सप्त गोष्ठ्यः (Seven Meetings)

सामान्यतया अहं मम कार्यं एकल एव करोमि। व्याख्यानसमयं विहाय स्वकक्षे उपविशन् एकल एव कार्यं करोमि। न केनापि सह वार्तालापं करोमि। मन्ये मम कार्यस्य पद्धतेः परिवर्तनं भवति। अद्य सप्तसु गोष्ठीषु आसम्। सर्वासु गोष्ठीषु अवधानं दत्त्वा उपाविशम्। न कदापि ईदृशं कार्यं कृतम्।

२०२२-०५-३१ मङ्गलवासरः (2022-05-31 Tuesday)

विच्छेदः (Separation)

मन्ये मम अत्र समाजात् विच्छेदः संवृतोऽस्ति। अद्य अत्र सन्धिदिवसस्य अवकाश आसीत्। कष्टकरं वातावरणम्। जलं वर्षति शीतवातः तीव्रं वाति च। न अमनिषि कोऽपि अद्य गृहात् बहिर्गमिष्यति इति। मया आपणः तु गन्तव्यः यतो हि मम उपनेत्रयोः आधारः विलग्नः। महापणं गत्वा ज्ञातम् अशेषं यानस्थानम्। कल्पितं यत्र कोऽपि न भविष्यति तत्र प्राप्तः सर्वत्र सम्मर्दः। तस्मात् चिन्तयामि अहं समाजात् वियुक्तोऽस्मि।

२०२२-०५-३० सोमवासरः (2022-05-30 Monday)

प्र॒यन्त्स्व॑: (Going to the sun)

यजुर्वेदे ३.६ ऋग्वेद १०.१८९.१ च इति मन्त्रे अस्ति प्र॒यन्त्स्व॑:। प्रयन् स्वः। न जाने अत्र प्रयन्त्स्वः इत्यस्मिन् कः सन्धिरस्ति इति। पण्डिताः विशदीकुर्वन्तु। (नश्च (८.३.३०))

२०२२-०५-२९ रविवासरः (2022-05-29 Sunday)

अन्नादः (Who eats food.)

मन्त्रेण सह दयानन्दभाष्यम्https://vedicscriptures.in/yajurveda/3/5
मन्त्रपाठःhttps://vedicheritage.gov.in/samhitas/yajurveda/vajasneyi-madhyandina-samhita/samhita-patha-0-10-adhyaya-03/

२०२२-०५-२८ शनिवासरः (2022-05-28 Saturday)

निमज्जन् पोतः (Sinking Ship)

मया नैकानि निर्वाचनानि दृष्टानि। यदा किमपि दलम् इदृशम् आचारं करोति तदा जानेयुः तत् दलमपि जानाति पराजयः निश्चितोऽस्ति। सर्वे स्मरन्त्येव कथं २०१४निर्वाचनस्य पूर्वसन्ध्यायां दूरदर्शनेन प्रियाङ्का पुत्रीवत् इति नरेन्द्रमोदी अकथयत् इति मिथ्यावाक्यं प्रसारितम्। सर्वत्र तथैव भवति।

२०२२-०५-२७ शुक्रवासरः (2022-05-27 Friday)

सङ्गणकस्य उपयोगः (Using a computer)

जनाः कथयन्ति कथं संस्कृतपण्डिताः सङ्गणकस्य उपयोगं न कुर्वन्ति इति। तेषु किं वदामि अत्र विश्वविद्यालये यान्त्रिकशिक्षाम् अधीयमानाः छात्रा अपि समस्यासमाधाने सङ्गणकस्य उपयोगं न कुर्वन्ति। ते खलु सङ्गणकात् बिभ्यति। अद्य मया दृष्टम्। वारं वारं ते मया प्रार्थिता एषां समस्यानां समाधानं सङ्गणकेन कुर्वन्तु तथापि ते तथा न कुर्वन्ति। मन्ये ते बिभ्यति सङ्गणकेन किञ्चिद् शिक्षणं भविष्यति इति। ते कृतसङ्कल्पाः सन्ति न मतिषु किञ्चनापि ज्ञानं प्रवेक्ष्यति इति।

२०२२-०५-२६ गुरुवासरः (2022-05-26 Thursday)

नग्नाः अध्यक्षाः (Naked Officials)

अतः प्रभृति नग्नानां अध्यक्षानां साम्यदलसंस्थायां प्रवृद्धिः निरुध्यते इति चीनसाम्यदल: सूचयति । को नाम नग्नाध्यक्षः? वरिष्ठनेतारः येषां पुत्रकलत्रबन्धुजनादयः पारसमुद्रे निवसन्ति ते एव अनेन पदेन सूचिताः। किमिति नग्नः? यतोहि कुटुम्बः मनुष्यस्य आवरणमिव दृश्यते, परिवारविहीनः नग्नः खलु।

वरिष्ठनेतृभिः कथमिव कुटुम्बजनाः पारसमुद्रं प्रेषिताः? अनयार्चितधनसम्पत्तिः विदेशेषु अपगूहितुं कुटुम्बजनाः प्रायः तत्र प्रेषिताः इति श्रूयते। अपि भ्रष्टाचारः चीनदेशे प्रवर्तते? न केवलं प्रवर्तते किन्तु सर्वत्रगतः। सर्वव्यापारेषु भ्रष्टाचारस्य निष्कान्तस्वरूपं उन्नमितोऽस्ति। किं बहुना, भ्रष्टाचारप्रवृत्तिं विना चीनदेशः स्पन्दितुमपि न कुशलः इति विशेषज्ञाः वदन्ति ।

चीनदेशे एवं सति भारतस्य का गतिः?

https://www.wsj.com/articles/china-insists-party-elites-shed-overseas-assets-eyeing-western-sanctions-on-russia-11652956787

२०२२-०५-२५ बुधवासरः (2022-05-25 Wednesday)

आलर्कमतिः (Wisdom of a mad dog)

लिबरल इति विपक्षदलं पीटरमहाभागं दलस्य नेतारं चिनोति। इदं कथ्यते आलर्कमतिः। गतनिर्वाचने महिलामतदातारः लिबरलदलं सर्वथा अत्यजन् इति जान्नपि ते कामपि महिलां नेतारं न अचिन्वन्निति खलु आलर्कमतिः।

Peter Dutton (Courtesy ABC)

२०२२-०५-२५ बुधवासरः (2022-05-25 Wednesday)

विषवमनम् (Spewing Poison)

एन्थनिना एतेषां प्रसारितानां चित्राणां प्रत्येकस्मिन् चित्रे अस्माकं मित्रं भ्राताप्रकाशो दृश्यते। ये आत्मनः वयमुदाराः इति प्रथयन्ते ते इमानि चित्राणि दृष्ट्वा विषवमनं कुर्वन्ति। तेषाम् उदारत्वं हिन्दू इति श्रुत्वा न जाने कुत्र अयते।

२०२२-०५-२४ मङ्गलवासरः (2022-05-24 Tuesday)