विहितः (Taken Up or Done)

इयमाकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् इति संस्कृतभाषायां समाचारस्य आदौवाक्यम्। इयं वार्ताः मह्यम् अतीव रोचते। http://www.newsonair.com/text_nsd_schedule.asp
वार्तायां ते विहितः इति शब्दस्य वारं वारं प्रयोगं कुर्वन्ति। कोऽपि पण्डितः विहितः इति शब्दस्य उत्पत्तिः कस्मात् प्रातिपदिकात् अस्ति तस्य अन्यानि रूपाणि कानि सन्ति इति अस्मान् ज्ञापयतु।

२०१०-०२-२८ रविवासरः (2010-02-28 Sunday)

न विश्वसति (Doesn’t Believe)

अद्य प्रातः काले यदा अहं कार्यालयं गच्छमि स्म तदा आवयोः कन्या ज्वलिता पृच्छति स्म भवान् कथं शनिवासरे कार्यालयं गच्छति यदि भवान् कार्यालयं गमिष्यति तर्हि कः आवयोः मन्दिरे होलिकामेलनाय नयिष्यति। अहं ताम् अकथयत् होलिकामेलनं श्वः भविष्यति इति। सा उत्तरति स्म शुचिता माम् अकथयत् अद्य एव अस्ति इति। अहम् अकथयत् अहं मन्दिरस्य सूचनां सर्वान् प्रेषयामि अहं तां कथयामि मेलनं श्वः अस्ति इति। सा मां पश्यति स्म किमपि न कथयति स्म। अहं मन्ये सा महि न विश्वसति। कथं सा स्वभगिन्याः ईदृशं विश्वासं धरति इति अहं न जानामि।

२०१०-०२-२७ शनिवासरः (2010-02-27 Saturday)

अनुदानाय आवेदनपत्रम् (Application for Funding)

अहं गतमासद्वयात् एकस्मै अनुदानाय आवेदनपत्रं सज्जीकरोमि। अहं मन्ये अद्य तत् आवेदनपत्रं पूर्णम् अभवत्। किञ्चित् कार्यं करणीयं किन्तु मूलरूपेण तत् पूर्णम् अस्ति।

२०१०-०२-२६ शुक्रवासरः (2010-02-26 Friday)

भारतीयदूरदर्शनम् (Indian TV)

ह्यः यदा सचिनः शतकद्व्यस्य समीपं आगच्छति स्म तदा आवयोः कन्या शुचिता अवदत् भवान् न जानाति अहं कीदृशा क्रुद्धा अस्मि इति। अहम् अपृच्छम् कथम् इति। सा औत्तरत् अस्माकं गृहे भारतीयदूरदर्शनं नास्ति तस्मात् अहं क्रुद्धास्मि इति। सा अकथयत् अहं भारतस्य सचिनस्य अभिख्यानं प्राणान्तिककामनया द्रष्टुम् इच्छामि इति। मया न ज्ञातं सा भारतम् ईदृशं स्निह्यति।

२०१०-०२-२५ गुरुवासरः (2010-02-25 Thursday)

सचिनः (Sachin)

अद्य यदा अहं स्वपितुं गच्छामि स्म तदा अचिन्तयं भारत-दक्षिणाफ्रिकादेशयोः फालकक्रिडायां किं भवति इति संपश्य गमिष्यामि इति। किन्तु यदा सचिनस्य धावनाङ्काः दृष्टाः तदा भारतस्य वल्लः-पक्षस्य अन्तिम-क्षेपक-पर्यन्तं मया खेलनं दृष्टम्। सचिनस्य् शतकद्व्यं अतिरोमाञ्चकम् आसीत्।

२०१०-०२-२४ बुधवासरः (2010-02-24 Wednesday)

पठ् कृदन्तैः सह (Reads with suffixes)

पठ् पठति पठत्-पठत्-पठन्ति पठित पठितवत्-पठितवान्-पठितवती पठितव्य पठनीय पठ्य पठित्वा संपठ्य पठितुम् पाठकः पठनम्

२०१०-०२-२३ मङ्गलवासरः (2010-02-23 Tuesday)

लिनक्स (Linux)

अद्य मया मम सङ्गणित्रे लिनक्सः इति कार्यवाहकः स्थापितः। देवनागरीलेखनस्य यन्त्राणि कथं स्थास्यामि इति अद्य परं चिन्तां करिष्यामि।

२०१०-०२-२२ सोमवासरः (2010-02-22 Monday)

हवनः (Havan)

प्रातः दशवादने अहं राहुलवर्यं मन्दिरे अमिलम्। सः नवग्रह-गृहाय शिखरं निर्मितवान्। मया शिखरं दृष्टम्। तत् परं एकादशवादने हवनः कृतः। सायंकाले विंशति-विंशति-अनुक्रम-फालक-स्पर्धा दृष्टा।

२०१०-०२-२१ रविवासरः (2010-02-21 Sunday)

कार्यालयं गतम् (Went to work)

अद्य अवकाशदिवसः आसीत् किन्तु अहं कार्यालयम् अगच्छम्। अहं प्रसन्नः अस्मि मया कार्यालयं गतम् इति। मया प्रचुरकार्यं करणीयं किन्तु आलस्यकारणात् कार्यम् अभिवर्धति समयः प्रतिक्रमति।

२०१०-०२-२० शनिवासरः (2010-02-20 Saturday)

सिडनीनगरं गतम् (Went to Sydney)

अद्य प्रातः सार्धसप्तवादने मया सिडनीनगरं गतम्। तत्र विश्वविद्यालये एकं प्रस्तुतीकरणम् आसीत्। प्रस्तुतीकरणस्य परम् एकवादने ततः प्रत्यागतम्। प्रत्यागम्य मया ज्ञातं ज्वलिता अस्वस्था अस्ति। सा गत बुधवासरे एकं शिविरं गतवती किन्तु अद्य प्रातःकाले दिव्यांशुः तां शिविरात् प्रत्यानयत् यतो हि सा अस्वस्था अस्ति।

२०१०-०२-१९ शुक्रवासरः (2010-02-19 Friday)