विद्याधरसूरजप्रसादः (Sir V. S. Naipaul)

विद्याधरसूरजप्रसादस्य नोबेलपुरस्कारोऽनेन वाक्येनैव सफलीभवति।
At the height of the Ram Janmabhoomi movement, V S Naipaul saw it as “a new, historical awakening” of “Indians becoming alive to their history” and “beginning to understand that there has been a great vandalising of India”.

२०२४-०१-१४ रविवासरः (२०२४-०१-१४ Sunday)

पुनश्च भूयोऽपि नमो नमः (Namo Gautama)

सोनियाराहुलमुखाः सर्वे भारतद्वेषिणः।
न्यक्कृताः वैश्यधर्मिभारतसेविगौतमेन॥

२०२४-०१-०३ बुधवासरः (2024-01-03 Wednesday)

इदमस्ति प्रजातन्त्रम् (This is democracy)

यदा राहुलः ह्लादते मोदी भारते प्रजातन्त्रं हन्ति इति तदा जनाः न जानन्ति कथं तदभिगन्तव्यम्। प्रजातन्त्रं किं इति पाकिस्तानदेशेन अवगन्तव्यम्। मन्ये राहुल इच्छति भारतेऽपि ईदृशं प्रजातन्त्रं भवेत्।

२०२३-१२-३० शनिवासरः (2023-12-30 Saturday)

गीताजयन्ती (Gita Jayanti)

अद्य मन्दिरे गीताजनती इति उत्सवे मम लघुव्याख्यानमासीत्। न मया व्याख्यातम्। मया जनाः पृष्टाः गीतायां किं किम् अस्ति यत् सामान्यज्ञानं नास्ति इति। अस्मिन् चित्रे अहं शृणोमि यदेकः भक्तः वदति। भक्तेषु श्रुतेषु मम नियतकालः समाप्तः। हर्षम्।

Gita Jayanti – Florey Hindu Temple – 23 Dec 2023

२०२३-१२-२३ शनिवासरः (2023-12–23 Saturday)

दीर्घतमः दिवसः (Longest Day)

प्रत्येकस्मिन् वर्षे ग्रीष्म आगच्छतु दिवसाः दीर्घाः भवन्तु इति काङ्क्षे। अजानद्भिः अस्माभिः दीर्घाः दिवसाः आयान्ति गच्छन्ति च तस्मात् ऐषमः दीर्घतमः दिवसः मया भाचित्रे निगडितः।

Longest Day – 22 Dec 2023 – Gungahlin Town Centre from the Hill

२०२३-0१२-22 शुक्रवासरः (२०२३-0१२-22 Friday)

किं नाम जीवनम् (What is life?)

यः बान्धवः द्विषन्तीति जानन् वसति सुखम्।
तदापि न कस्याहितं तस्यैव नाम जीवनम्॥

२०२३-१२-२१ गुरुवासरः (2023-12-21 Thursday)

सम्पूर्णा बालतोषिणी भारतकथा (Finished Bharatakathaa)

अद्यास्माकं वर्गे बालतोषिणिभारतकथाया अध्ययनं समाप्तम्।
अस्मिन् वर्गे अस्माभिः सामान्यव्याकरणं पाणिनिव्याकरणं वेदमन्त्रान् गीतां हितोपदेशम् इत्यादिनि अंशेन अधीतानि – https://sites.google.com/view/htcc-learnsanskrit/home
सुबोधसंस्कृतम् इति पुस्तके सरलरामायणकथा, श्रीरामोदन्तं काव्यं, स्वप्नवासवदत्तं, भारतकथा इति पुस्तकानि पूर्णरूपेण अधीतानि।
तावत् आगामिफरवरीमासात् मृच्छकटिकं नाटकम् अध्येष्यामहे।

२०२३-१२-20 बुधवासरः (2023-12-20 Wednesday)

मीतया पुरस्कारः जितः(Mita Wins a Prize)

केन्बराप्रदेशस्य सर्वेषु विद्यालयेषु उत्तमा शिक्षिका मीता इति अद्य तया पुरस्कारः जितः।

Mrs Mita Pota receiving prize – Fri 27 Oct 2023

२०२३-०१०-२७ शुक्रवासरः (२०२३-०१०-२७ Friday)

पाकिस्तानस्य पत्रकाराणां लेखाः (Pakistan Journalists)

मया पाकिस्तानस्य पत्रकाराणां नैके लेखाः पठिताः। मन्ये नास्ति भारतीयपत्रकारैः सह तेषां तुलना। पठतु
https://www.dawn.com/news/1780946

२०२३-०१०-१५ रविवासरः (२०२३-०१०-१५ Sunday)

साक्षाद्निर्धारणम् (Refrendum)

अद्य वयं साक्षाद्निर्धारणे अस्माकं मतम् अददुः। अस्माकं मतैः निर्धारणं भविष्यति अप्यस्य भूमीनाम् आदिवासिनः संविधाने स्वतन्त्रं स्वस्वरं प्राप्स्यन्ति वा न वेति।

२०२३-०१०-१४ शनिवासरः (२०२३-०१०-१४ Saturday)