ज्वलितायाः मित्रौ (Jwalita’s friends)

ज्वलिता तस्याः मित्रौ प्रत्यजानत् (promised) सा ते अद्य अस्माकं गृहं नयिष्यति इति। किन्तु अहमपि तं प्रतिज्ञां रात्रौ एव अस्मरं ज्वलिता तु पूर्णरूपेण व्यस्मरत्। अयं तु अतीवः निन्दाहार्यः।

२००७-०३-३१ शनिवासरः (2007-03-31 Saturday)

ज्वलितायाः तरणम् (Jwalita’s swimming)

शुक्रवासरे ज्वलिता सायंकाले सार्धषट्वादनात् सार्धसप्तवादनतः तरणाभ्यासं करोति। तस्याः शिक्षकः क्रिसवर्यः अस्ति। सः प्रसन्नचित्तः कुशलः शिक्षकः अस्ति। ज्वलिता तरणाभ्यासे अतीवा आनन्दिता भवति।

२००७-०३-३० शुक्रवासरः (2007-03-30 Friday)

त्रयोदशोऽध्यायः (Thirteenth Chapter)

अद्य अहं पुनः गीतायाः क्षेत्रक्षेत्रज्ञविभागयो नाम त्रयोदशस्य अध्यायस्य अनुशीलनम् आरब्धवान्। अहं कल्पनाम् न कर्तुं शक्नोमि एकमासस्य अवध्यां कियत् विस्मरिष्यामि। अनुशीलनम् सर्वथा अनीवार्यम्।

२००७-०३-२९ गुरुवासरः (2007-03-29 Thursday)

देवनागरी-लेखनम् (Writing in Devanagari)

अद्य ज्वलिता विद्यालयात् अस्माकं मित्रस्य राजस्य गृहे अगच्छत्। तां नयितुं यदा अहं राजवर्यस्य गृहम् अगच्छम् तदा सः मम कथं सङ्गणित्रे देवनागरी-लिप्यां लेखितुं शक्नोमि इति पृष्टवान्। अहं तं (Itranslator2003) कथं उपयोगं करणीयम् इति अकथयम्।

२००७-०३-२८ बुधवासरः (2007-03-28 Wednesday)

गृहं गतवान् (Went home)

अद्य अहं कार्यालयात् सार्धद्विवादने निर्गम्य ज्वलितां विद्यालयात् नयित्वा गृहम् आगच्छम्। गृहे किञ्चित् कार्यमपि अकरवम्।

२००७-०३-२७ मङ्गलवासरः (2007-03-27 Tuesday)

जयन्तः आगच्छति (Jayanta Visits)

अद्य मम सहकर्मी जयन्तः सिडनीनगरात् आगच्छत्। तेन सह अहं शोधकार्याय वित्तस्य आवेदनम् (research fund application) अरचयम्। आवयोः चर्चायां शोधस्य एकः नवीनः विचारः अजायत्। अस्मिन् सप्ताहे आवेदनं लेखिष्यावः।

२००७-०३-२६ सोमवासरः (2007-03-26 Monday)

राजीवः विलियमः च भारतं गच्छतः (Rajiv and William go to India)

ह्यः राजीवस्य अग्रजायाः पञ्चदशमस्य जन्मदिवसस्य उत्सवस्य परं अहं राजीवस्य गृहे असुप्तम्। अद्य राजीवः अस्माकं मित्रं विलियमः च भारतं गच्छतः। तयोः उड्डयनं सार्ध-एकादशवादने आसीत्। राजीवः प्रातः उत्थाय स्वकार्यम् आरब्धवान्। सः रक्तविशेषज्ञः अस्ति। भारतं गत्वा पूर्वं किञ्चित् रक्तपरीक्षा-परिणामान् दृष्ट्वा तेषाम् उपरि समाख्यानन् (reports) लिखितव्यम्। सः सार्धनववादनतः कार्यं अकरोत् तदा यात्रासामग्रीं बन्धनं अकरोत्। गृहात् बहिः निर्गमनस्य कालः पादोनदशवादनम्। यदा अहं विमानस्थलं प्रति यानं चालयामि तदा राजीवः कथयति इदानीम् अस्माभ्यां द्वौ चिकित्सालयौ गन्तव्यौ इति। कथं कोऽपि मानवः ईदृशः धीरजः धारयितुं शक्नोति अहं न जानामि। अन्ते आवां सपाददशवादने विमानस्थले प्राप्तवन्तौ। तत्र विलियमः अधीरात् राजीवस्य प्रतीक्षाम् करोति। तत्र अहं तौ – भवन्तौ यात्रा कुशला भवतु इति – उक्त्वा मम मित्रस्य विवेकस्य गृहम् अगच्छम्।

२००७-०३-२५ रविवासरः (2007-03-25 Sunday)

वन्दनायाः जन्मदिवसः (Vandana’s Birthday)

अद्य मम मित्रस्य राजीवस्य अग्रजायाः (of elder sister) वन्दनायाः पञ्चदशमस्य जन्मदिवसस्य उत्सवः आसीत्। उत्सवः सिडनीनगरे आसीत्। वन्दना न अजानत् उत्सवः अस्ति इति। राजीवः ताम् अकथयत् अहं शुक्रवासरे भारतं गमिष्यामि इति। उत्सवः भोजनिलये आसीत्। तत्र वन्दनां तस्याः मित्रं गायन् कार्यक्रमं गच्छावः इति कथयित्वा अनयत्। उत्सवः आनन्दकरः अभवत्।

२००७-०३-२४ शनिवासरः (2007-03-24 Saturday)

मित्रेण सह काफी अपिबम् (Drank Coffee with a friend)

मम कार्यालयस्य नातीदूरे युद्धास्मारकः अस्ति। स्मारके एकः जलपानस्थानः अस्ति। स्मारके केवलाः पर्यटकाः गच्छन्ति। यदापि अस्माकं गृहं कोऽपि अतिथिः आगच्छति तदा वयं तं युद्धस्मारके नयामः किन्तु कदापि तत्र कस्मातपि अन्यात् कारणात् न अगच्छाम। अद्य ध्यान-क्रीयायाम् (meditation) रतम् एकं मित्रं स्मारके जलपानाय अमिलम्।

२००७-०३-२३ शुक्रवासरः (2007-03-23 Friday)

अपर्याप्ताः नापिताः (Shortage of hair dressers)

मय श्रुतम् अस्मिन् देशे नापिताः अपर्याप्ताः सन्ति तस्मात् ते नपितानाम् आवासम् इच्छन्ति। अहं सदैव अस्य वाक्यस्य हास्यं करोमि किन्तु न तु अद्य। अद्य अहं नापितशालायाम् (barber’s shop) अगच्छम् तत्र अनेकाः लोकाः पूर्वे अपि आसीत्। नापिती मां दृष्ट्वा अवदत् – भवतः केशकर्तनम् आगामी सप्ताहे एव सम्भवं भविष्यति।

२००७-०३-२२ गुरुवासरः (2007-03-22 Thursday)