तापकम् आरभे (I start the heater)

√र॒भँ॒ राभस्ये [१७५] भ्वादिगणीयः आत्मनेपदी अनिट्
√रभ् इति सकर्मकः धातुः अस्ति इति मन्ये।
प्रातःकाले अहं तापकम् आरभे
यस्त्विन्द्रियाणि मनसा नियम्य आरभतेऽर्जुन।
कर्मेन्द्रियैः कर्मयोगमसक्तः सः विशिष्यते॥गीता ३.७॥

२०१५-०६-३० मङ्गलवासरः (2015-06-30 Tuesday)

व्याहरामि (I say)

व्याहरामि
√हृ॒ञ् हरणे [३७] भ्वादिः उभयपदी अनिट्
√व्याहृ – To utter or pronounce a sound, speak

संस्कृतवार्तावलिः इति दूरदर्शनकार्यक्रमे मङ्गलामहाभागा कथयति – वार्तावलिपक्षतः हार्दिकं धन्यवादं व्याहरामि
सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च।
ओमित्येकाक्षरं ब्रह्म व्याहरन् मामनुस्मरन् ॥ गीता ८.१३॥

२०१५-०६-२९ सोमवासरः (2015-06-29 Monday)

साक्षीभूतः (Was present)

अद्यतनस्य संस्कृतवार्तावल्याम् अहं साक्षीभूतः आसम्

अहो आनन्दः।
वार्तावल्याः सर्वाणि अङ्गानि मनोहराणि आसन्। मनसि अतीवानन्दः जायते हर्षं उत्साहं च अनुभवामि।
दूरदर्शनसंस्कृतवृन्दम् अस्य श्रीगणेशस्य हार्दं अभिवादनं भविष्याय नैकाः शुभकामनाः च व्याहरामि।
सोत्सुकतया आगामिवार्तावल्याः प्रतीक्षां करोमि।

आनन्दः (Joy)

अद्य आचार्येण स्थानिवदादेशोऽनल्विधौ॥१।३।५६॥ इति सूत्रम् अहं सूचितः। सूत्रं पठित्वा तस्य अल्पादप्यल्पम् अर्थं बुद्ध्वा यः मम मनसि आनन्दः अभवत् तस्य वर्णनं न सरलम् अस्ति। अल्पादप्यल्पम् अर्थं बुद्ध्वा तस्मै श्रीपाणिनये नमः इति स्वतः विस्फुटितम्।

२०१५-०६-२६ शुक्रवासरः (2015-06-26 Friday)

आपत्कालः (Emergency)

सोनियाप्रियङ्कारोबर्टराहुलमहाभागाः आपत्कालस्य संवत्सरे देशात् पलायित्वा आङ्ग्लदेशे भ्रमणव्यापारं कुर्वन्ति। इतः ज्ञायते ते आपत्कालस्य विषये किं चिन्तयन्ति इति। तेषाम् आपत्कालसंवत्सरः उत्सवविषयः अस्ति न तु चिन्ताविषयः।
http://www.fakingnews.firstpost.com/2015/06/how-an-adarsh-liberal-man-explains-emergency-to-his-12-years-old-son/?utm_source=fp_cat_widget

२०१५-०६-२५ गुरुवासरः (2015-06-25 Thursday)

√विदँ (To know)

√विदँ (ज्ञाने, अदादिगण, परस्मै, लट्)
वेद विदतुः विदुः
वेत्थ विदथुः विद
वेद विद्व विद्म

तानि अहं वेद सर्वाणि न त्वं वेत्थ परन्तप। वेद अहं समतीतानि वर्त्मानानि च अर्जुन। भविष्याणि च भूतानि मां तु वेद न कश्चन। ते ब्रह्म तत् विदुः कृत्सनम् अध्यात्मं कर्म चाखिलम्। साधिभूताधिदैवं मां साधियज्ञं च ये विदुः। प्रयाणकाले अपि च मां ते विदुः युक्तचेतसः। भूतप्रकृतिमोक्षं च ये विदुः यान्ति ते परम्।

२०१५-०६-२४ बुधवासरः (2015-06-24 Wednesday)

अवतंसय (Make a wreath)

अवतंसयैनम्। मालविकाग्निमित्रे तृतीयोऽङ्कः।
अवतंसय – लोट्लकारः, परस्मैपदी, प्रथमपुरुषः, एकवचनम्।
तसिँ अलङ्करणे [१६४४] चुरादिगणीयः उभयपदी सेट्
तस् (उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९))
तंस् (इदितो नुम् धातोः (७.१.५८))
तंस् णिच् (सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् (३.१.२५))
तंस् इ (चुटू (१.३.७), हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
तंस् इ लोँट् (लोट् च (३.३.१६२))
तंस् इ सिप् (तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् (३.४.७८))
तंस् इ सि (हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
तंस् इ शप् सि (कर्तरि शप् (३.१.६८))
तंस् इ अ सि (लशक्वतद्धिते (१.३.८), हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
तंस् ए अ सि (सार्वधातुकार्द्धधातुकयोः (७.३.८४))
तंस् ए अ हि (सेर्ह्यपिच्च (३.४.८७))
तंस् ए अ (अतो हेः (६.४.१०५))
तंसय (एचोऽयवायावः (६.१.७८))
अवतंसय

२०१५-०६-२३ मङ्गलवासरः (2015-06-23 Tuesday)