महान् अध्यायः पूर्णः अभवत् (A Great Chapter has Ended)

अद्य मम जीवनस्य एकः महान् अध्यायः पूर्णः अभवत्। अद्य श्रीदलपतराय-श्रीवास्तवः उदयपुरनगरे दिवं गतः। सः प्रायः नवतिवर्षीयः आसीत्। सः माम् अध्यापयत्  अध्यापनार्थम् आर्थिकरूपेण अपि साहाय्यम् अकरोत्। सः अनेकान् जनान् साहाय्यम् अददात्। सः उदयपुरविश्वविद्यालये भौतिकशास्त्रस्य शिक्षकः आसीत्। सः अस्माकं परिवारस्य सदस्यः कथम् अथवा कदा अभवत् अहं न जानामि। तस्य का माता कः पिता इति अपि अहं न जानामि। तस्य एका भगिनी एकः भ्राता आस्ताम् इति जानामि। तस्मै अहं तस्य विश्वः आसम्। मम विकासार्थं सः मां सुदूरं प्रेषितवान् तस्मात् अहं तस्य कस्मिन् अपि दुःखे सहभागित्वं न अददाम्। सः कदापि स्वस्य कष्टं मां न अकथयत् मम सुखे स्वसुखम् एव अमन्यत्। गतत्रिवर्षात् सः चलितुं न अशक्नोत् तस्मात् शय्याविहितः एव आसीत्। अन्ते तस्य पूर्णा सम्पत्तिः आसीत् एकं चलदूरभाषयन्त्रं येन सः अस्माकं कुशलम् अपृच्छत्। निधनात् मम मनसि तीव्रवेदना वर्तते। जीवने तम् असूचयित्वा मया किमपि कार्यं कदापि न कृतं तस्मात् कथयामि तस्य निधनात् मम जीवनस्य एकः महान् अध्यायः पूर्णः अभवत्।

२०१४-१०-२७ सोमवासरः (2014-10-27 Monday)

Advertisements

अमितशाहः कथं कार्यं करोति। http www hindustantimes com…

अमितशाहः कथं कार्यं करोति।
http://www.hindustantimes.com/specials/coverage/assembly-elections-2014/assemblyelections2014-topstory/when-the-shah-came-marching-in/sp-article10-1278967.aspx

उद्घाटनम् (Inauguration)

यस्य चिकित्सालयस्य श्रीमोदीवर्यः अद्य उद्घाटनम् अकरवं तस्मिन् चिकित्सालये एक-पञ्चांशाणां रोगिणाम् उपचारः निःशुल्कः भविष्यति।
http://ibnlive.in.com/cnnibnvideos/top-in/508537.html
कृपया इदं चलचित्रं पश्यतु। ये नरेन्द्रमोदीवर्यस्य कट्वालोचकाः आसन् ते अपि नरेन्द्रमोदीनम् स्वेषां प्रधानमंत्रीं स्वीकुर्वन्ति।
http://www.ndtv.com/video/player/news/pm-inaugurates-hospital-in-mumbai/342672
नरेन्द्रमोदीवर्यः स्ववक्तव्ये इमं श्लोकम् उक्तवान्-
न त्वहं कामये राज्यं न स्वर्गम् न पुनर्भवम्।
कामये दुखःतप्तानां प्राणिनाम् आर्ति नाशनम्॥

२०१४-१०-२५ शनिवासरः (2014-10-25 Saturday)

मम भार्या शोभना (My Wife is Right)

अद्य आवां पुस्तकालयं पुस्तकानि निवर्तयितुम् अगच्छाव। पुस्तकालयात् बहिः एकः गवाक्षः अस्ति। तेन गवाक्षेन कथं पुस्तकानि निवर्तितव्यम् इति निर्देशनं तत्र लिखितम् अस्ति। तत् निर्देशनं अहं सम्यग् न अवाबोधम् किन्तु मम भार्या सम्यग् अवागच्छत्। दुर्भाग्येन अहं तया सह सहमतः न अभवम् तस्मात् पुस्तकालयस्य अन्तः गत्वा पृष्टवन्तौ। ते अकथयन् यत् मम भार्या अवागच्छत् तत् एव सम्यग् अस्ति। तस्मात् अत्र अहं लेख्यारुढं करोमि अहम् असम्यग् अस्मि सा सम्यग् अस्ति इति।

२०१४-१०-२४ शुक्रवासरः (2014-10-24 Friday)

संशयः (Suspicion)

अहम् अपि शङ्के कथं कैलाशवर्याय अयं पुरस्कारः। कृपया पठतु।
http://www.outlookindia.com/article/Manufacturing-Piety/292302

2२०१४-१०-२३ गुरुवासरः (2014-10-23 Thursday)

पश्यतु (See)

किं कथनीयम्। मेरा भारत महान्।
http://www.ndtv.com/video/player/news/am-a-school-dropout-says-diamond-merchant-everyone-s-talking-about/342421?utm_source=taboola

२०१४-१०-२२ बुधवासरः (2014-10-22 Wednesday)

महान् शोकः (Great Sorrow)

औस्ट्रेलियदेशस्य भूतपूर्वः प्रधानमंत्री गोफ-विटलेमवर्यः अद्य दिवं गतः। सः सत्यमेव एकः महान् आत्मा आसीत्। अहं तस्य निधनस्य समाचारं श्रुत्वा अत्यन्तः दुखितः अस्मि।

Mr Fraser tweeted: “Gough Whitlam dead: Martyr for a moment, hero for a lifetime.”

कृपया तस्य शोकपुस्तके स्वहस्ताक्षरं करोतु।
http://www.alp.org.au/whitlamcondolences?recruiter_id=230092

Gough Whitlam
Gough Whitlam – courtesy The Guardian

२०१४-१०-२१ मङ्गलवासरः (2014-10-21 Tuesday)