शुचिता सेवाम् आरभते (Shuchita starts her job)

अद्य आवयोः कन्या शुचिता सेवाम् आरभते। सा आस्ट्रेलियादेशस्य वित्तविभागे (Treasury) कार्यम् आरभते। मन्ये वित्तविभागे यत् स्थानं सा प्राप्नोत् तस्मै स्थानाय भूरिस्पर्धा आसीत्। अस्माकं तस्यै नैके शुभाशयाः।

२०१७-०२-०६ सोमवासरः (2017-02-06 Monday)

रमुँ क्रीडायाम् (to delight, to satisfy)

पोटामहोदयः कथयति – र॒मुँ॒ क्रीडायाम् इति भ्वादिगणीयः आत्मनेपदी अनिट् धातुः अस्ति किन्तु विरम् इति सोपसर्गीयः धातुः परस्मैपदी अस्ति। रम् इति धातोः परस्मैपदरूपमपि क्वचित् दृश्यते । पश्यतु –

मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् ।
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥ गीता १०.९ ॥

भगवान् रामानुजः गीताभाष्ये ‘तुष्यन्ति च रमन्ति च’ इत्यस्य व्याख्यायां ‘वक्तारस्तद्वचनेनानन्यप्रयोजनेन तुष्यन्ति, श्रोतारश्च तच्छ्रवणेनानवधिकातिशयप्रियेण रमन्ते’ इत्युक्त्वान्। अनेन ‘रमन्ति’ इति आर्षपरस्मैपदमिति श्रीभाष्यकारविवरणेनसूचितमिति रसास्वादाख्यटिप्पणकर्त्रा वीरराघवाचार्येण महादेशिकेनोक्तम् ।

२०१७-०२-०४ शनिवासरः (2017-02-04 Saturday)

विरमति (Stops)

र॒मुँ॒ क्रीडायाम् इति भ्वादिगणीयः आत्मनेपदी अनिट् धातुः अस्ति किन्तु विरम् इति सोपसर्गीयः धातुः परस्मैपदी अस्ति।
प्रतिपलमखिलान् लोकान्मृत्युमुखं प्रविशतो निरीक्ष्यापि।
हा हन्त किमिति चित्तं विरमति नाद्यापि विषयेभ्यः॥शान्तविलासः २६ भामिनीविलासः-४६॥
http://gssmurthy.blogspot.com.au/2013/08/bhaminivilasah-46.html
https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%B5%E0%A4%BF%E0%A4%B2%E0%A4%BE%E0%A4%B8%E0%A4%83

२०१७-०२-०१ बुधवासरः (2017-02-01 Wednesday)