Updates from April, 2009 Toggle Comment Threads | Keyboard Shortcuts

  • Himanshu Pota 12:05 am on April 30, 2009 Permalink | Reply  

    आवृत्तिवाचकाः शब्दाः (Multiple occurence words) 

    Sohan got double the money from business. सोहनः व्यापारात् द्विगुणम् धनं अलभत।
    The height of this house is thrice of that house. अस्य गृहस्य उच्चता तस्य गृहस्य त्रिगुणा अस्ति।
    In this school there are forty times more students. अस्मिन् विद्यालये चत्वारिंशद्गुणाः अधिकाः छात्राः अभवन्।

    २००९-०४-३० गुरुवासरः (2009-04-30 Thursday)

     
    • अनिल कुमार 2:14 am on April 29, 2009 Permalink | Reply

      I’d tell you an interesting thing. Consider these four Hindu surnames:

      Bedi
      Dwivedi
      Trivedi
      Chaturvedi

      Notice something? 🙂

    • hnbhat 2:31 am on April 12, 2012 Permalink | Reply

      आवृत्तिवाचकाः शब्दाः – would mean words denoting repetition or recurrence.

  • Himanshu Pota 1:04 am on April 29, 2009 Permalink | Reply  

    समुदायबोधकः (Group Indicators) 

    Did both the students go? किं द्वापि छात्रौ गतौ।
    In this room 35 students can study. अस्मिन् प्रकोष्ठे पञ्चविंशदपि पठकाः पठनाय शक्नुवन्ति।
    All fifty soldiers were killed in the fight. पञ्चाशदपि सैनिका युद्धे हस्ताः।
    Have you spent all sixteen dollars? किं त्वया षोडशापि डोलरा व्ययिताः।
    All the eight thieves ran away. अष्टापि चौराः पलायिताः|

    २००९-०४-२९ बुधवासरः (2009-04-29 Wednesday)

     
  • Himanshu Pota 12:03 am on April 28, 2009 Permalink | Reply  

    अभिनेता फिरोज़खानः दिवं गतः (Actor Feroz Khan passed away) 

    ह्यः रात्रौ सार्ध-एकवादने बेंगलुरुनगरे अभिनेता फिरोज़खानः दिवं गतः। मह्यं सः रोचते। आरज़ू इति चलचित्रे तस्य अभिनयः मह्यं विशेषकरः रोचते। सः कन्नडभाषी आसीत् तथापि तस्य हिन्दीभाषा-उच्चारणे सः कन्नडभाषी इति बोधः न भवति।

    २००९-०४-२८ मङ्गलवासरः (2009-04-28 Tuesday)

     
    • अनिल कुमार 3:29 am on April 28, 2009 Permalink | Reply

      An attempt at translation:

      Yesterday 1’o clock in the night, actor Firoz Khan passed away in the city of Bangalore. I used to like him. I specially liked his acting in the movie Arzoo. He was a Kannada speaker, though it could not be recognized from his Hindi accent.

      मह्यं = me?

      • Himanshu Pota 7:20 am on April 28, 2009 Permalink | Reply

        मह्यं = me?
        मह्यम् is the dative case singular (caturthi vibhakti) of अस्मद् (I), so it’s used in the sense of for me. With the dhaatu रुच् – prathamaa vibhakti is used for what is liked and chaturthi vibhakti for who likes it.

        I like laddoo. मह्यं मोदकं रोचते|

        • Anil Kumar 8:55 am on April 28, 2009 Permalink

          So basically मह्यं is like Hindi’s मुझे? Sorry my knowledge about grammar is very poor.

        • Himanshu Pota 11:03 am on April 28, 2009 Permalink

          So basically मह्यं is like Hindi’s मुझे?
          मह्यम् is more in the meaning of मेरेलिये
          मह्यम् is used in the sense of मेरेको, मुझको, मुझे, when it is governed by special verbs like यच्छ् रूच्| I don’t have the complete list but suffice to remember that there are certain verbs where the object has to be in the dative case.
          सः मह्यं मोदकं यच्छति|

  • Himanshu Pota 10:17 am on April 27, 2009 Permalink | Reply  

    उवाच (said) 

    आवयोः कन्या विश्वविद्यालये संस्कृतस्य अध्ययनं करोति। इदानीं ते रामायणात् गद्यं पठन्ति। इतिहासग्रन्थे लिट्लकारस्य प्रचुरः प्रयोगः अस्ति। मया मतं उवाच इति वद् इति धातोः लिट्लकारस्य प्रथमपुरुषस्य एकवचनस्य रूपम् अस्ति किन्तु इदं ब्रू धातोः रूपम् अस्ति।
    अदादिगणी ब्रू इति धातोः लिट्लकारस्य रूपाणि
    उवाच ऊचतुः ऊचुः
    उवचिथ,उवक्थ ऊचथुः ऊच
    उवाच,उवच ऊचिव ऊचिम

    २००९-०४-२७ सोमवासरः (2009-04-27 Monday)

     
    • Srinivasa 12:26 pm on April 29, 2009 Permalink | Reply

      ब्रूञ् व्यक्तायां वाचि (अदादिगणः) । ‘ब्रुवो वचिः 2.4.46 ‘ इत्यार्द्धधातुकविषये वच्यादेशः। यथा ‘अस्तेर्भूः 2.4.52’ इत्यार्द्धधातुके। धातुवृत्तिः दर्शनीयः – अदादिगणः धातु सं 46 ( ब्रूञ् व्यक्तायां वाचि ), 66 (वच परिभाषणे) , 70 (अस भुवि)।

      इयं प्रक्रिया आङ्ग्लभाषायां suppletion इत्युच्यते। यथा go धातौ went, gone तथा be धातौ is, will इत्यादयः आदेशाः दृश्यन्ते। एवं good, better, best एवं bad, worse, worst इति अतिशयवाचके suppletion भवति।

      आचार्यवर्यः एतद्विषये श्रीमुखं दत्तवान् – Deshpande, Madhav M. 1992. Justification for verb-root suppletion in Sanskrit.
      Historische Sprachforschung 105. Part 1. 18-49.

      • hnbhat 4:15 pm on June 2, 2012 Permalink | Reply

        एवमेव – लङ् लकारे अब्रवीत् – अब्रूताम् – अब्रुवन् इति रूपाणि। किं तु – लुङ्लकारे – अवोचत् – अवोचताम् -अवोचन् इति रूपाणि।

        लृटि, वक्ष्यति – वक्ष्यतः – वक्ष्यन्ति इति रूपाणि । आर्धधातुकविषये एवायं विशेषः।

        अत एव, क्तान्ते, उक्तमिति रूपम्, शत्रन्ते तु – ब्रुवन् – ब्रुवन्तौ – ब्रुवन्तः इति रूपाणि। कृदन्तेषु चायं रूपादेशः।

        केवलस्य वच धातोस्तु न सार्वत्रिकः प्रयोगः दृश्यन्ते – वक्ति -वक्तः इति केवलं वचनद्वये एव प्रयोगः, न पुनः वचन्ति इति बहुवचनमस्ति। इति विशेषः।

  • Himanshu Pota 10:29 am on April 26, 2009 Permalink | Reply  

    ला‍इप्त्सिग्नगरम् (Liepzig City) 

    सदानन्दवर्यः ला‍इप्त्सिग्नगरे विश्वविद्यालये संस्कृतविभागे प्राचर्यः अस्ति। सः मां प्रथममेव संभाषणसंस्कृतस्य स्वादं दत्तवान्। सः फरवरी२००६समये केन्बरानगरम् आगच्छत्। पूर्वं मया लाप्त्सिग्नगरस्य नाम एव न श्रुतं किन्तु तं मिलित्वा ज्ञातम् अस्मिन् नगरे वागनरः ला‍इब्नित्सः ग्योथेवर्यः तत्र एव स्वकार्यम् अकुर्वन्। अद्य मां आचर्यः कथयति एकः रूसीसंस्कृतज्ञः बोह्ट्लिन्ग्वर्यः Otto von Bohtlingk अपि तत्र कार्यम् अकरोत्। बोह्ट्लिन्ग्वर्येण सुविख्यातः संस्कृतकोषः रचितः http://en.wikipedia.org/wiki/Otto_Bohtlingk।

    २००९-०४-२६ रविवासरः (2009-04-26 Sunday)

     
    • Navnidhi 10:21 am on April 27, 2009 Permalink | Reply

      Goethe = गेटे ?

  • Himanshu Pota 9:42 am on April 25, 2009 Permalink | Reply  

    अल्पं न किन्तु शून्यम् (Not less but zero) 

    मया ह्यः एकां संस्कृतप्रेमिनीं निवेदनं कृतं भवती वृत्तपत्रे लिखतु इति। सा प्रत्यवदत् – मम ज्ञानं अल्पम् एव, भवान् जानाति एव अल्पविद्या भयङ्करिः इति। तस्याः प्रतिवदनं पठित्वा अहं मन्ये यदि तस्याः ज्ञानम् अल्पम् अस्ति तर्हि मम ज्ञानं शून्यम् एव अस्ति। अहम् अस्य वृत्तपत्रस्य पाठकान् पूर्वसूचनां ददामि – इदं वृत्तपत्रं तेभ्यः अतिभयङ्करम् एव।

    २००९-०४-२५ शनिवासरः (2009-04-25 Saturday)

     
    • अनिल कुमार 3:26 pm on April 25, 2009 Permalink | Reply

      Sorry this time I’m finding it very difficult, still an attempt at translation:

      Yesterday I requested a sanskrit-lover (lady) to write a blog. She said in return – “my knowledge is little, and you well know little knowledge is dangerous. After reading her reply, I believe if her knowledge is little, then my knowledge is also zero. I am giving information to my blog readers in advance – This blog is much worse than hers.

      (I encountered difficulties in finding who is “doer”, and to whom is the sentence being addressed)

      • Himanshu Pota 8:47 pm on April 25, 2009 Permalink | Reply

        The last sentence is: I am warning all the readers that this blog is very dangerous for them.

        Instead of “also zero”, I meant “only zero”.

        The other part of your translation is perfect. At least that’s what I meant to convey.

  • Himanshu Pota 9:25 am on April 24, 2009 Permalink | Reply  

    अनुवादाय निवेदनम् (Request for translation) 

    अस्मिन् वृत्तपत्रे प्रतिवदनस्य (of reply or comments) स्थाने जनाः प्रायः अनुवादाय निवेदनम् एव कुर्वन्ति। तेषां निवेदनं पूरयितुं किञ्चित् वारं अहं समर्थः एव अस्मि किन्तु अनेकवारम् असमर्थः अस्मि। अहं अन्यान् संस्कृतज्ञानिनः निवेदनं करोमि यदि ते अनुवादं कर्तुं शक्नुवन्ति तर्हि ते कुर्युः इति।

    २००९-०४-२४ शुक्रवासरः (2009-04-24 Friday)

     
    • Anil Kumar 8:31 am on April 26, 2009 Permalink | Reply

      Attempt at translation:

      People often leave request for translation on my blog’s “comments” section. Sometimes I am able to fulfil their request, but sometimes I am not able to do so. I request other learned people of Sanskrit if they can do it, please oblige.

      Words I didn’t know:
      शक्नुवन्ति

      • Himanshu Pota 10:32 am on April 26, 2009 Permalink | Reply

        शक्नुवन्ति – They are able.

        Since शक्नुवन्ति is third person plural, “they” is implied and शक्नुवन्ति by itself means “are able”.

  • Himanshu Pota 10:50 pm on April 23, 2009 Permalink | Reply  

    विशेषा व्यवस्था (Special feature) 

    मम कार्याय अहं डीस्पेस इति क्रमकः (program) मेटलेबक्रमकेन सह प्रयुनज्मि। तस्मिन् क्रमके एका विशेषा व्यवस्था अस्ति। ता व्यवस्था अहं प्रयोक्ष्यामि अथवा न प्रयोक्ष्यामि इति अहं न जानामि किन्तु ता व्यवस्था अस्ति तस्मात् कथं ताम् प्रयुज्मि इति चिन्ता मम बाधते स्म। अद्य मया अर्धदिवसः तस्मै कर्याय व्ययीकृतः। सायंकाले षड्वादने अहं सफलीभूतः अभवत्। तस्मिन् एव काले आवयोः पुत्रं दिव्यांशुः मम प्रयोगशालायाः द्वारं शब्दापयत्। सः मम यानं नेतुम् इच्छति।

    २००९-०४-२३ गुरुवासरः (2009-04-23 Thursday)

     
  • Himanshu Pota 8:46 am on April 22, 2009 Permalink | Reply  

    विद्यालयस्य १९७४गणस्य मेलनं (Re-union of 1974 school batch) 

    रविवासरे १९-०४-२००९तिथौ दिल्लिनगरे अस्माकं विद्यालयस्य १९७४गणस्य मेलनम् आसीत्। अस्माकं विद्यालयः विद्यानिकेतनः इति नाम पिलानीग्रामे राजस्थानराज्ये अस्ति किन्तु तत्र कोऽपि न निवसति तस्मात् मेलनं दिल्लिनगरे आसीत्। मम मित्रं आलोकः दक्षिणभारतात् सेलमनगरात् तत्र गतवान्। सः लिखति तत्र त्रयोविंशतिः सहपाठिनः आसन्। तस्मात् सः त्रीन् सहपाठिनः विहाय सर्वान् अनुस्मर्तुम् अशक्नोत्। अन्तिमवारे सः अधिकांशान् सहपाठिनः पञ्चत्रिंशते वर्षेभ्यः पूर्वेभ्यः दृष्टवान्।

    २००९-०४-२२ बुधवासरः (2009-04-22 Wednesday)

     
    • अनिल कुमार 7:29 am on April 23, 2009 Permalink | Reply

      Attempt at English translation:
      On Sunday, 19-04-2009, there was a meeting of our school’s 1974 batch in Delhi. Though our school “Vidya Niketan” (literally, home of education) is situated in Pilani village of Rajasthan, but nobody lives there, therefore the meeting was (held) in Delhi. My friend Alok from South Indian city of Selam went there. He writes there were 23 friends who studied with us there. तस्मात् सः त्रीन् सहपाठिनः विहाय सर्वान् अनुस्मर्तुम् अशक्नोत्। (Couldn’t understand this one). He saw most of his co-students after 35 years. (I couldn’t translate this one perfectly I think).

      Words I don’t know:
      त्रीन् =
      विहाय =
      अनुस्मर्तुम् =
      अशक्नोत् =
      अंतिमवारे = On the last day?

      • Himanshu Pota 8:54 am on April 23, 2009 Permalink | Reply

        तस्मात् सः त्रीन् सहपाठिनः विहाय सर्वान् अनुस्मर्तुम् अशक्नोत्। From that group, excepting three students, he was able to recognise all.

        अन्तिमवारे सः अधिकांशान् सहपाठिनः पञ्चत्रिंशते वर्षेभ्यः पूर्वेभ्यः दृष्टवान्। – The last time he saw majority of these students was 35 years ago.

        Words I don’t know:
        त्रीन् = three
        विहाय = leaving or excepting
        अनुस्मर्तुम् = recognise or recollect
        अशक्नोत् = was able to
        अंतिमवारे = last time

  • Himanshu Pota 12:01 am on April 21, 2009 Permalink | Reply  

    सदैव कार्यं ददाति (Always gives me work) 

    ह्यः आवयोः कन्या ज्वलिता प्रातःकाले प्रातराशः (breakfast) खादित्वा उपरि गच्छति स्म। अहं ताम् अकथयम् – प्रथमं तु मातरं पृच्छ अपि किं कार्यम् अस्ति इति यदि सा त्वम् अनुजानाति तर्हि उपरि गच्छ न अन्यथा। सा माम् औत्तरत् – सा सदैव मां कार्यं ददाति इति। सा सम्यग् जानाति तया उपरि न गन्तव्यं मातरं साहय्यं कर्तव्यम् इति। सर्वं जानन्ती अपि सा शान्तभावेन उपरि गच्छति। ज्वलिता इदृशी अलसा भविष्यति इति मया कदापि कल्पनं न कृतम्।

    २००९-०४-२१ मङ्गलवासरः (2009-04-21 Tuesday)

     
    • परमजीत बाली 2:03 am on April 21, 2009 Permalink | Reply

      अति सुन्दरं!

    • vikas 4:44 am on April 21, 2009 Permalink | Reply

      इदृशी ..how do we pronounce this shabda and what does it mean?

      dhanyavaadaha

    • अनिल कुमार 12:55 pm on April 21, 2009 Permalink | Reply

      An attempt at translation:
      ह्यः आवयोः कन्या ज्वलिता प्रातःकाले प्रातराशः (breakfast) खादित्वा उपरि गच्छति स्म।
      Yesterday our daughter Jwalita was going above (top floor of the building?) to have breakfast.

      अहं ताम् अकथयम् – प्रथमं तु मातरं पृच्छ अपि किं कार्यम् अस्ति इति यदि सा त्वम् अनुजानाति तर्हि उपरि गच्छ न अन्यथा।
      I said to her – First ask your mother if there is any work to do; if yes then she will inform you, otherwise don’t go above.

      सा माम् औत्तरत् – सा सदैव मां कार्यं ददाति इति। सा सम्यग् जानाति तया उपरि न गन्तव्यं मातरं साहय्यं कर्तव्यम् इति।
      She replied me – She always gives me work. She (knows her mother well?) , that’s why she did not go above to assist her mother with work.

      सर्वं जानन् अपि सा शान्तभावेन उपरि गच्छति। – (could not translate this).

      ज्वलिता इदृशी अलसा भविष्यति इति मया कदापि कल्पनं न कृतम्।
      Jwalita becomes lazy like this, I never imagined.

      Word meanings:
      आवयो: = our?
      अनुजानाति = inform?
      सम्यग् = well said?
      तया = her?

    • Rahul Vedi 5:27 pm on April 21, 2009 Permalink | Reply

      खादित्वा उपरि गच्छति स्म।
      …was going above (top floor of the building?) to have breakfast.
      खादित्वा = having eaten or after eating
      after eating her breakfast, she went above/ upstairs (top floor of the building?) इति सम्यक अनुवादः

    • Himanshu Pota 8:48 pm on April 21, 2009 Permalink | Reply

      An attempt at translation:
      ह्यः आवयोः कन्या ज्वलिता प्रातःकाले प्रातराशः (breakfast) खादित्वा उपरि गच्छति स्म।
      Yesterday our daughter Jwalita was going up after having her breakfast.

      अहं ताम् अकथयम् – प्रथमं तु मातरं पृच्छ अपि किं कार्यम् अस्ति इति यदि सा त्वम् अनुजानाति तर्हि उपरि गच्छ न अन्यथा।
      I said to her – First ask your mother if there is any work to do; if she gives you permission then go up.

      सा माम् औत्तरत् – सा सदैव मां कार्यं ददाति इति। सा सम्यग् जानाति तया उपरि न गन्तव्यं मातरं साहय्यं कर्तव्यम् इति।
      She replied to me – She always gives me work. She knows well that she should not go up and she should help her mother.

      सर्वं जानन्ती अपि सा शान्तभावेन उपरि गच्छति। – Knowing all, she goes up quietly.

      ज्वलिता इदृशी अलसा भविष्यति इति मया कदापि कल्पनं न कृतम्।
      Jwalita will become lazy like this, I never imagined.

      Word meanings:
      आवयो: = our
      अनुजानाति = permits
      सम्यग् = properly
      तया = by her

c
Compose new post
j
Next post/Next comment
k
Previous post/Previous comment
r
Reply
e
Edit
o
Show/Hide comments
t
Go to top
l
Go to login
h
Show/Hide help
shift + esc
Cancel