एकसन्ताननीतिः (One Child Policy)

यदा चीनदेशेन एकसन्ताननीतिः प्रतिपादिता तदैव मया कथितम् इयं नीतिः समाजविनाशका भविष्यति इति। पश्यतु कथम् इदानीं तां नीतिं चीनप्रसाशनम् अपाकरोति – http://www.chicagotribune.com/news/nationworld/ct-china-one-child-policy-20151031-story.html। भारतदेशे अपि परिवारनियोजनम् इति नीतिः घातिका नीतिः अस्ति।

२०१५-११-०१ (2015-11-01 )

ससाध्वसम् (Terrified)

ससाध्वसम् इति अव्ययः शब्दः अस्ति।
मालविका ससाध्वसं तिष्ठति इति मालविकाग्निमित्रे चतुर्थे अङ्के। अपि च
विसृज सुन्दरि संगमसाध्वसं
तव चिरात्प्रभृति प्रणयोन्मुखे।
परिगृहाण गते सहकारतां
त्वमतिमुक्तलताचरितं मयि॥
सहकारताम् आम्रवृक्षत्वं सहचरत्वं च।

२०१५-१०-३१ शनिवासरः (2015-10-31 Saturday)

कृष्णकुमारशर्मा दिवं गतः (Krishna Kumar Sharma passes away)

KK Sharma Popularly Known as Kaku
Ksku

अस्मिन् मासे दशम्यां तिथौ अस्माकं प्रियः मित्रं कृष्णकुमारशर्मा दिवं गतः। सः विलक्षणः आसीत्। सः अस्माभिः सह पाठशालायाम् आसीत्। पाठशालाभ्यासं पूर्णं कृत्वा अहं तेन सह केवलम् एकवारम् एव अमिलम्। गत वर्षे तेन सह दूरभाषेण मया वार्तालापं कृतम्। तस्य निधनस्य सामाचारं श्रुत्वा अहं दुखी अस्मि। तस्य आत्मनः मोक्षाय प्रार्थे।

२०१५-१०-२१ बुधवासरः (2015-10-21 Wednesday)

करेणुः (Female Elephant)

करेणूनां दन्तौ न स्तः।
करेणुः करेणू करेणवः
करेणुम् करेणू करेणूः
करेण्वा करेणुभ्याम् करेणुभिः
करेणवे/करेण्वै करेणुभ्याम् करेणुभ्यः
करेणोः/करेण्वाः करेणुभ्याम् करेणुभ्यः
करेणोः/करेण्वाः करेण्वोः करेणूनाम्
करेणौ/करेण्वाम् करेण्वोः करेणुषु
हे करेणो हे करेणू हे करेणवः

२०१५-१०-०४ रविवासरः (2015-10-04 Sunday)

परमार्थतः (In Reality)

परमार्थतस् इति अव्ययः शब्दः अस्ति।
महाकविकालिदासविरचिते मालविकाग्निमित्रे चतुर्थे अङ्के अस्ति – चित्रगतं भर्तारं पर्मार्थतो गृहित्वासूयति – इति।

२०१५-१०-०३ शनिवासरः (2015-10-03 Saturday)

सुषमास्वराजः (Sushama Swaraj)

कृपया सुषमामहाभागयाः हिन्दीभाषायां संयुक्तराज्यसङ्घे प्रवचनं शृणोतु – https://www.youtube.com/watch?v=XXyuG9JvPsI&feature=youtu.be। समाचारपत्रे इदं प्रवचनं आङ्ग्लभाषायाम् अनुद्य स्थापितम् अस्ति। कथम्? सुषमामहभागा मनोहारीं हिन्दीभाषां वदति। अहं हिन्दीभाषायां पक्षं न उत्थापयामि। यदि तस्याः भाषा कापि अन्या अहिन्दीभाषा आसीत् तर्हि अहं तस्यां भाषायां प्रवचनं भवेत् इति इच्छामि।

२०१५-१०-०२ शुक्रवासरः (2015-10-02 Friday)