Updates from October, 2007 Toggle Comment Threads | Keyboard Shortcuts

  • Himanshu Pota 11:28 am on October 31, 2007 Permalink | Reply  

    इत्यालोच्य (Having Considered) 

     हितोपदेशे संधिः इति भागे षष्ठीकथायाम् अस्ति – इत्यालोच्य स कुलीरस्तस्य ग्रीवां चिच्छेद (Having considered this that crab cut his throat)। चिन्तयित्वा इति स्थाने आलोच्य इति अपि उपयोक्तुं शक्यते।

    २००७-१०-३१ बुधवासरः (2007-10-31 Wednesday)

     
  • Himanshu Pota 9:17 am on October 30, 2007 Permalink | Reply  

    मद्यपीतः (Three sheets to the wind) 

    आङ्ग्लभाषायां अनेकानि लघुवाक्यानि (phrases) सन्ति। तेषाम् three sheets to the wind इति अस्ति एकं लघुवाक्यं यस्य अर्थो मया न ज्ञातः । तस्यार्थोऽस्ति येन मद्यं पीतम् (drunk – After the party he was three sheets to the wind.)।

    २००७-१०-३० मङ्गलवासरः (2007-10-30 Tuesday)

     
    • gkamesh 3:42 am on November 9, 2007 Permalink | Reply

      Hello

      Talking of being three sheets to the wind, reminded me of a chapter in Valmiki Ramayana…The Monkeys are returning after locating Sita…They are overjoyed….And they enter Sugrivas pleasure garden and they get three-times-three sheets to the wind…Some verses describing that state, are given below in iTrans format

      gaayanti kecit praNamanti kecin |
      nR^ityanti kecit prahasanti kecit |
      patanti kecit vicaranti kecit |
      plavanti kecit pralapanti kecit || 5-61-14

      parasparam kecit upaashrayante |
      parasparam kecit atibruvante |
      parasparam kechidupabruvante |
      parasparam kechidupaaramante || 5-61-15

      drumaat drumam kecit abhiplavante |
      kShitau naga agraan nipatanti kecit |
      mahii talaat kecit udiirNa vegaa |
      mahaadruma agraaNi abhisampatante || 5-61-16

      gaayantam anyaH prahasann upaiti |
      hasantam anyaH prahasann upaiti |
      rudantam anyaH prarudann upaiti |
      nudantam anyaH praNudann upaiti || 5-61-17

      samaakulam tat kapi sainyam aasiin |
      madhu prapaana utkaTa sattva ceShTam |
      na ca atra kashcin na babhuuva matto |
      na ca atra kashcin na babhuuva tR^ipto || 5-61-18

    • sanskritquotes 4:16 am on November 10, 2007 Permalink | Reply

      Here is a more detailed explanation:
      http://www.worldwidewords.org/qa/qa-thr1.htm

  • Himanshu Pota 11:44 pm on October 29, 2007 Permalink | Reply  

    चन्द्रापीडचरितम् – १ (Chandrapida Charitam – 1) 

    वयम् आचार्येण श्रीनिवासवर्येण सह लघुसिद्धान्तकौमुद्या-अभ्यासं कुर्मः। गतसप्ताहे सः उपान्यस्यत् (suggested) अस्माभिर्गद्य-पाठोऽपि कर्तव्य इति । अस्मात् सप्ताहाद् वयं द्वितीयं पाठं रविवासरे आरब्धवन्तः। तस्मिन् पाठ्यक्रमे इदानीं वयं चन्द्रापीडचरितम् इति पठामः। ह्यस्तने पाठे अहम् आचार्यवर्यश्च आस्वः।
    ह्यस्तनस्य पाठस्य अन्तिमवाक्यम् अस्ति – अवितथफलाश्च प्रायो निशावसानसमयदृष्टा भवन्ति स्वप्नाः इति (Normally the dreams seen when the night ends come true.)।
    चन्द्रापीडचरितम् इति पुस्तकस्य गद्यम् अति रुचिकरम् अस्ति।

    २००७-१०-२९ सोमवासरः (2007-10-29 Monday)

     
  • Himanshu Pota 9:30 pm on October 28, 2007 Permalink | Reply  

    अजन्तपुँल्लिङ्गाः – ५ (Vowel ending masculines – 5) 

    अहं मन्ये ह्यः प्रथमवारे आचार्यः श्रीनिवासवर्यः विलम्बितः अभवत्। सः किञ्चित् औषधं स्वीकरोति तस्मिन् औषधे निद्रायाः औषधमपि अस्ति ।  तस्मात् सः विलम्बेन उदतिष्ठत् ।  तत्रापि केवलं दशकलायाः विलम्बः (ten minutes delay) अभवत्। ह्यः वयं अधोलिखितानि सूत्राणि अपठाम ।
    ङेर्यः ७।१।१३
    स्थानिवदादेशोऽनल्‍विधौ १।१।५६॥ रामाय। रामाभ्याम्।
    बहुवचने झल्येत् ७।३।१०३॥ रामेभ्यः।
    वाऽववाने ८।४।५६॥ रामात्, रामाद्। रामाभ्याम्।
    ओसि च ७।३।१०४॥ रामयोः।
    ह्रस्वनद्यापो नुट् ७।१।५४॥
    नामि ६।४।३॥ रामाणाम्। रामे। रामयोः।
    आदेशप्रत्यययोः ८।३।५९॥ रामेषु।
    २००७-१०-२८ रविवासरः (2007-10-28 Sunday)

     
  • Himanshu Pota 3:48 pm on October 28, 2007 Permalink | Reply  

    किरातार्जुनीयम् – 2 

    To view correctly please choose: View -> Encoding -> UTF-8.


    कृतप्रणामस्य महीं महीभुजे जितां सपत्नेन निवेदयिष्यतः|
    न विव्यथे तस्य मनो न हि प्रियं प्रवक्तुमिच्छन्ति मृषा हितैषिणः||२||


    कर्ता – मनः (मनस् न. एक. – mind), हितैषिणः (हितैषिन् पु. बहु. – well-wisher)कर्मकारकम्  – जिताम् (जि धा. कृत्-प्र. एक.- victorious), महीम् (मही स्त्री. एक. – Earth), प्रियम् (विषेशणपदम्, प्रियम् न. एक.- dear)
    करणकारकम् – सपत्नेन (सपत्न पु. एक. – enemy)
    सम्प्रदानकारकम्  – महीभुजे (महीभुज् पु. एक. .- king)
    अपादनकारकम्  –
    सम्बन्धः – कृतप्रणामस्य (कृतप्रणाम पु. एक. – bowed),

    निवेदयिष्यतः (निविद् धा. णिच्-प्र. शत्-प्र., निवेदयिष्यत् पु. एक. – one who was made to inquire), तस्य (तत् पु. एक. .- his)
    अधिकरणकारकम्  –
    सम्बोधनम्  –
    अव्ययम्  – न – not, हि, मृषा – false, प्रवक्तुम् (प्रवद् धा. तुमुन्-प्र. – speak)
    धातुः – विव्यथे (व्यथ् लिट्. प्र. एक. – troubled), इच्छन्ति (इच्छ् लट् प्र. बहु. desire)


    His mind, who was bowed and was made to inquire for the king about the earth won by the enemies, was untroubled; well-wishers do not desire to speak dear falsehood.


    Last Modified: 2007/10/28


     
  • Himanshu Pota 6:05 pm on October 27, 2007 Permalink | Reply  

    पिपीलिकाः (Ants) 

    लोकसंस्कृतम् पत्रिकायां पिपीलिकाः नाम एका वार्ता अपठम्। तस्यां वार्तायाम् अधोलिखितानां शब्दानाम् अर्थम् अहं न अजानम्।
    उपधौ – on a seat – मया प्रतीयते उपधि इति शब्दः उपधृ (उपधरति – supports, holds) धातोः अजायत्।
    तैलपः – cockroach
    उत्तानः – lying on the back face up – उत् + तन् इति तस्य व्युत्पत्तिः, उत्तानः इति stretched इत्यर्थे अपि भवति।
    महार्घः – very valuable – महा + अर्घः
    स्तूपीकृत्य – piled in a heap
    तूर्णम् – quickly, speedily

    २००७-१०-२७ शनिवासरः (2007-10-27 Saturday)

     
    • Joy Vyloppully 7:28 am on October 28, 2007 Permalink | Reply

      तूर्णम् – quickly, speedily…..can’t we also use “shiigram”

    • Himanshu Pota 1:06 pm on October 28, 2007 Permalink | Reply

      अहं मन्ये तूर्णम् इति अर्थे शीघ्रं इति प्रयोक्तुं शक्यते|

      धन्यवादः|

    • Atheist Hindu 10:13 pm on January 18, 2011 Permalink | Reply

      Thanks for ‘ants’ translation. Was looking for it.

  • Himanshu Pota 12:37 pm on October 26, 2007 Permalink | Reply  

    रामायण-मण्डली (Ramayan Mandali) 

    शतेभ्यः संवत्सरेभ्यः अपि पूर्वं भारतदेशस्य पूर्वभागात् अनेके लोकाः फिजीदेशम् अगच्छन्। ते तुलसीदासकृतं रामचरितमानसं तैः सह अनयन्। तस्मात् फिजीदेशे अनेकाः रामायण-मण्डल्यः सन्ति। केन्बरानगरे अपि फिजीदेशात् आगतानां भक्तानाम् एका रामायण-मण्डली अस्ति। मण्डल्याः सर्वे  भक्ताः मन्दिरस्य सदस्याः सन्ति किन्तु तेषां रामकथासम्बन्धिषु कार्यक्रमेषु विशेषः रुचिः अस्ति। अद्य ते मन्दिरे रामचरितमानसस्य पाठम् अकुर्वन्। मह्यं तैः कृतः पाठः अतीव अरोचत । पाठात्  परम् अहम् आनन्दितः सन्  रात्रौ सार्धनववादने गृहं प्रत्यागच्छम्।

    २००७-१०-२६ शुक्रवासरः (2007-10-26 Friday)

     
  • Himanshu Pota 10:34 am on October 25, 2007 Permalink | Reply  

    यस् यत् धातू (to try – verbal roots) 

    यस् इति दिवादिगणीयः परस्मैपदी धातुः अस्ति। तस्मात् प्रयासः इत्यादयः शब्दाः जायन्ते।
    कर्तरि – अहं संस्कृतं शिक्षणाय (for learning) यस्यामि। त्वमपि यस्य। सः अपि यस्यतु।
    कर्मणि – मया संस्कृतं शिक्षणाय यस्यते। त्वया अपि यस्यते। तेन अपि यस्यते।
    यत् इति भ्वादिगणीय आत्मनेपदी धातुः अस्ति। तस्मात् प्रयत्नः इत्यादयः शब्दाः जायन्ते।
    कर्तरि – सः गमनाय यतते। गीतायां – यतते च ततः भूयः।
    कर्मणि – तेन गमनाय यत्यते।

    २००७-१०-२५ गुरुवासरः (2007-10-25 Thursday)

     
    • hnbhat 5:15 pm on June 2, 2012 Permalink | Reply

      कर्मणि – तेन गमनाय यत्यते। –

      कर्मणि लकारः – सकर्मकाणामेव धातूनाम्, यत् धातुरकर्मक इति भावे एव लकारः।

    • hnbhat 6:26 pm on June 2, 2012 Permalink | Reply

      अस्य धातोः – भवतिवद् रूपाणि च भवन्ति -]

      यसति – यसतः – यसन्ति।
      यससि – यसथः – यसथ।
      यसामि – यसावः – यसामः। इति

      किं तु – आयस्यति, प्रयस्यति इत्यादौ उपसृष्टाद् धातोः श्यन् एव।

      परं तु – सम् पूर्वात् – संयस्यति, संयसतः इत्यादि रूपद्वयमपि भ्वादिवद् दिवादिवच्च भवति इति विशेषः।

  • Himanshu Pota 12:56 am on October 24, 2007 Permalink | Reply  

    गवेषते (Searches) 

    गवेष् (to seek, search, or inquire) भ्वादिगणीयः आत्मनेपदी धातुः अस्ति। सः कुञ्चिका गवेषते।
    सः अनुसंधानं करोति इति He does researchअर्थे भवति।
    सा आविष्करोति इति She inventsअर्थे भवति।
    आविष्कृ धातोः उत्पादनं कदाचित् विद् धातोः अभवत्। विद् तत् परम् आविद् आविस् आविष् आविष्कृ इति।
    शोधति इति मार्जयति शुद्धीकरोति इति अर्थे भवति किन्तु इदानीं शोधति इति अनुसंधानं करोति अर्थे अपि प्रयुज्यते तथा शोधपत्रम् research paper-इति भवति।

    २००७-१०-२४ बुधवासरः (2007-10-24 Wednesday)

     
  • Himanshu Pota 12:14 am on October 23, 2007 Permalink | Reply  

    प्राणः (Breath) 

    प्राणो ह सत्यवादिनमुत्तमे लोक आदधत्॥ अथ. ११।६।११॥
    यः सत्यं वदति तम् सत्यवादिनं प्राणः/श्वासः उत्तमलोके आधारं ददाति।
    Breath provides support in the highest worlds for him who speaks the truth.

    २००७-१०-२३ मङ्गलवासरः (2007-10-23 Tuesday)

     
c
Compose new post
j
Next post/Next comment
k
Previous post/Previous comment
r
Reply
e
Edit
o
Show/Hide comments
t
Go to top
l
Go to login
h
Show/Hide help
shift + esc
Cancel