जयपुरतः निर्गतः (Left Jaipur)

अद्य अहं जयपुरनगरतः निरगच्छम्। जेट-एयरलाईन्स इत्यस्य विमानेन अहं जयपुरतः दिल्लीनगरम् आगच्छम्। जेट-एयरलाईन्स इति समवायः अवसानं गच्छति इति मन्यते किन्तु अहम् अद्य दिल्लीनगरं नियतकालात् पूर्वमेव प्राप्तः। दिल्लिनगरतः सिडनीनगराय विमानं द्विनिमिषायाः विलम्बेन प्रचलितं किन्तु सिडनीनगरं नियतकालात् विंशतिनिमिषां पूर्वम् एव प्राप्तम्। सिडनीनगरतः केन्बरानगरं सर्वयानेन आगच्छम्।

IMG-2333

२०१९-०३-३० शनिवासरः (2019-03-30 Saturday)

विनयः दिवं गतः (Shri Vinay Kothariji is no more)

अद्य मम मित्रं श्रीविनयकोठारीवर्यः दिवं गतः। आवां पिलानिग्रामे विद्यानिकेतनम् इति विद्यालये सार्थं आस्त। सः अनेकेभ्यः वर्षेभ्यः परं अस्मान् सर्वान् सहपाठिनः समाहृत्य एकस्मिन् गणे नियोजितवान्। सः दिल्लीनगरे निवसति स्मः। अस्माकं गणात् यः कोऽपि दिल्लीनगरम् आगच्छति सः तं महता आतिथ्येन स्वागतं करोति स्मः। सः दयावान् आसीत् समाजाय पुण्यकार्याणि अपि करोति स्म। अहं दुःखितः अस्मि। अयं नास्ति तस्य गमनकालः। ईश्वरं मोक्षाय प्रार्थे।

VinayKothariFri29March2019

२०१९-०३-२९ शुक्रवासरः (2019-03-29 Friday)

बूरथलग्रामः (Boorthala Village)

अद्य वयं पुनः बूरथलग्रामम् अगच्छाम। तत्र शोधकर्तारः प्रत्येकस्मिन् गृहे कति विद्युदुपकरणानि सन्ति इत्यस्य सर्वेक्षणं कुर्वन्ति।

BoorthalaVillage28March2019

२०१९-०३-२८ गुरुवासरः (2019-03-28 Thursday)

जयपुरविद्युद्वितरणनिगमः (Jaipur Vidyut Vitarana Nigam (Ltd.))

अद्य वयं निगमे गत्वा प्रबन्धनिदेशकम् अमिलाम। सः अत्यन्तः विनम्रः अस्ति अस्मान् प्रचुरं साहाय्यम् अकरोत् च।
JVVNL27March2019

२०१९-०३-२७ बुधवासरः (2019-03-27 Wednesday)

२०१९-०३-२६ मङ्गलवासरः (2019-03-26 Tuesday)

अद्य वयं जयपुरतः दिल्लीनगरम् अगच्छाम। तत्र भारतीय-प्रौद्योगिकीसंस्थाने एकायां गोष्ठ्याम् आस्म। याने अगच्छाम। प्रथमं वारं मया बृहद्जालेन यात्रायां संस्कृतव्याख्यानानि संस्कृतवार्ताः संस्कृतशिक्षणाय कार्यक्रमान् च अपश्यम्। महान् आनन्दः अजायत्।

IITDelhi26March2019

२०१९-०३-२६ मङ्गलवासरः (2019-03-26 Tuesday)

क्रान्तिः (The sun’s course on the elliptic)

यस्मिन् अर्थे क्रान्तिः इति हिन्दीभाषायां उपयुज्यते तस्मिन् अर्थे संस्कृतभाषायां न उपयुज्यते। हिन्दीभाषायां क्रान्तिः इति revolution किन्तु संस्कृतभाषायां सर्वे अर्थाः प्रायः ज्योतिषस्य विषयेषु एव सन्ति।

२०१९-०३-२५ सोमवासरः (2019-03-25 Monday)

उमरावसिंहपाटवावर्यः (Shri Umarava Singh Patawa)

अद्य अहं मम मातुलस्य कन्यायाः रुचिमहाभागायाः गृहम् अगच्छम्। तत्र अहम् ओला इति भाटकयानेन अगच्छम्। यानचालकः आसीत् उमराववर्यः। सः खलु योद्धा अस्ति। तस्य मते समाजे यापि कुरीतयः सन्ति तैः सह सः युद्धं करोति। कृपया तस्य इदं पत्रं पश्यतु। सः अकथयत् जनान् मेलितुं तान् स्वस्य कार्यम् अवबोधयितुं च सः भाटकयानं चालयति इति।

UmaraavaSinghPatawa24March2019

२०१९-०३-२४ रविवासरः (2019-03-24 Sunday)

मित्राभ्यां सह अमिलम् (Met two friends)

ह्यः सायङ्काले अहं मम प्रियमित्राभ्यां सह अमिलम्।
एकं मित्रं मैथिलीबल्लभशरणाग्रवालः इति नाम अजमेरतः अत्रागच्छत्। तेन सह अहं जयपुरनिवासिनः अशोकाग्रवालस्य गृहम् अगच्छम्। तत्र वयं गोष्ठीमन्वभवाम वार्तालापं व्यदध्म च। अशोकस्य जाया अस्मभ्यं स्वादिष्टानि भोजनानि सज्जितवती।

न कोऽपि आनन्दः अस्ति मित्रेभ्यः सह गोष्ठ्या सदृशः।

२०१९-०३-२३ शनिवासरः (2019-03-23 Saturday)

वटिका (Vada)

वटिका इति शब्दस्य कल्पद्रुमे इदं सुन्दरं वर्णनम् अस्ति।

वटिका वटिका, स्त्री, (वटिरेव . स्वार्थे कन् . टाप् .)वटी . वडी इति भाषा . तत्पर्य्यायः . निस्तली२ . इति शब्दचन्द्रिका .. अथ वटिकाविधिः .“ वटका अथ कथ्यन्ते तन्नामा वटिका वटी .मोदको गुटिका पिण्डी गुडो वर्त्तिस्तथोच्यते ..लेहवत् साध्यते वह्रौ गुडो वा शर्कराथवा .गुग्गुलुर्वा क्षिपेत्तत्र चूर्णं तन्निर्म्मिता वटी ..” तत्र वह्निसिद्धे गुडादौ .“ कुर्य्यादवह्रिसिद्धेन क्वचिद्गुग्गुलुना वटीम् .द्रवेण मधुना वापि गुटिकां कारयेद्बुधः ..सिता चतुर्गुणा देया वटीषु द्बिगुणो गुडः .चूर्णे चूर्णसमः कार्य्यो गुग्गुलुर्मधु तत्समम् ..” तत्समं चूर्णसमम् .“ द्रवन्तु द्विगुणं देयं मोदकेषु भिषग्वरैः ..” द्रवं चतुर्गुणमिति वा पाठः . द्रवं द्रवरूपं द्रव्यम् .“ कर्षप्रमाणा तन्मांत्रा बलं दृष्ट्वा प्रयुज्यते .बलमिति कालादेरप्युपलक्षणम् . इति भाव-प्रकाशः .. * .. व्यञ्जनोपयोगिद्रव्यम् . अस्यापिवडी इति भाषा . यथा, –“ माषाणां पिष्टिका हिङ्गुलवणार्द्रकसंस्कृता .तया विरचिता वस्त्रे वटिकाः साधु शोषिताः ..तालितास्तप्ततैले ता अथवा सुप्रलेहिताः .घटकस्य गुणैर्युक्ता ज्ञातव्या रुचिदा भृशम् ..कुष्माण्डकवटी ज्ञेया पूर्ब्बोक्तवटीकागुणा .विशेषात् पित्तरक्तघ्नी लघ्वी च कथिता बुधैः ..मुद्गानां वटिका तद्वद्रचिता साधिता तथा .पथ्या रुच्या ततो लघ्वी मुद्गसूपगुणा स्मृता ..” इति भावप्रकाशः ..

२०१९-०३-२२ शुक्रवासरः (2019-03-22 Friday)

होलिकादहनः (Holi)

ह्यः अस्माभिः होलिकापर्व पर्यपाल्यत। मम भ्राता माता च पौर्णमास्यै वृत्तानि इत्यादीनि अन्वतिष्ठताम्। मया अपि व्रतानि परिपालितव्यानि किन्तु प्रातःकाले एव मया पक्ववाटिका खादिता तस्मात् व्रतभङ्गः अभवत्। रात्रौ प्रायः नववादने मम भ्रात्रा सह अहं गृहात् बहिः त्रयाणां होलिकादहनानां दर्शनम् अकरवम्। दर्शनस्य परं भोजनं भुक्तम् च।

२०१९-०३-२१ गुरुवासरः (2019-03-21 Thursday)