कम्बुः (Counch)

कम्बूनथ समादध्मुः कोणैः भेर्यो निजघ्निरे।
वेणून् पुपूरिरे गुञ्जा जुगुञ्जुः करघट्टिताः॥भट्टिमहाकाव्यं चतुर्दशः सर्गः द्वितीयः श्लोकः॥
(युद्धार्थ रावणकी आज्ञा पाकर) सैनिकोंने शंख बजाये, डण्डोंसे नगाडे पीटने लगे, वंशी बजाने लगे, अङ्गुलियोंकी रगड पाकर युद्धके बाजे बजाने लगे।
ध्मा शब्दाग्निसंयोगयोः भ्वादिः, गुजिँ अव्यक्ते शब्दे भ्वादिः, हनँ हिंसागत्योः अदादिः, पूरीँ आप्यायने दिवादिः।

२०२२-०३-३१ गुरुवासरः (2022-03-31 Thursday)

प्रधानमन्त्र्यावासयोजना (PM Avas Yojana)

प्रधानमन्त्र्यावासयोजनया द्विकोट्यावासाः निर्मिताः। भारतदेशे प्रायः दशकोटिसिद्धगृहाणि सन्ति।

Houses built under PMAY

https://www.orissapost.com/demand-to-increase-size-of-pucca-houses-under-pmay-made-in-rs/ 3 July 2019
https://theprint.in/india/owning-a-home-has-empowered-countrys-women-says-modi-on-govt-housing-scheme/893183/ 29 March 2022)
The Prime Minister said the previous government had built “only a few lakh houses for the poor in their tenure”. “My government has built 2.5 crore houses for them. Of these, 2 crore are in villages. And, work didn’t slow down despite Corona,” Modi said via video conference. The event was also attended by Madhya Pradesh Chief Minister Shivraj Singh Chauhan.
https://answerstoall.com/object/how-many-houses-are-in-india/ 10 Crore houses
https://pib.gov.in/PressReleasePage.aspx?PRID=1776081

२०२२-०३-३० बुधवासरः (2022-03-30 Wednesday)

निर्वृत्ते समाप्ते (Finished)

निर्वृत्ते तु क्रतौ तस्मिन् हयमेधे महात्मनः।
प्रतिगृह्य सुरा भागान् प्रतिजग्मुर्यथागतम्॥श्रीमद्वाल्मीकीयरामायणं बालकाण्डम् अष्टादशः सर्गः प्रथमः श्लोकः
निर्वृत्ते सम्पाप्ते अवसिते – श्रीचारुदेवेन शास्त्रिणा प्रणिता उपसर्गचन्द्रिका द्वितीयः खण्डः पृष्ठम् ३३४, भारतीय विद्या प्रकाशन, १९७८।

२०२२-०३-२९ मङ्गलवासरः (2022-03-29 Tuesday)

इव इत्यस्य महत्त्वम् (The importance of iva)

का कथा बाणसन्धाने ज्याशब्देनैव दूरतः।
हुङ्कारेणेव धनुषः स हि विघ्नानपोहति॥अभिज्ञानशाकुन्तलम् ३.१॥
कीदृशः ज्याशब्दः? ज्याशब्दः हुङ्कारः इव।
प्रथमं वारं यदा मया अयं श्लोकः पठितः तदा इव इत्यस्य अवगणनं कृतम्। तत्कृत्वा भ्रमोऽभवत् कथं हुङ्कारः वा शब्दः पर्याप्तो नासीत् इति। ज्याशब्दः इत्यस्य किं प्रयोजनम् इति? नष्टो भ्रमः अर्थः लब्धः यदा इव इत्यस्य महत्त्वम् अवगतम्।

२०२२-०३-२८ सोमवासरः (2022-03-28 Monday)

The Kashmir Files इत्यस्य न्यूजीलेण्डदेशे प्रदर्शनम् (Screening The Kashmir Files in New Zealand)

अन्ते चलचित्राणां द्वारपालकैः The Kashmir Files इति चलचित्रस्य न्यूजीलेण्डदेश्स्य प्रवेशम् अनुमतम्। यस्मिन् लेखे द्वारपालकस्य निर्णयस्य चर्चास्ति तत्र इदं वाक्यमस्ति। Screenings of the film in cinemas across India have seen Hindu moviegoers calling for revenge and the extermination of Muslims, according to overseas news reports. ते अस्मिन् वृथावचने कापि लज्जां न अनुभवन्ति। इयमस्ति अत्रस्थः पत्रकारिता। हिन्दूमतावलम्बिनां विषये अवाच्यवचनानि अनिशं वक्तव्यानि।

२०२२-०३-२७ रविवासरः (2022-03-27 Sunday)

उत्तरप्रदेशे प्रशासनविमुखत्वम् (Anti-incumbency in UP)

उत्तरप्रदेशस्य गतनिर्वाचनस्य विषये पण्डिताः वारं वारं प्रशासनविमुखत्वमस्ति इति जल्पनमकुर्वन्। इदानीमपि योगिराजः व्याजेन निर्वाचनम् अजयत् इति आक्षेपं कुर्वन्ति। तस्मिन् निर्वाचने विजिते विश्लेषणं कुर्वन्ति च कथं सः प्रशासनविमुखत्वस्य लङ्घनं कृत्वा मुखमन्त्रिपदे आरूढोऽस्ति। मन्ये तैः महापण्डितैः इदृशानि चलचित्राणि न दृष्टानि – जो राम को लाये हैं हम उनको लायेंगे। कुत्र प्रशासनविमुखत्वम्।

२०२२-०३-२५ शुक्रवासरः (2022-03-25 Friday)

अहो आनन्दः (O Joy!)

अहं न कदापि पादकन्दुकक्रीडा दूरदर्शने पश्यामि। अद्य यदृच्छया जापान-ओस्ट्रेलियादेशयोः विश्वचषकप्रतियोगिताप्रवेशस्पर्धायाः अन्तिमभागः दृष्टः। यावद् दूरदर्शने क्रीडायाः दर्शनम् आरब्धं तावद् जापानदेशेन लक्षं विद्धम् एकः अङ्कः प्राप्तः च। तत् परं शीघ्रं द्वितीयवारं लक्षम् विद्धम् द्वितीयः अङ्कः प्राप्तः च। अहो आनन्दः।

Japan Australia World Cup Qualifier 24 March 2022

२०२२-०३-२४ गुरुवासरः (2022-03-24 Thursday)

केरलकथा (The Kerala Story)

यः विपुलामृतलालशाहः केरलकथा इति नाम चलचित्रं निर्माति सः धनेनापि विपुलोऽस्ति। तेन भृशं व्यये पूर्वं चलचित्राणां निर्माणं कृतं लाभोऽपि प्राप्तः। यत् विवेकेन आरब्धं तत् विपुलः अग्रे सरति। न मया ज्ञातं केरलराज्ये कन्यायाम् ईदृशं अपहरणम् अभवति। चलचित्रं प्रतीक्षे।

२०२२-०३-२३ बुधवासरः (2022-03-23 Wednesday)

लाभकरः संवादः (Useful Discussion)

अद्य भारते ग्रामेषु सौर्योर्जायाः कार्यं कुर्वद्भिः अभियन्तृभिः सह मेलनमभवत्। ते यत्र यत्र ग्रामे विद्युद्जालं नास्ति तत्र सौर्योर्जया विद्युद्वितरणस्य कार्यं कुर्वन्ति। यस्मिन् कल्पे IIM Indore इति संस्थया सह कार्यं कुर्मः तत् कार्यं कुर्र इति ग्रामे संभाव्यते। अयं लाभकरः संवादः अद्य अभवत्। ते सर्वे अभियन्तारः निष्णाताः सन्ति इति मन्ये।

Engineers from India meet the AIC Team – 22 March 2022

२०२२-०३-२२ मङ्गलवासरः (2022-03-22 Tuesday)