आनयति नयति (Bring, take)

प्रायः दृश्यते यत्र take इति प्रयोक्तव्यं तत्र bring इति प्रयुज्यते। अस्मिन् लेखे व्याख्यातं कुत्र किं पदं प्रयोक्तव्यम् इति। अत्र आगच्छति गच्छति इति पदाभ्यां सह तयोः सम्बन्धोऽपि दर्शितः।
https://www.grammarly.com/blog/bring-vs-take/#:~:text=When%20someone%20causes%20something%20to,we%20say%20it’s%20being%20taken.

२०२३-०१-०२ सोमवासरः (२०२३-०१-०२ Monday)

विराटः किं शिक्षयति (What does Virat teach us?)

विराटः देशविशेषः तस्य राजा च। विराटः यत्र पञ्चपाण्डवाः सह द्रौपद्या अज्ञातमुषितवन्तः। युयुधानो विराटश्च इति गीता।
विराज् दीप्तौ व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इति सूत्रेण षकारादेशः। झलां जशोऽन्ते (८.२.३९) इति सूत्रेण टकारादेशः। विराटः।

२०२२-१०-२३ रविवासरः (2022-10-23 Sunday)

श्रेयः (Better Condition)

संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि।
यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम्॥गीता ५.१
यत् श्रेयः यच्छ्रेयः शश्छोऽटि (८.४.६३)
सुनिश्चितम् एकं श्रेयः किम् कर्मानुष्ठानं श्रेयः किं वा तद्धानम् इति ब्रूहि।

२०२२-१०-१५ शनिवासरः (2022-10-15 Saturday)

सन्धिविग्रहेण अभिभूतः (Defeated by Sandhi Vigraha)

आत्तसज्जधनुषाविषुस्पृशावक्षयाशुगनिषङ्गसङ्गिनौ।
रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम्। रामरक्षास्तोत्रम् २०॥
आत्तधनुषौ इषुस्पृशौ अक्षय-आशुग-निषङ्ग-सङ्गिनौ।
श्लोकं पठित्वा मया चिन्तितम् इयं समासिता पङ्क्तिरस्ति इति। तस्मात् अर्थः न प्राप्तः। न समासः सन्धिरस्ति यदेति ज्ञातं तदार्थः सरल एव।

२०२२-०८-३१ बुधवासरः (2022-08-31 Wednesday)

प्र॒यन्त्स्व॑: (Going to the sun)

यजुर्वेदे ३.६ ऋग्वेद १०.१८९.१ च इति मन्त्रे अस्ति प्र॒यन्त्स्व॑:। प्रयन् स्वः। न जाने अत्र प्रयन्त्स्वः इत्यस्मिन् कः सन्धिरस्ति इति। पण्डिताः विशदीकुर्वन्तु। (नश्च (८.३.३०))

२०२२-०५-२९ रविवासरः (2022-05-29 Sunday)

कस्मिंश्चित् (Somewhere)

कस्मिन् + चित् = कस्मिंश्चित्। अत्र नश्छव्यप्रशान् (८.३.७) इति सूत्रेण नः रुँ भवति। तत्परम् अनुनासिकात् परोऽनुस्वारः (८.३.४) इत्यनेन सूत्रेण अनुनासिको भवति। ततः परं रः विसर्जनीयः ततः स् इति।
मम मनसि सदा भ्रम आसीत् रुत्वं तु अनेकैः सूत्रैः भवति तदा कथं सर्वत्र अनुस्वारः न आगच्छति। अद्य ज्ञातं यदा (८.३.१) सूत्रतः (८.३.१२) सूत्रपर्यन्तं केनापि सूत्रेण रुँ भवति तदैव अनुस्वारः आगच्छति इति। नष्टो भ्रमः स्मृतिर्लब्धा।

२०२२-०५-०३ मङ्गलवासरः (2022-05-03 Tuesday)

सम्प्रदानस्य शेषत्वेन षष्ठी (Sixth-ending for Dative case)

शकुन्तला – इदानीमपि सहसा एतयोः न शक्नोमि निवेदितुम्। अभिज्ञानशाकुन्तले तृतियोऽङ्कः।
रामाय निवेदितुं शक्नोमि। निविद् इति सोपसर्गधातुना सह चतुर्थी प्रयुज्यते किन्तु रामस्य निवेदितुं शक्नोमि इत्यपि साधुः प्रयोगः।

२०२२-०४-२५ सोमवासरः (2022-04-25 Monday)

प्रतिभाति सा मे (She appears to me)

चित्रे निवेश्य परिकल्पितसत्त्वयोगा
रूपोच्चयेन मनसा विधिना कृता नु
स्त्रीरत्नसृष्टिरपरा प्रतिभाति सा मे
धातुर्विभुत्वमनुचिन्त्य वपुश्च तस्याः॥अभिज्ञानशाकुन्तलम् २.९॥
हिन्दीभाषायां मुझे वो प्रतीत होती है इत्यत्र मुझे इति कर्मकारकोऽस्ति किन्तु संस्कृते सा मे प्रतिभाति इत्यत्र मे इति सम्बन्धकारकोऽस्ति। न जाने अत्र स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च (२.३.३९) वा षष्ठी शेषे (२.३.५०) सूत्रेण मे इत्यस्य षष्ठी विभक्तिः भवति। मन्ये भा दीप्तौ इति अकर्मकोऽस्ति तस्मादयं प्रश्नः उदेति।
एकोऽपि पण्डितः ब्रूते – षष्ठी शेषे (२.३.५०) सूत्रेणैव मे इत्यस्य षष्ठी विभक्तिः भवति इति।

२०२२-०२-१८ शुक्रवासरः (2022-02-18 Friday)

प्रजिघाय (Sent)

ततो दशाऽऽस्यः स्मर-विह्वलाऽऽत्मा चार-प्रकाशीकृत-शत्रु-शक्तिः।
विमोह्य माया-मय-राम-मूर्ध्ना सीतामनीकं प्रजिघाय योद्धुम्॥भट्टिकाव्यम् १४.१॥
प्रजिघाय प्रेषयामास। हि गतौ वृधौ च
हि इत्यस्य लिट्लकारे एकाचो द्वे प्रथमस्य (६.१.१), कुहोश्चुः (७.४.६२), हेरचङि (७.३.५६) इति सूत्रैः जिघाय इति रूपं भवति।

२०२२-०२-१६ बुधवासरः (2022-02-16 Wednesday)

उक्तमासीत् (Was Said)

उत्तररामचरिते –
लक्ष्मणः – उक्तमासीदार्येण सर्वथैतानि (जृम्भकास्त्राणि) त्वत्प्रसूतिमुपस्थास्यन्तीति। (पृष्ठम् ५३७)
(नेपथ्ये) उक्तमासीदायुष्मता वत्सायाः परित्यागे यथा भगवति वसुन्धरे श्लाघ्यां दुहितरमवेक्षस्व जानकीमिति। तदधुना कृतवचनास्मि प्रभोर्वत्सस्येति। (पृष्ठम् ५४६)
अभिज्ञानशाकुन्तले –
विदूषकः – अरण्ये मया रुदितमासीत्। (पृष्ठम् ६०)
देवानाम् । दीव्यंतीति देवा रश्मयः तेषाम्। देवजनानामेव वा। अनीकं तेजःसमूहरूपं चित्रमाश्चर्यकरं सूर्यस्य मंडलमुदगात् उदयाचलं प्राप्तमासीत्। सायणभाष्यम् मण्डलम् १, सूक्तम् ११५, ऋक् १
उक्तमासीत् रुदितमासीत् इति अत्र आसीत् इत्यस्य कः प्रयोजनः? न बोधामि कृपया विशदीकुर्वन्तु।

२०२२-०२-०१ गु२०२२-०२-०१ मङ्गलवासरः (2022-02-01 Tuesday)