मासस्य अन्तिमदिवसः (Last Day of the Month)

अद्य मासस्य अन्तिमदिवसः अस्ति। मासस्य प्रथमदिवसे अहं कथयामि – यथा अहम् अस्य जालपत्राणाम् क्रमकेन (with software) आयोजनं करोमि तम् आगामिषु दिवसेषु सम्यक् करिष्यामि इति। किन्तु मासस्य अन्तः अचिरः आगच्छति। नवीनमासाय सर्वम् आयोजनं अहमेव कर्तुम् अर्हामि। मम क्रमकेन स्वायोजनस्य (automatic by a program) इच्छा इच्छारुपे एव तिष्ठति। अहं मन्ये आगमीमासे अपि माम् अवकाशं न भविष्यति, सितम्बरमासे करिष्यामि।

२००६-०७-३१ सोमवासरः (2006-07-31 Monday)    

ज्वलितायाः जन्मदिवसः (Jwalita’s Birthday)

अद्य आवयोः प्रियकन्यायाः ज्वलितायाः जन्मदिवसः अस्ति। सा केन्बरानगरे अस्ति। ते इतः चतुर्दशहोरा अग्रे सन्ति। सा तस्याः जन्मदिवसे प्रातःकाले मां दूरभाषं कृतवान्। तत् कालं तु अत्र शनिवासरस्य सायंकालः आसीत्। अहं ताम् आशीर्वादं दत्तवान्। तस्याः माता ताम् उपहाराणि अपि दत्तवान्। ज्वलिता तस्याः षोडशमित्रैः सह क्रीडास्थानं गतवान्। तत्र विविधानि क्रीडाणि सन्ति। अहं तया सह ह्यः सायंकालात् परं न उक्तवान्। यदा वदामि तदा पृच्छामि तस्य जन्मदिवसः कथम् आसीत्।

२००६-०७-३० रविवासरः (2006-07-30 Sunday)

शीतमञ्जूषा (Cold box)

अत्र ग्रीष्म-ऋतुः अस्ति प्रचण्डः तापः अपि अस्ति। किन्तु विश्वविद्यालये यस्मिन् प्रयोगशालायाम् अहं कार्यं करोमि सा शीतमञ्जूषा अस्ति। अहं तत्र स्वेदित्रं धारयामि। ह्यः कस्मात् कारणात् वातानुकूलः न चलति तस्मात् अहं ह्यः तत्र सुखेन अतिष्ठम्। शीतऋतोः मम विशेषः सम्बन्धः अस्ति इति मन्ये। केन्बरानगरस्य शीतः वारयितुम् अहम् अत्र उष्णस्थाने आगच्छं तदापि शीतः मां न त्यजति।

२००६-०७-२९ शनिवासरः (2006-07-29 Saturday)

विद्युत् विना (Without Electricity)

अहं ह्यः रात्रौ एकवादने सुप्तवान्। किञ्चित् कला पर्यन्तम् अहम् अन्वभवं प्रकाशं किञ्चित् न्यूनं अभवत्। किन्तु अहं चिन्तितवान् क्लान्तः अस्मि तथा अतः अनुभवामि इति। यदि प्रातः पञ्चवादने अजागरं तर्हि अजानं विद्युत्प्रवाहः नास्ति। गतवारं यदा विद्युत् ना आसीत् तदा मया ज्ञातं कुत्रः दीपः अस्ति। अहं अन्धकारे दीपः शोधीतवान् ततः मम शौचकार्यं कृतवान् च। षठ्वादने सूर्यप्रकाशः अभवत्। अष्टवादने विद्युत् पुनः अवहत्।

२००६-०७-२८ शुक्रवासरः (2006-07-28 Friday)    

दम्पती वेतनजीविनौ (Working couple)

अद्य अहं मम मित्रस्य सुनीलस्य गृहम् अगच्छम्। तत्र दम्पती वेतनजीविनौ भवेताम् अथवा द्वाभ्याम् एकः वेतनजीवी भवेत् इति वार्तालापम् अभवत्। अहं मन्ये वयम् आवश्यकताभ्यः अधिकम् अर्जामः ततः यदि एकः अर्जति एकः परिवारं संयोजयति तर्हि श्रेष्ठः भवेत्। किन्तु कस्मात् कुकारणात् जना मन्यन्ते यदि कोऽपि वेतनाय कार्यं न करोति तर्हि सः कार्यं न करोति। गृहकार्यं परिवारस्य संयोजनं च वेतनाय कार्यात् महती स्तः।

२००६-०७-२७ गुरुवासरः (2006-07-27 Thursday)

श्रावणमासय प्रारम्भः (Beginning of the Month of Shravan)

नीरजवर्यः मां लिखितवान् अद्य श्रावणमासस्य आरम्भः भवति। अनेकेभ्यः वर्षेभ्यः परम् अहम् अस्मिन् ऋतौ उत्तरीयगोलार्धे अस्मि। मम बाल्यकाले यस्य श्रावणस्य अनुभवं कृतवान् तस्य अनुभवम् अत्र पुनः करोमि। ततः अपि भारतस्य श्रावणः अमेरीकीयश्रावणस्य भिन्नः अस्ति। द्वाभ्यां सप्ताहभ्यां परं भारतं गमिष्यामि ततः श्रावणस्य आनन्दम् अनुभविष्यामि च।

२००६-०७-२६ बुधवासरः (2006-07-26 Wednesday)

मित्रस्य गृहे गमनम् (Going to a friend’s place)

गत शनिवासरे अहं मम मित्रेण सन्तोषेण सह आवयोः मित्रस्य शुभाशिसस्य गृहं अगच्छम्। शुभाशिसस्य गृहम् इतः षष्ठ्यधिकं शतं सहस्रमानं(one hundred and sixty kilometers) दूरम् अस्ति। सन्तोषस्य गृहमपि षष्ठ्यधिकं शतं सहस्रमानं दूरम् अस्ति। किन्तु सन्तोषः इतः उत्तरतः तिष्ठति सुभाशिसः इतः दक्षिणतः तिष्ठति। वयं बैन्गलूरनगरे भारतीय-विज्ञान-विद्यालये (I.I.Sc., Bangalore) समकाले आसन्। ततः दौ अन्यौ पूर्वछात्रौ – प्रफुल्लवर्यं सुबीरवर्यं च – अपि अमिलम्। शुभाशिसस्य भार्या आवयोः उच्चतमः स्वागतं कृतवान्। प्रचुरमात्रायां भोजनं जलपानमपि दत्तवान्। तान् मिलित्वा अहम् अत्यन्तम् आनन्दम् अन्भवम्।

२००६-०७-२५ मङ्गलवासरः (2006-07-25 Tuesday)

भविष्यकाले “इ” – २ (“i” in Future tense – Part II)

रामः शत्रून् जेष्यति (will win)। नेतरः लोकेषु क्षेष्यन्ति (Leaders will posses power over people)। अहं अत्र सुखेन क्षेष्यामि (will stay)। सः तत्र दुःखेन कालं क्षेष्यति (will pass)। माता बालकं नेष्यति (will take)। गुरुः छात्रान् ज्ञानं प्रति आनेष्यति। तापः हिमं लेष्यति (will melt)। विदुषकः बालकान् भेष्यति (will make afraid)। तं किं भेष्यति। सः निर्भीकः अस्ति तं किमपि न भेष्यति। सा पुष्पाणि चेष्यति (will arrange)। छुरिकां शाकं लेष्यति (will stick)।

२००६-०७-२४ सोमवासरः (2006-07-24 Monday)

भविष्यकाले “इ” – १ (“i” in Future tense – Part I)

कश्चिद् धातुं भविष्यकाले “इ” युज्यते कश्चिद् धातुं न युज्यते। यथा – सः पठिष्यति, किन्तु – सः गास्यति।अहं प्रातःकाले ध्यास्यामि। सा रात्रौ स्नास्यति। ते सागरे स्नास्यन्ति। त्वं पुस्तकं धास्यसि (will hold)। वयं तं ज्ञास्यामः। ते किमपि न ज्ञास्यन्ति। अहं पुष्पं घ्रास्यामि। यूयं किं दास्यथ (will give)। सः वस्त्रं दास्यति। अपि भवान् अस्माकं गृहे कतिदिनेभ्यः स्थास्यति (will stay)। अहं अत्र अचिरकालेभ्यः स्थास्यामि। अपि त्वं स्थास्यसि। सः जलं पास्यति। आवां जलं पास्यावः (will drink)। त्वं गच्छ अहं त्वाम् आह्वास्यामि (will call)।

२००६-०७-२३ रविवासरः (2006-07-23 Sunday)

संस्कृते उल्लेखपत्रम् (Blog in Sanskrit)

अधुना संस्कृते अनेकानि उल्लेखपत्राणि (blogs) दृष्ट्वा अहं अत्यन्तः आनन्दितः भवामि। सा‍ईंवर्यः अनेकेभ्यः वर्षेभ्यः पूर्वेभ्यः विद्युत्प्रेषणेन (by e-mail) उल्लेखपत्रम् प्रेषयति (http://mailman.cs.utah.edu/mailman/listinfo/sanskrit)। तस्मिन् पत्रे अनेकाः पण्डिताः सामान्यजनाः अपि लिखन्ति। केचन् छात्राः एकं नवीनं प्रयोगम् आरब्धवन्तः – http://www.speaksanskirt.org।

तेभ्यः सर्वेभ्यः प्रयोगाः अत्यन्ताः प्रशंसनीयाः। मम एकम् अधिकं निवेदनम् अस्ति – कथम् इमानि पत्राणि देवनागरीलिप्याम् न लिखेयुः। संस्कृतं रोमनलिप्यां पठने अतीव कष्टः भवति। अधुना तु समलिप्यङ्कस्य (Unicode) प्रचुरः उपयोगः भवति तस्मात् जाल-पत्रे (in webpages) विद्युत्प्रेषणे (in e-mails) देवनागरीलिप्यां लिखनम् अतीव सरलः अस्ति। कृपया देवनागरीलिप्यां लिखन्तु।

संस्कृते कार्तिकवर्यस्य http://samskrtam.wordpress.com/, https://learnsanskrit.wordpress.com च उल्लेखपत्रे स्तः।

कृपया पश्यतु – http://www.ee.adfa.edu.au/staff/hrp/personal/Sanskrit-External/unicodenotes.html
२००६-०७-२२ शनिवासरः (2006-07-22 Saturday)