तार्क्ष्यश्चारिष्टनेमिश्च तथैव गरुडारुणौ।
आरुणिर्वारुणिश्चैव वैनतेयाः प्रकीर्तिता॥महाभारते आदिपर्वणि पञ्चषष्टितमे अध्याये चत्वारिंशत्तमः श्लोकः १.६५.४०॥
तार्क्ष्यः अरिष्टनेमिः गरुडः अरुणः आरुणिः वारुणिः च विनतायाः अपत्यानि इति प्रकीर्तिताः।
आकारान्तस्य अङ्गस्य तद्धितप्रत्यये परे लोपः – (इयं सिद्धिः www.ashtadhyayi.com इति जालपत्रात् द्वीकृत्वा स्थापिता)
विनता + ढक् [तस्यापत्यम् ४.१.९२ अस्मिन् अर्थे स्त्रीभ्यो ढक् ४.१.१२० इति ढक्-प्रत्ययः]
→ विनता + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् ७.१.२ इति ढकारस्य एय्-आदेशः]
→ वैनता + एय [किति च ७.२.११८ इति आदिवृद्धिः]
→ वैनत् + एय [एकारे परे यचि भम् १.४.१८ इत्यनेन अङ्गस्य भसंज्ञा । अतः यस्येति च ६.४.१४८ इति अङ्गस्य आकारस्य लोपः]
→ वैनतेय
२०२०-१२-३१ गुरुवासरः (2020-12-31 Thursday)