चर्ममुद्रकाः सन्ति निर्वाचनायोगायुक्ताः (Makers of leather coin are the election commissioners)

वार्तास्ति हिमायूनेन एकस्मै दिवसाय निजाम-उद्-दीन्-सक्का राजा इति पदे स्थापितः। सः चर्मकारः आसीत् तस्मात् पदे आरूढे सः विनिमयाय चर्ममुद्रा इत्यस्याः मुद्रणमकरोत्। तथा निर्वाचनायोगायुक्ताः यदा दायित्वं प्राप्नुवन्ति तदा तस्य अतिशयं विस्तारं कुर्वन्ति। इदानीं पञ्चराज्येषु निर्वाचनाय ते प्रायः मासादपि अधिकं (२७-मार्च-२०२१तः २-मई-२०२१पर्यन्तम्) कालं व्ययिष्यन्ति। तस्मिन् काले न कोऽपि प्रसाशनकार्यं भविष्यति आयुक्तानां स्वच्छन्दशासनं प्रचलिष्यति। मन्ये ते आयुक्ताः निजाम-उद्-दीन्-सक्का इत्यस्मात् न भिन्नाः सन्ति।

२०२१-०२-२८ रविवासरः (2021-02-28 Sunday)

रो रि (८.३.१४) (An r is elided when one r follows another r)

रामलक्ष्मणसीताभी राज्ञा दशरथेन च।
सभार्येण सराष्ट्रेण यत्प्राप्तं तत्र तत्त्वतः॥रामायणं बालकाण्डे ३.३
रामलक्ष्मणसीताभिः राज्ञा – ससजुषो रुः (८.२.६६) रो रि (८.३.१४) ढ्रलोपे पूर्वस्य दीर्घोणः (६.३.१११) – रामलक्ष्मणसीताभी राज्ञा
This is about sage Valmiki’s vision about the incidences of Ramachandra’s life.

२०२१-०२-२७ शनिवासरः (2021-02-27 Saturday)

मम हेत्वाभासः (My fallacious reasoning)

इदानीं केन्बरानगरस्य उत्तरीयभागे सर्वसंयानं सुष्ठुरूपेण प्रचलति। पूर्वं मया तस्य केन्बरासंयानव्यवहारस्य विरोधः कृतः। अहमसम्यगतर्कयं संयाने अत्यल्पाः यात्रिणः भविष्यन्ति इति तस्मात् अस्माकं करः वर्त्स्यति/वर्धिष्यते। किन्तु पश्यामि संयाने पर्याप्तयात्रिणः सन्ति। तस्य अहेतुकाय विरोधाय क्षमां याचे।

२०२१-०२-२६ शुक्रवासरः (2021-02-26 Friday)

आकाशवाणी केन्बरागता (Akashvani Came to Canberra)

अस्माकं केन्बरासंस्कृताभासीवर्ग अद्येयमाकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् इति स्वयमागच्छत्। बलदेवानन्दसागरमहाभगेन रामयणमाश्रित्य एका धारावाहिकनाटकस्य रचना कृता। तस्य परिचयोऽद्य तेन अस्मभ्यं प्रदत्तः। तेन नाटकेषु कानि कानि अङ्गानि सन्ति तस्य लघुपरिचयोऽपि व्याख्यातः स्वरचितं रामायणमपि गीतम्। सर्वे वर्गीया आनन्दमन्वभवन्। बलदेवानन्दमहाभागेभ्यो वयं नैकान् धन्यवादान् व्याहरामः।

Canberra Sanskrit Class with Dr Baldevananda Sagar – Wed 24 Feb 2020

२०२१-०२-२५ गुरुवासरः (2021-02-25 Thursday)

जयतु सूरतनगरम् (May Surat be on Top)

नैकोऽपि नगरसङ्घे न विधानसभायां च।
न लोकसंसदि किं नगरं किं दलं को नेता॥
गुर्जरप्रदेशे सूरतनगरं काँग्रेसदलं नेता तु विदित एव।

As Received via WhatsApp

२०२१-०२-२४ बुधवासरः (2021-02-24 Wednesday)

तापसः तपः तप्यते (The ascetic does askesis)

कर्मवत् कर्मणा तुल्यक्रियः (२.१.८७) अनेन सूत्रेण सिद्धान्तकौमिदीत्यस्मिन् कर्मकर्तृतिङ्प्रकरणमारभतेऽस्मिन् प्रकरणे कर्ता कदा कर्मवद् भवति तस्य विवरणमस्ति।
तपस्तपःकर्मकस्यैव (२.१.८८)
तपः तापसं तपति। इदं वाक्यं तपस्तपःकर्मकस्यैव (२.१.८८) इति सूत्रेण लेखितुं शक्यते – तापसः तपः तप्यते। अत्र तपः इति द्वितीयान्तं पदमस्ति।

२०२१-०२-२३ मङ्गलवासरः (2021-02-23 Tuesday)

न्यायाधीशाः ऊचुः (The Judges have Spoken)

राष्ट्रप्रेमिणः राष्ट्रपतिं लिखन्ति। अहं सम्यग् जाने भारतविरोधिशक्तयः कथं कार्यं कुर्वन्ति। अद्य तेषां समर्थनं लाभाय प्रतीयते किन्तु तेषां छद्म आचारः कदापि हिताय न भविष्यति। इदमिमे न्यायाधीशाः जानन्ति तस्माद् वदन्ति। शृण्वन्तु।
https://www.indiatoday.in/india/story/disha-ravi-support-sickening-ex-cbi-chief-former-judges-letter-president-kovind-1771640-2021-02-22

२०२१-०२-२२ सोमवासरः (2021-02-22 Monday)

पेशलः सुन्दरः (Beautiful)

पेशलः पिशँ अवयवे भावे घञ् पेशलातीति ला क चारुः इति कल्पद्रुमः।
इदं शरीरं परिणामपेशलं पतत्यवश्यं श्लथसन्धिजर्जरम्। किमौषधैः क्लिश्यसि मूढः दुर्मतिः। निरामयं कृष्णरसायनं पिब इति मुकन्दमालायाम्।

मण्डलम् १, सूक्तम् १६१, ऋक् १०
संहिता
श्रो॒णामेक॑ उद॒कं गामवा॑जति मां॒समेकः॑ पिंशति सू॒नयाभृ॑तम् ।
आ नि॒म्रुच॒ः शकृ॒देको॒ अपा॑भर॒त्किं स्वि॑त्पु॒त्रेभ्य॑ः पि॒तरा॒ उपा॑वतुः ॥

२०२१-०२-२१ रविवासरः (2021-02-21 Sunday)

परिकल्पनम् (Imagination)

एतत्तु नोपपद्यत इत्याह –
कुतश्चिदाहृत्य पदमेवं च परिकल्पने।
कर्मस्थभावकत्वं स्याद् दर्शनाद्यभिधायिनाम्॥वाक्यपदीये साधनसमुद्देशः ६५॥
इदं पद्यं कर्मकत्तृविषये कर्म एव कर्ता भवति इति प्रकरणेऽस्ति।
The being may be established in karma for actions known as seeing, etc., this is done by taking word(s) from anywhere and by imagination (i.e., not in reality but in imagination).

२०२१-०२-२० शनिवासरः (2021-02-20 Saturday)

श्रीधरस्वामिनः प्रमाणपत्रम् (Certificate from the Metroman E. Sreedharan)

श्रीधरस्वामी प्रमाणीकरोति यद्जगद्विदितमस्त्यैव। भाजपदलं राष्ट्रप्रेमिणां दलमस्ति इति श्रीधरस्वामी उद्घोषयति। तस्य विपर्यासं भवानेव चिन्तयतु।

२०२१-०२-१९ शुक्रवासरः (2021-02-19 Friday)