते इति पदे कः धातुः?
बलदेवानन्दसागरवर्यः लिखति –
महोदय !
नमोनमः | “मानि [ मान् ] पूजायां धातोः भाव-कर्मणोः आङ्-उपसर्ग-पूर्वकं रूपं भवति- आमान्यते इति | शब्दिकोsर्थः भवति- आद्रियते, सम्मान्यते चेत्यादि | परञ्च धातूनाम् अनेकार्थाः इति कृत्वा व्यावहारिक-प्रयोगतया “मनाया गया” “आयोजित किया गया” चेत्यादि प्रयोगेषु “आमान्यते” “मानितः” “परिपालितः” इति प्रयोगः सुतरां सुलभः सरलश्च | अपि च,
धातुरत्नाकरः इति सुख्यातः ग्रन्थः | तस्य सम्पर्क-सूत्रं प्रेषयामि |…. https://www.scribd.com/document/214978616/Dhatu-Ratnakara-Munilavanya-Vijayasuri-Vol-vii …..

अत्र १८९- इति पृष्ठे ” भावकर्म-प्रक्रियायां भ्वादि-गणे प्रदत्तस्य आत्मनेपदिनो मान्-धातोः रूपाणि प्रदर्शितानि सन्ति…|
७४९…मानि [ मान् ] पूजायाम्- भावकर्म-प्रक्रियायां भ्वादिगणे आत्मनेपदी व्यञ्जनान्त-धातुः … मान्यते मान्येते मान्यन्ते |
१२६३…मनिंच् [ मन् ] ज्ञाने … भावकर्म-प्रक्रियायां दिवादौ आत्मनेपदी व्यञ्जनान्त-धातुः … मन्यते मन्येते मन्यन्ते |
१५०७ – मनूयि [ मन् ] बोधने मन्यते तनादि-गणे उभयपदी … मन्यते मन्येते मन्यन्ते
१८१० – मनिण् [ मन् ] स्तम्भे–भावकर्म-प्रक्रियायां चुरादिगणे आत्मनेपदी व्यञ्जनान्त-धातुः … मान्यते मान्येते मान्यन्ते
१९७० –मानण् [ मान् ] पूजायाम्- भावकर्म-प्रक्रियायां चुरादिगणे परस्मैपदी व्यञ्जनान्त-धातुः … मान्यते मान्येते मान्यन्ते

२०१६-१२-२५ रविवासरः (2016-12-25 Sunday)