सन्धिविग्रहेण अभिभूतः (Defeated by Sandhi Vigraha)

आत्तसज्जधनुषाविषुस्पृशावक्षयाशुगनिषङ्गसङ्गिनौ।
रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम्। रामरक्षास्तोत्रम् २०॥
आत्तधनुषौ इषुस्पृशौ अक्षय-आशुग-निषङ्ग-सङ्गिनौ।
श्लोकं पठित्वा मया चिन्तितम् इयं समासिता पङ्क्तिरस्ति इति। तस्मात् अर्थः न प्राप्तः। न समासः सन्धिरस्ति यदेति ज्ञातं तदार्थः सरल एव।

२०२२-०८-३१ बुधवासरः (2022-08-31 Wednesday)

यस्मान्नोद्विजते लोकः (From whom the world is not disturbed)

ईश्वरेण शशितरूराय एकः अमूल्यः गुणः प्रदत्तः। तस्मात् कोऽपि न उद्विजते। सर्वे जानन्त्येवाहं काङ्ग्रेसदले कथं विजुगुप्से किन्तु न शशितरूरमहाभागे। सः काङ्ग्रेसदलस्य अध्यक्षपदस्य निर्वाचनस्य प्रयासं करोति। तस्मिन् साफल्ये कदाचिदहमपि तस्य दलस्य समर्थनं कर्तुं शक्ष्यामि।

Courtesy Indian Express

२०२२-०८-३० मङ्गलवासरः (2022-08-30 Tuesday)

अवश्यम् (Necessary)

वश् कान्तौ। कम् कान्तौ लष् कान्तौ कनीँ दीप्तिकान्तिगतिषु। मन्ये कान्तिः इत्यस्य द्वौ मूलार्थौ भवतः इच्छायां दीप्तौ च। अवश्यम् इति न इष्टम् बलात् यस्य करणम्। अवश्यकर्तव्यातारूपशासनमहिमायातान् भोगान् येऽश्नन्ति इति अभिनवगुप्तः

२०२२-०८-२९ सोमवासरः (2022-08-29 Monday)

साहाय्यं करणीयम् (Help should be provided)

पाकिस्तानदेशः महता जलोघेन आवृतोऽस्ति। मन्ये भारतेन तस्य साहाय्यं करणीयम्। आशासे साहाय्यं करोत्येव इति। न ईदृशः प्लवः केनापि जनेन पाकिस्तानदेशे पूर्वं दृष्टः।

Floods in Pakistan – August 2022 (Courtesy Washington Post)

२०२२-०८-२८ रविवासरः (2022-08-28 Sunday)

केशतैलम् (Hair Oil)

अद्य मया महापणे विपणित्रयं गतम् किन्तु कुत्रापि ते केशतैलं न विक्रीणन्ति। अपि अत्र कोऽपि केशतैलं न उपयुनक्ति?

२०२२-०८-२७ शनिवासरः (2022-08-27 Saturday)

अयं जयरामरमेशः (This is Jairam Ramesh)

गुलामः राहुलगान्धिनः दासत्वं अद्यात्यजत्। तद् दृष्ट्वा जयरामरमेशोऽचिन्तयदिदं युक्तं कारणम् अस्ति येन मया दासत्वस्य एकस्मिन् उत्तरस्मिन् सोपाने गन्तव्यम्। पश्यतु कथं सः उत्तरं सोपानम् आरोहति। इदमस्ति यत् विद्वांसः Congress culture इति व्याख्यान्ति।

२०२२-०८-२६ शुक्रवासरः (2022-08-26 Friday)

अमृतचिकित्सालयः (Amrit Hospital)

ह्यः अमृतचिकित्सालयस्य उद्घाटनम् अभवत्। मातामृतानन्दमयीदेव्याः ब्रह्मवर्चः पश्यतु। कथं एका देवी इदं सर्वं करोति।

२०२२-०८-२५ गुरुवासरः (2022-08-25 Thursday)

मत्तः केजरीवालः (Mr Kejriwal has lost it)

आङ्ग्लभाषायां एकोक्तिरस्ति, Give him enough rope and he will hang himself. सा उक्तिः केजरीवालेन इदानीं सिद्धा कृता। मतदाताभिः तेन सर्वं प्राप्तं किन्तु यतो हि सः धूर्तोऽस्ति सः यत् प्राप्तं तत् सः संग्रहीतुं न समर्थः। किन्तु सः समर्थोऽस्ति सर्वान् स्वधूर्तरूपं दर्शनाय। सः अस्मिन् विधानसभासत्रे स्वस्य विनाशमेव करिष्यति। सर्वे ज्ञास्यन्ति सः लघुजनोऽस्ति इति।

२०२२-०८-२४ बुधवासरः (2022-08-24 Wednesday)

छात्रा प्रसन्नाः (Students are happy)

सत्रस्य मध्ये एकस्य अन्यस्य पाठ्यक्रमस्य अध्यापनम् अद्य मया आरब्धम्। अयं पाठ्यक्रमः गतसप्ताहषट्कम् एकं अन्यं आचार्यः अध्यापयत्। अद्य होराद्वयं मया व्याख्यातम्। अयं वर्गः गतवर्षे मया अध्यापितः तस्मादहं छात्रान् जानामि। मम व्याख्यानं बुद्ध्वा छात्राः अवदन् यत् अस्माभिः सप्ताहषट्के न शिक्षितं तद् अस्मिन् व्याख्याने शिक्षितम्। जानामि छात्राः सन्ति। अद्य इदं वदन्ति श्वः किं वदिष्यन्ति कोऽपि न जानाति। किन्तु अद्य इदमुक्तम्।

२०२२-०८-२३ मङ्गलवासरः (2022-08-23 Tuesday)

स्फोटः (Bursting)

अद्य अस्माकम् अध्यक्षः मां प्रार्थयत् अपि अहं सत्रस्य मध्ये इदानीम् एकस्य पाठ्यक्रमस्य (Design of Electronic Circuits 3) इत्यस्य अध्यापनं आयोजनमपि कर्तुं शक्नोमि इति। अस्मिन् सत्रे अहम् एकं पाठ्यक्रमम् अध्यापयामि अन्यं कथं करणीयम्। तथापि मया तस्य अभ्यार्थनं स्वीकृतम्। पश्यामि कथं सर्वं सम्भवति।

२०२२-०८-२२ सोमवासरः (2022-08-22 Monday)