Updates from Srinivasa Toggle Comment Threads | Keyboard Shortcuts

  • Srinivasa 1:10 pm on July 30, 2017 Permalink | Reply  

    किरातार्जुनीयम् प्रथमः सर्गः – अन्तर्जालशिक्षा 

    व्योमसंस्कृतपाठशालायाः जालपृष्ठे किरातार्जुनीयकाव्यस्य प्रथमसर्गस्य अन्तर्जालपाठाः उपलब्धाः । सम्प्रति तमिळभाषामाध्यमेन इमं महाकाव्यमध्येतुं शक्नुवन्ति तमिळभाषिणः। अध्यापिका विशालाक्षीवर्या अस्मै परोपकाराय अस्माकं धन्यवादानि पूर्णरूपेण अर्हतीति नात्र संशयः ।
    http://www.sanskritfromhome.in/course/kiratarjuniyam-sarga1

    २०१७-०७-२९ शनिवासरः (2017-07-29 Saturday)

    Advertisements
     
  • Srinivasa 7:26 am on July 21, 2017 Permalink | Reply  

    गीतामाध्यमेन संस्कृतम् 

    मम सब्रह्मचारी शङ्करवर्यः गतत्रयवर्षेभ्यः भगवद्गीतां   शाङ्करसम्प्रदायप्रवेशव्याख्यामाध्यमेन पाठयति । सः सदैव माम् पृच्छति स्म – छात्राः कथं गीतापठनार्थं संस्कृतशिक्षां प्राप्नुवन्ति? अपि तदर्थं कोऽपि पुस्तकोऽस्ति?

    ये हिन्दीभाषां न जानन्ति तेभ्यः प्रयोजनीयं पुस्तकमेकं मया दृष्टः।  अस्मिन् पुस्तके सर्वे दृष्टान्ताः गीतायाः हितोपदेशाद्वा उद्धृताः। अत्र पश्यतु –

    http://amzn.to/2uf3e7I

    २०१७-०७-२० गुरुवासरः (2017-07-20 Thursday)

     
    • Himanshu Pota 3:24 pm on July 21, 2017 Permalink | Reply

      भवान् शङ्करवर्यस्य प्रश्नं न सम्यग् अवागच्छत्। मन्ये सः पृच्छति अपि अस्ति किमपि निःशुल्कपुस्तकं येन संस्कृतशिक्षणं सम्भवति इति।

  • Srinivasa 7:25 am on July 18, 2017 Permalink | Reply  

    बिडाले गते क्रीडन्ति मूषकाः (When the cat's away, the mice will play) 

    गतशुक्रवासरे पोटावर्यः फ़्रान्सदेशे टूलूसनगर्यां पर्यटनं कुर्वन् मया सह चलभाषसंभाषणं अकुर्वत् । तदनन्तरं बेल्जियम्देशे ब्रसल्सनगरात् मम चलभाषोपकरणे एक: अपराद्धसंदेशोऽपि तेन प्रेषितः। तद्पश्चाद् मुम्बई उड्डयनकेन्द्रात् देवानाम्प्रियः पुनरेकं वारं तेन स्मृतः। अधुना बरोडानगरे स्व मात्रा सार्धं क्वचिद् कालं अत्र विरमति इत्यपि श्रूयते । एवं सति इदं वृत्तपत्रमपि इन्दुरहिततारागणमिव दृश्यते । अतः अहमद्य लिखामि।

    २०१७-०७-१७ सोमवासरः (2017-07-17 Monday)

     
    • Himanshu Pota 3:35 pm on July 18, 2017 Permalink | Reply

      क्रीडा इति कर्तव्या किन्तु संस्कृतेन सह क्रीडा न शोभते। कथं सेल् इति कथं मिस्डकाल् इति? इदृशाः प्रयोगाः हातव्याः कदापि न कर्तव्याः।

  • Srinivasa 3:18 pm on February 5, 2017 Permalink | Reply  

    रमुँ क्रीडायाम् (to delight, to satisfy) 

    पोटामहोदयः कथयति – र॒मुँ॒ क्रीडायाम् इति भ्वादिगणीयः आत्मनेपदी अनिट् धातुः अस्ति किन्तु विरम् इति सोपसर्गीयः धातुः परस्मैपदी अस्ति। रम् इति धातोः परस्मैपदरूपमपि क्वचित् दृश्यते । पश्यतु –

    मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् ।
    कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥ गीता १०.९ ॥

    भगवान् रामानुजः गीताभाष्ये ‘तुष्यन्ति च रमन्ति च’ इत्यस्य व्याख्यायां ‘वक्तारस्तद्वचनेनानन्यप्रयोजनेन तुष्यन्ति, श्रोतारश्च तच्छ्रवणेनानवधिकातिशयप्रियेण रमन्ते’ इत्युक्त्वान्। अनेन ‘रमन्ति’ इति आर्षपरस्मैपदमिति श्रीभाष्यकारविवरणेनसूचितमिति रसास्वादाख्यटिप्पणकर्त्रा वीरराघवाचार्येण महादेशिकेनोक्तम् ।

    २०१७-०२-०४ शनिवासरः (2017-02-04 Saturday)

     
  • Srinivasa 3:49 pm on January 18, 2017 Permalink | Reply  

    समुद्रतीरे हिमांशुवर्यः 

    अस्मिन् मासप्रारम्भे अत्र भवान् हिमांशुवर्यः सपरिवारः समुद्रतीरे परिभ्रमणाय अगच्छत् । वयं सर्वे अत्रभवतः शुभेच्छवः अचिन्तयन् – किं करोति समुद्रतीरे अत्र भवान्? प्रायः लोके सर्वे समुद्रतीरे निधानाय स्वल्पावकाशाय स्वदिनचर्य्यां शिथिलीकर्तुं च गच्छन्ति। परन्तु नायं भद्रः निधानं जानाति नायं च येन केन प्रकारेण श्रमपरिहारं कर्तुं वाञ्छति । तर्हि कथमयं समुद्रतीरे गतवान्?

    पामरजनाः समुद्रतीरावकाशे तरन्ति, यथेष्टं खादन्ति, कालक्षेपाय शृङ्गारोपन्यासान् पठन्ति च। यदा किञ्चिदपि कर्तुं नास्ति तदा पीठे बुद्धावतारमिव उपविशन्तः सर्वान् स्थावरान् च जङ्गमान् एकेन विशिष्टेन शुद्धजाड्येन निर्वर्णयन्तः सन्ति । एवं सति किं करोति हिमांशुवर्यः समुद्रतीरे?

    भ्रान्ताः वयं हिमांशुवर्यमन्तरेण ज्ञातुं किमधुना करवाणीति स्थिताववकाशे वयं ईमेयिलकोष्ठे पत्रमेकं प्राप्तवन्तः। पत्रे एकं चित्रमपि आसीत् येन सर्वं स्पष्टीकृतः अस्मभ्यं च हर्षः सञ्जातः। किमासीत् अस्मिन चित्रे?

    यदा अयं भद्रः अवकाशे अगच्छत् तदैवासीत् अस्माकं चेतस्सु – नास्तिखल्वसाध्यं नाम तपसाम् । किमतः परमाश्चर्यं यदत्र भवान् समुद्रतीरेऽपि संस्कृताध्ययनमेव करोति? स्थाने खलु अस्माकं प्रत्ययः ।

    ईमेयिलमाध्यमे प्राप्तः चित्रमिदमालोकितमस्माभिरदृष्टपूर्वकम् । हिमांशुवर्यः अवकाशेऽपि व्याकरणाध्ययनमेव करोति स्म। पश्यतु

    img_3506

    २०१७-०१-१७ मङ्गलवासरः (2017-01-17 Tuesday)

     
  • Srinivasa 10:51 am on January 17, 2017 Permalink | Reply  

    नवजोतस्य कांग्रेसे पुनर्प्रवेशः 

    अद्य क्रिकेटक्रीडकचरः नवजोतसिंहः कांग्रेसे पुनः प्राविशत् । आजन्मकांग्रेससेवकोऽहं स्वगेहे पुनः प्रविशामीत्यपि तेन न्यगदितः । सः केवलं द्विवर्षपूर्वे ‘कांग्रेसपक्षः मुन्न्याः कुत्सिततरः’ इत्यनिन्ददिति अस्मिन् वृत्तपत्रे अस्माभिः लिखित: । पश्यतु http://bit.ly/2jDp6DR

    धिक् इमं निर्लज्जं धिक् कांग्रेसदलं च ।

    २०१७-०१-१६ सोमवासरः (2017-01-16 Monday)

     
    • Himanshu Pota 11:22 pm on January 17, 2017 Permalink | Reply

      नवजोतः स्वपितृगृहं प्राप्तः। तस्मात् का लज्जा। अथ च – लज्जां त्यक्त्वा सुखी भवेत्। तथा च – जननी जन्मभूमिश्च स्वर्गात् अपि गरीयसी। भाजपदलं स्वर्गः अस्ति किन्तु नवजोतः स्वनिवासाभिमुखोऽस्ति। न तस्य मनः स्वर्गे रम्यते। यथा सः सुखी भवेत् तथा ईश्वरः कुर्यात् इति मे प्रार्थना।

  • Srinivasa 5:00 pm on November 13, 2016 Permalink | Reply  

    असु क्षेपणे (to throw) – 3 

    परा असु

    परास्तम् – निराकृतम् = प्रत्युक्तम्

    परास्तवसुधा सुधाधिवसति  – त्यक्तवसुन्धरा चिरमधिवसति   (कि ५।२७)

    परास्त –  निराकृत

    अप असु

    अपास्यात् – जह्यात् (छोड़ दें)

    चीराण्यपास्याज्जनकस्य कन्या नेयं प्रतिज्ञा मम दत्तपूर्वा।

    यथासुखं गच्छतु राजपुत्री वनं समग्रा सह सर्वरत्नैः  (रा २।३८।६)

    जनक की पुत्री अपने वल्कलवस्त्र त्याग दें। मैं ने यह प्रतिज्ञा पहले नहीं की। राजपुत्री अपने  समस्त आभरणादियों के साथ यथासुख वनप्रस्थान करें ।

     

    (वर्तते)

    २०१६-११-१२ शनिवासरः (2016-11-12 Saturday)

     

     
    • Yume 8:09 pm on November 17, 2016 Permalink | Reply

      Hello!! Could you please write paraspar devo bhava and yatha atra tatha anyatra in sanskrit for me please :))

  • Srinivasa 4:33 pm on November 13, 2016 Permalink | Reply  

    असु क्षेपणे (to throw) – 2 

    प्रेरणेऽर्थे अस्यति इति असु धातोः सामान्यः प्रयोगः ।  असु धातु को सामान्यतः ‘दूर करना’ इस अर्थ में प्रयोग किया जाता है।

    नीलकण्ठपरिभुक्तयौवनां तां विलोक्य जननी समाश्वसत् ।

    भर्तृवल्लभतया हि मानसीं मातुरस्यति सुचं वधूजनः ।।

    (कुमारसम्भवे ८।१२)

    शिवेन परिभुक्तयौवनां पार्वतीं अवलोक्य तस्याः जननी अथवा मेना संतुतोष। तथा हि पतिवात्सल्येन मातुः मनोभवां शोकं निरस्यति

    नीलकण्ठ (अथवा शिवजी) से सम्भोग किये गये पार्वती के यौवन को देखकर उसकी माँ मेना सन्तुष्ट हुई। वधूजन पुत्री अपने पति के प्रेम से ही अपनी माँ का मानसिक शोक को दूर करती हैं

     

    (वर्तते)

    २०१६-११-१२ शनिवासरः (2016-11-12 Saturday)

     
  • Srinivasa 4:01 pm on November 13, 2016 Permalink | Reply  

    असु क्षेपणे (to throw) 

    असु क्षेपणे (फेंकना, निराश होना) दिवादिगणीय, सकर्मक, सेट्, परस्मैपदीय धातुः।

    अयं धातुः क्षेपणातिरिक्तेषु बहुष्वर्थेषु प्रयुक्तो दृश्यते।

    १। निराकृतावर्थे  परास्यति, परास्यते। अपास्यति, अपास्यते। व्युदस्यति, व्युदस्यते। निरस्यति, निरस्यते इत्येते प्रयोगाः। परास्यते  इत्यत्र परापूर्वः असु धातुः। ‘उपसर्गादस्यत्यूह्योर्वेति वाच्यम्’ इत्यात्मनेपदविकल्पः ।

    २। सङ्क्षिप्तावर्थे समस्यति, समस्यते इति सम्पूर्वस्य असु धातोः प्रयोगः ।

    ३। संन्यासेऽर्थे संन्यस्यति, संन्यस्यते इति सम् नि इत्युपसर्गद्वयपूर्वः असु धातुः ।

    ४। अतिविस्तारेऽर्थे तथा अन्तर्धावर्थे च व्यस्यति, व्यस्यते इति विपूर्वः असु क्षेपणे इति धातुः प्रयुक्तो दृश्यते ।

    ५। न्यासेऽर्थे न्यस्यति, न्यस्यते इति निपूर्वस्य असुधातोः प्रयोगः ।

    ६। शीलनेऽर्थे अभ्यस्यति अभ्यस्यते इत्यभिपूर्वस्य असु धातोः प्रयोगः ।

    एते प्रयोगाः क्रमशः परीक्ष्यन्ते ।

    (वर्तते)

    २०१६-११-१२ शनिवासरः (2016-11-12 Saturday)

     
  • Srinivasa 1:36 pm on October 18, 2016 Permalink | Reply  

    श्वयुवमघोनामतद्धिते ।६।४।१३३।। (samprasāraṇaa of aṅga śvan, yuvan, maghavan when a non-taddhita affix follows) 

    अन्नन्तानां भसञ्ज्ञकानाम् एषाम् अतद्धिते परे सम्प्रसारणं स्यात्। मघोनः। मघवभ्याम्। एवं श्वन्, युवन् ।।
    अर्थात्

    ‘अन्’ शब्द जिन के अन्त में हैं ऐसे भसञ्ज्ञक श्वन्, युवन्, मघवन् शब्दों का तद्धितभिन्न प्रत्यय परे होने पर सम्प्रसारण जो जाता है।
    इमं सूत्रमन्तरेण एकं सुभाषितमत्यन्तप्रसिद्धमस्ति ।

    काचं मणिं काञ्चनमेकसूत्रे
    ग्रथ्नासि बाले! किमिदं विचित्रम् ?
    विचारवान् पाणिनिरेकसूत्रे
    श्वानं युवानं मघवानमाह ।।

    अर्थात् ,

    माला गूंथती हुई किसी लड़की से प्रश्न किया गया कि तुम कांच, मणि और सोने को एक ही सूत्र (तागे) में क्यों गूंथ रही हो? वह उत्तर देती है – विचारवान् पाणिनिमुनि ने भी तो एक सूत्र में कुत्ते, युवा और इन्द्र को घसीट मारा है ।  कहने का अर्थ यह है कि जब पाणिनि जैसे बुद्धिमान लोग भी असमान वस्तुओं को एक स्थान में बिठाते हैं तो भला मैं बाला (मूर्खा) ऐसा करूँ तो इसमें आश्चर्य की क्या बात है?

     

     

    २०१६-१०-१७ सोमवासरः (2016-10-17 Monday)

     
    • Himanshu Pota 7:24 am on October 19, 2016 Permalink | Reply

      कृपया श्वन् युवन् मघवन् इति शब्देषु सम्प्रसारणस्य उदाहराणानि ददातु। धन्यवादः।

c
Compose new post
j
Next post/Next comment
k
Previous post/Previous comment
r
Reply
e
Edit
o
Show/Hide comments
t
Go to top
l
Go to login
h
Show/Hide help
shift + esc
Cancel