वली (a fold, wrinkle)

गृहस्थस्तु यदा पश्येद्वलीपलितमात्मानः।
अपत्यस्य तथापत्यं तदारण्यं समाश्रयेत्॥
अरण्यगमस्य निर्देशोऽस्ति यदा कारणत्रयं सम्भवति। त्रिषु कारणेष्वेकं कारणं मया न प्राप्तं तस्माद् मयेदानीमरण्यं न गन्तव्यम्।

२०२०-११-३० सोमवासरः (2020-11-30 Monday)

सङ्घटनं संघटनम् (Two forms (meeting))

वा पदान्तस्य (८.४.५९) इति सूत्रेण पदान्ते तु परसवर्णः विकल्पेन। उपसर्गस्य पदसंज्ञा इति अस्ति तस्मात् अनुस्वारस्य ययि परसवर्णः विकल्पेन भवति – सङ्घटनं संघटनम् इति रूपद्वयं शुद्धम्।
शुद्धिकौमुदी (परिष्कृतं परिवर्धितं संस्करणम्), द्वितीयपृष्ठम्, जनार्दन हेगडे, संस्कृतभारती, बेङ्गलूरु, २०१५।

२०२०-११-२९ रविवासरः (2020-11-29 Sunday)

सजति, सङ्गः, सक्त्वा, अनुषञ्जनम् (Attaches, attachment, having attached, following)

षन्जँ सङ्गे एक एव धातुस्तस्मादेकस्मादेव धातोरनेकानि रूपाणि जायन्तेसजति, सङ्गः, सक्त्वा, अनुषञ्जनम् इति। यथा धातुपाठे अस्य धातोः संज्ञा अस्ति षञ्जँ इति तस्मिन्नेव संज्ञायामिमानि सर्वाणि रूपाणि गर्भरूपेण सन्ति।

२०२०-११-२८ शनिवासरः (2020-11-28 Saturday)

रुच्यर्थानां प्रीयमाणः (१.४.३३) (Dative for ruc in the sense of liking)

रुच्यर्थानां प्रीयमाणः (१.४.३३)। रुचँ दिप्तावभिप्रीतौ च (to shine, to glow, to please, to like, to enjoy) तस्मात् रुचँ धातुः अनेकार्थेषु प्रयुज्यते किन्तु केवलं प्रीतौ सम्प्रदानकारकं भवति न अन्यथा। देवदत्ताय रोचते मोदकः।
तद्वनं बलमेघेन शरधारेण संवृतम्।
व्यरोचत मृगाकीर्णं राज्ञा हतमृगाधिपम्॥महाभारते आदिपर्वणि संभवपर्वणि शकुन्तलोपाख्याने एकोनसप्ततितमेऽध्याये एकत्रिंशत्तमः श्लोकः॥
अत्र विरुच् इति to become visible, appear इति अर्थेऽस्ति तस्मात् कर्ताकारकम्।
तद्वनं व्यरोचत the forest appeared, कथं वनम्, मृगाकीर्णं हतमृगाधिपम् संवृतम्, केन संवृतम् राज्ञा बलमेघेन शरधारेण संवृतम्।

२०२०-११-२६ गुरुवासरः (2020-11-26 Thursday)

भवानपि बार्नबे (Et Tu Barnaby)

Midsomer Murders इति दूरदर्शनधारावाहिको विशुद्धाङ्ग्लसभ्यताया उत्कर्षप्रदर्शनमस्ति। तथापि Death and Dreams इति अध्याये त्रयोविंशत्यधिकनिमिषैकहोराकाले (1 hr 23 min.) बार्नबी पृच्छति Who are you protecting? इति। कथं स महानपसर्पो न जानाति किं कर्मेति किं कर्तेति। कृष्णवर्णाः संभावयन्त्वाङ्ग्लजनानां विपर्यासो नातिदूरे वर्तते।

Barnaby and Troy

२०२०-११-२५ बुधवासरः (2020-11-25 Wednesday)

यथा निर्दाता तथा नृपः (Like weeder like king)

यथोद्धरति निर्दाता कक्षं धान्यं च रक्षति।
तथा रक्षेन्नृपो राष्ट्रं हन्याच्च परिपन्थिनः॥मनुस्मृतिः ९.११०॥
यथा निर्दाता (a weeder) धान्यं (crop) रक्षणार्थं कक्षं (weed) उद्धरति (takes out) तथा नृपः राष्ट्रं रक्षणार्थं परिपन्थिनः (enemies) हन्तु।
निर्दातृ + सुँ = निर्दाता = निर् + दो खण्डने + तृच् + सुँ।

२०२०-११-२४ मङ्गलवासरः (2020-11-24 Tuesday)

शशिकला (Shashikalaa)

ह्यः सेल्यूलोईड के सितारे इति नामधेये विविधभारती इति माध्यमे हिन्दीचलचित्राभीनेत्र्या शशिकलया सह वार्तापालम् अशृणवम्।
सा १९८८-१९९७वर्षान्तरे चलचित्रजगतः निरगच्छत्। पृष्टा सा अवदत् चलचित्रे यानि पात्राणि सा भजति स्म तानि पात्राणि तस्याः जीवनेऽपि आगच्छन् यस्मात् तस्याः मनसि भारः अवर्तत। तस्मात् सा पञ्चदशवर्षैः विपश्यना इति मार्गम् अपालयत् तत्परं नववर्षैः मदरटेरेसा इत्यस्याः संस्थाम् असेवत च।

Shashikala


२०२०-११-२३ सोमवासरः (2020-11-23 Monday)

हे रामभद्र स्वमेव अर्थः अवबुद्धः (O Ram I got the meaning myself)

अदृष्ट्वानुवादमदृष्ट्वा टीकामनिर्दिष्टेन आचार्येण मया श्लोर्थः प्राप्तः।
पञ्चप्रसूतेरपि तस्य राज्ञः प्रियो विशेषेण सुबाहुशत्रुः।
वधूचतुष्केऽपि यथैव शान्ता प्रियातनूजास्य तथैव सीता॥उत्तररामचरितम् ४.१६॥
हर्षितोऽस्मि।

२०२०-११-२२ रविवासरः (2020-11-22 Sunday)

ओवाईसीबन्धू (Owaisi Brothers)

गतबिहारराज्यस्य विधानसभाया निर्वाचने ओवाईसीबन्ध्वोर्दलस्य पञ्चविधायका निर्वाचिताः। अहं ताभ्यां वर्धापनं व्याहरामि। हर्षितोऽस्मि ते यवनजनानां प्रतिनिधित्वं कुरुतः न तु काँग्रेसदलम्। यवनान् प्रति काँग्रेसदलस्य मिथ्याचारो देशायातिहानिकारकोऽस्ति। ओवाईसीबन्ध्वोराचारः सत्याचार्योऽस्ति। यथा तयोः मतं तथा तौ वदतः। अस्मात् यवनजनानामिच्छा प्रकाशिता भवति प्रकाशिते इच्छायां तस्याः निराकरणं कर्तुं शक्यते। आशांसे तौ भारतदेशे सर्वत्र निर्वाचने भागं गृह्णीयाताम्

Owaisi Brothers (Courtesy Republic TV)

२०२०-११-२१ शनिवासरः (2020-11-21 Saturday)