प्रभावलयम् (Aura)

विद्युल्लताकपिलतुङ्गजटाकलापम्
उद्यत्प्रभावलयिनं परशुं दधानम् ।
क्षत्रान्तकं मुनिवरं भृगुवंशकेतुं
गत्वा प्रणम्य निकटे निभृतः स्थितोऽस्मि ॥ कर्णभारम् ९
कलापः समूहः। कलापः, पुं, (कलां मात्रां आप्नोति . कला + आप्+“ कर्म्मण्यण” . ३ . २ . १ . इति अण् . यद्वाकला आप्यतेऽनेन“ हलश्च” . ३ . ३ . १२१ .इति घञ् .) समूहः।

२०२४-०१-२९ सोमवासरः (२०२४-०१-२९ Monday)

योगधारणा (Steadiness of Yoga)

सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च।
मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम्।। गीता ८.१२ ।।
रामानुजाचार्यः – योगाख्यां धारणां आस्थितः मयि एव निश्चलां स्थितिम् आस्थितः।
श्रीधरस्वामी – योगस्य धारणां स्थैर्यमास्थित आश्रितवान्सन्।

२०२४-०१-०५ शुक्रवासरः (2024-01-05 Friday)

घातकश्शङ्करः (Merciless Shankar)

पठतु कथमनुबधम् इति पदस्य शङ्करः व्याख्यां करोति।
अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम्।
मोहादारभ्यते कर्म यत्तत्तामसमुच्यते।। गीता १८.२५ ।।
Sanskrit Commentary By Sri Shankaracharya
।।18.25।। –,अनुबन्धं पश्चाद्भावि यत् वस्तु सः अनुबन्धः उच्यते तं च अनुबन्धम्? क्षयं यस्मिन् कर्मणि क्रियमाणे शक्तिक्षयः अर्थक्षयो वा स्यात् तं क्षयम्? हिंसां प्राणिबाधां च अनपेक्ष्य च पौरुषं पुरुषकारम् शक्नोमि इदं कर्म समापयितुम् इत्येवम् आत्मसामर्थ्यम्? इत्येतानि अनुबन्धादीनि अनपेक्ष्य पौरुषान्तानि मोहात् अविवेकतः आरभ्यते कर्म यत्? तत् तामसं तमोनिर्वृत्तम् उच्यते।।इदानीं कर्तृभेदः उच्यते –,

२०२४-०१-०२ मङ्गलवासरः (2024-01-02 Tuesday)

विशदः (Shining)

अत्युग्रदीप्तिविशदः समरेङ्ग्रगण्यः
शौर्ये च सम्प्रति सशोकमुपैति धीमान् ।
प्राप्ते निदाघसमये घनराशिरुद्धः
सूर्यः स्वभावरुचिमानिव भाति कर्णः ॥ कर्णभारम् ४॥
अत्युग्रदीप्तिविशदः प्रतापातिशयप्रद्योतितः।
विशदः, त्रि, (वि + शदॢँ शातने (भ्वादिः परस्मैपदी अकर्मकः अनिट् ज्वलादिः )+ अच् .) विमलः इति हेमचन्द्रः, व्यक्तः इति मेदिनी, शुक्लगुणयुक्तः इत्यमरः, उज्ज्वलः।
वि विशेषवैरूप्यनञर्थगतिदानेषु इति मुग्धबोधटीकायां दुर्गदासः।

२०२३-१२-२८ गुरुवासरः (२०२३-१२-28 Thursday)

समरः (Battle)

करितुरगरथस्थैः पार्थकेतोः पुरस्ताद्
मुदितनृपतिसिंहैः सिंहनादः कृतोऽद्य ।
त्वरितमरिनिनादैर्दुःसहं लोकवीरः
समरमधिगतार्थः प्रस्थितो नागकेतुः ॥ कर्णभारम् ३
समरः, पुं, क्ली, (सम्यक् अरणं प्रापणमिति सं + ऋ गतौ + अप् . यद्बा, सम्यक् ऋच्छत्यत्रेति .“ मन्दरकन्दरशीकरेति .” बाहुलकात्अरप्रत्ययेन साधुः . इत्युज्ज्वलः . ३ . १३१ .) युद्धम् . इत्यमरः .. (यथा, रघुः . १२ . ८२ .“ इतराण्यपि रक्षांसि पेतुर्वानरकोटिषु .रजांसि समरोत्थानि तच्छोणितनदीष्विव ..” )
आयोधनम्, प्रविदारणम्, संख्यम्, ‍समरः, कलहः, अभिसंपातः, संयोगः, संग्रामः, ‍संयत्, समित्, जन्यम्, मृधम्, समीकम्, अ‍नीकः, ‍विग्रहः, कंलिः, अभ्यामर्दः, आहवः, ‍समितिः, युत्, प्रधनम्, आस्कन्दनम्, ‍सांपराथिकम्, रणः, संप्रहारः, संस्फोटः, ‍समाघातः, समुदायः, आजिः, युद्धम्।
युद्धार्थे कति पदानि सन्ति येषां व्युत्पत्तिः सम्यग् मेलनम् इति अस्ति। क आश्चर्यः प्रायः यदा जनाः मिलन्ति तदा युध्यन्ते च।

२०२३-१२-२६ मङ्गलवासरः (२०२३-१२-26 Tuesday)

श्रीधरः नृसिंहः (Shridhara Nrisimha)

नरमृगपतिवर्ष्मालोकनभ्रान्तनारी-
नरदनुजसुपर्वव्रातपाताललोकः ।
करजकुलिशपालीभिन्नदैत्येन्द्रवक्षाः
सुररिपुबलहन्ता श्रीधरोऽस्तु श्रिये वः ॥ कर्णभारम् १
वर्ष्म विग्रहः – शरीरं वर्ष्म विग्रहः इत्यमरः। सुपर्वणां सुमनसाम्। व्राताः सङ्घाः निकरव्रातसङ्घातसञ्चयाः इत्यमरः। करजः करे जातः। कुलिशं वज्रं म्भोलिः शतकोटिः कुलिशम् शम्बः पविः वज्रम् अशनिः स्वरुः भिदुरम् ह्लादिनी इत्यमरः। पालिः अश्रि कोटिः कोणः इत्यमरः।

२०२३-१२-18 सोमवासरः (2023-12-18 Monday)

चित्तमनसोः इत्यनयोः अर्थभेदः? (Difference between chittam and manas?)

चित्तं मनः इत्यनयोः अर्थभेदं ज्ञातुमिच्छामि। गीतायामिमाः श्लोकाः सन्ति यत्र चित्तं मनः इति स्तः। अर्थे को भेदः?
यदा विनियतं चित्तमात्मन्येवावतिष्ठते।
निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा।।६.१८।।
शनैः शनैरुपरमेद् बुद्ध्या धृतिगृहीतया।
आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत्।।६.२५।।
यतो यतो निश्चरति मनश्चञ्चलमस्थिरम्।
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत्।।६.२६।।
२०२३-०१०-०५ गुरुवासरः (२०२३-०१०-०५ Thursday)

अयनेषु (At the Entrances)

अयनेषु च सर्वेषु यथाभागमवस्थिताः।
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि।।गीता १.११।।
Sanskrit Commentary By Sri Sridhara Swami
।।गीता १.११।।  तस्माद्भवद्भिरेवं वर्तितव्यमित्याह  अयनेष्विति।  अयनेषु व्यूहप्रवेशमार्गेषु यथाभागं विभक्तां स्वां स्वां रणभूमिमपरित्यज्यावस्थिताः सन्तः सर्वे भीष्ममेवाभितो रक्षन्तु यथाऽन्यैर्युध्यमानः पृष्ठतः कैश्चिन्न हन्येत तथा रक्षन्तु। भीष्मबलेनैवास्माकं जीवितमिति भावः।

२०२३-०८-३० बुधवासरः (२०२३-०८-३० Wednesday)

रहः (Lonely place)

मय्येव विस्मरणदारुणचित्तवृत्तौ
वृत्तं रहः प्रणयमप्रतिपद्यमाने
भेदाद्भ्रुवो कुटितयोरतिलोहिताक्ष्या
भग्नं शरासनमिवातिरुषा स्मरस्य ॥अभिज्ञानशाकुन्तलं पञ्चमोऽङ्कः २३॥

भीमसेनशास्त्रिणा रहस् इति अव्ययप्रकरणे स्थापितम्। स लिखति रहस् शब्द सकारान्त नपुंसक भी है इति।

२०२३-०४-१८ मङ्गलवासरः (२०२३-०४-१८ Tuesday)

चन्द्रोपरागं प्रति (Regarding lunar eclipse)

चन्द्रोपरागं प्रति तु केनापि विप्रलब्धासि। मुद्राराक्षसम् प्रथमोऽङ्कः।
हिन्दीभाषायां यत् बारे में इत्यस्ति तस्य अनुवादः प्रति इति अनेन कर्तुं शक्यते।

२०२३-०४-१० सोमवासरः (२०२३-०४-१० Monday)