अथ तिङन्ते भ्वादयः (Now tin ending bhuu (to be) group roots)

रविवासरे २१-०९-२००८ आचार्येण लघुसिद्धान्तकौमुद्याः पाठं पुनरारब्धवान्। उत्तरगोलार्धस्य ग्रीष्मकाले आचार्यः अवकाशम् अकरोत्। प्रथमे पाठे अहं नासीत् यतो हि मया अन्यकार्यं कर्तव्यम्। गतरविवासरे २८-०९-२००८ अहं पाठे अभवम्। पाठे भ्वादिगणस्य लट्-लकारस्य रूपाणि सिद्धं कृतानि।

२००८-०९-३० मङ्गलवासरः (2008-09-30 Tuesday)

परिवादः पुनर्वादः च (Complaint and Appeal)

ह्यः मन्दिरे सामान्यसभा आसीत्। अद्य तस्मात् परिवादाः पुनर्वादाः आरब्धवन्तः। यदि भक्ताः ईश्वरं स्वाध्यात्मिकविकासाय इदृशं परिवादं पुनर्वादं कुर्युः तर्हि ईश्वरः तान् दर्शनं दास्यति इति अहं मन्ये।

२००८-०९-२९ सोमवासरः (2008-09-29 Monday)

वार्षिकसामान्यसभा (Annual General Meeting)

अद्य मन्दिरे सभा आसीत्। सभायां न्यूनतमः सदस्याः नासन् तस्मात् विकल्पसभा अकुर्मः। तस्यां सभायां भृशं कोलाहलम् अभवत्। ये सदस्याः स्व-इच्छापूर्तीं कर्तुं न शक्नुवन्ति ते चित्कारं कृत्वा निरगच्छन्। यदि भक्ताः इदृशाः सन्ति तर्हि नास्तिकाः किदृशाः भवन्ति।

२००८-०९-२८ रविवासरः (2008-09-28 Sunday)

उद्याने कार्यम् (Work in the garden)

अत्र ग्रीष्मऋतुः आगच्छति तस्मात् तापमानकं वर्धते। अद्य मया उद्याने शाकक्षेत्रात् फलवृक्षक्षेत्रात् च घासः अपाकर्षम्। आवयोः पुत्रः घासक्षेत्रे घासः अवपत्। इदानीं गृहस्य अग्रभागः पृष्ठभागः च मनोरमौ स्तः।

२००८-०९-२७ शनिवासरः (2008-09-27 Saturday)

गच्छावः (We two go)

रामः सः च वनं गच्छतः। सः त्वं च गृहं गच्छथः। सः अहं च पुस्तकालयं गच्छावः।

२००८-०९-२५ गुरुवासरः (2008-09-25 Thursday)

परिवादः अभियोगः प्रतिवेदनम् (Complaint)

अहं स्मर्तुं न शक्नोमि गतवारे कदा बालकाः मया सह संवादम् अकुर्वन्। ते सदैव परिवादं कुर्वन्ति। ते अभियोगं ददति। ते प्रतिवेदनम् एव वदन्ति। केन अपि प्रकारेण ते सन्तुष्टाः न भवन्ति। किं कर्तव्यम्। एषः मम परिवादः मम भार्यायाः अभियोगः सर्वस्य प्रतिवेदनम् च।

२००८-०९-२४ बुधवासरः (2008-09-24 Wednesday)

पुनर्वादः (Appeal)

प्रजातन्त्रव्यवस्थायां प्रत्येकनिर्णयात् परं पुनर्वादः कर्तुं शक्यते। प्रायः सर्वे अधिवक्तारः पुनर्वादात् आजीवीकाम् अर्जन्ति।

२००८-०९-२३ मङ्गलवासरः (2008-09-23 Tuesday)

अंशापणाः (Share markets)

सर्वाणां देशानाम् अंशापणाः दीर्घस्पन्दनं कुर्वन्ति। कोऽपि न जानाति इदृषं कथं भवति किन्तु सर्वे अभिनयं कुर्वति अहं जानामि अहं जानामि इति। अहं मन्ये अंशापणः द्यूतापणः अस्ति तस्मात् इदं भवति।

२००८-०९-२२ सोमवासरः (2008-09-22 Monday)

हवनः (Havan)

अद्य मन्दिरे आर्यसमाजपद्धत्या हवनः आसीत्। किञ्चित् मासपूर्वं समित्याः निर्वाचनस्य पूर्वं जनाः अवदन् इयम् समितिः हवनस्य आयोजनं न करोति इति तस्मात् मया रविवर्येण सह आयोजनं कृतम्। जूनमासे जनाः आगच्छन् जुलाई मासे जूनमासात् न्यूनाः जनाः आगच्छन् अगस्तमासे तस्मात् अपि न्यूनाः अद्य केवलौ मम च रविवर्यस्य परिवारौ आस्ताम्। किं कर्तव्यम्।

२००८-०९-२१ रविवासरः (2008-09-21 Sunday)

सुशीलजैनवर्यः (Shri Sushil Jain)

अद्य भारतदेशात् आगम्यमानः सुशीलजैनवर्यः प्रवचनम् अददात्। सः प्रत्येकवर्षे एकमासपर्यन्तं विश्वभ्रमणं कुर्वन् जैनधर्मस्य प्रचारं करोति। सः चलदूरभाषायाः अनेकाः दृष्टान्ताः अददात्। सः अकथयत् रिलायन्सव्यवसायस्य विज्ञापनम् अस्ति अस्माकं चलदूरभाषायाः विश्वं भवतः मुष्टिकायाम् भविष्यति इति किन्तु तया दूरभाषया कोऽपि स्वदूरभाषा-सङ्केतः योजयितुं न शक्नोति। तस्य प्रवचनः अत्यन्तरोचकः आसीत्।

२००८-०९-२० शनिवासरः (2008-09-20 Saturday)