प्रभावलयम् (Aura)

विद्युल्लताकपिलतुङ्गजटाकलापम्
उद्यत्प्रभावलयिनं परशुं दधानम् ।
क्षत्रान्तकं मुनिवरं भृगुवंशकेतुं
गत्वा प्रणम्य निकटे निभृतः स्थितोऽस्मि ॥ कर्णभारम् ९
कलापः समूहः। कलापः, पुं, (कलां मात्रां आप्नोति . कला + आप्+“ कर्म्मण्यण” . ३ . २ . १ . इति अण् . यद्वाकला आप्यतेऽनेन“ हलश्च” . ३ . ३ . १२१ .इति घञ् .) समूहः।

२०२४-०१-२९ सोमवासरः (२०२४-०१-२९ Monday)

वैधुर्यम् (Agitation)

२०२४-०१-०६ शनिवासरः (2024-01-06 Saturday)
कर्णः — अहोतुखलु,
अन्योन्यशस्त्रविनिपातनिकृत्तगात्र-
योधाश्ववारणरथेषु महाहवेषु ।
क्रुद्धान्तकप्रतिमविक्रमिणो ममापि
वैधुर्यमापतति चेतसि युद्धकाले ॥ कर्णभारम् ६॥
मम कर्णस्य चेतसि वैधुर्यम् आपतति युद्धकाले। कीदृशः कर्णः क्रुद्धः अन्तकप्रतिमः यमप्रतिमः विक्रमः। कीदृशः युद्धः निकृत्तगात्र-योधा-अश्व-वारण-रथः।

योगधारणा (Steadiness of Yoga)

सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च।
मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम्।। गीता ८.१२ ।।
रामानुजाचार्यः – योगाख्यां धारणां आस्थितः मयि एव निश्चलां स्थितिम् आस्थितः।
श्रीधरस्वामी – योगस्य धारणां स्थैर्यमास्थित आश्रितवान्सन्।

२०२४-०१-०५ शुक्रवासरः (2024-01-05 Friday)

प्रत्यगात्मा (Inner self)

यत् प्राचि नास्ति बहिर् नास्ति किन्तु प्रतीचि अस्ति अन्तः अस्ति इति प्रत्यगात्मा।
प्रत्यगात्मन् {@प्रत्यगात्मन्@}¦ प्रतीचो जीवस्यात्मा स्वरूपम्
प्राञ्च्

  • अञ्च् (अञ्चु-गतिपूजनयोः)।
  • ‘प्राणो नाम प्राग्गमनवान् नासाग्रवर्ती’ (वे० सा० ३८)। प्राञ्चति अग्रे गच्छतीति प्राक्।

    प्रत्यञ्च्
  • अञ्च् (अञ्चु गतिपूजनयोः)।
  • ‘प्रत्यङ् नः सुमना भव’ (अथर्व० ३।२०।२, ऋ० १०।१४१।१)। अस्मान्प्रत्यञ्चन्, अस्मदभिमुखं गच्छन्।
  • ‘जहि प्रतीचो अनूचः पराचः’ (अथर्व० ३।१।४)। प्रतीचः प्रतिमुखमागच्छतः। पराचः पराङ्मुखं गच्छतः।
  • ‘ऋतव: सर्वे पराञ्चः सर्वे प्रत्यञ्चः’ (श० ब्रा० १२।८।२।३५)। प्रत्यञ्चः परावृत्ताः, अभिमुखगामिनः।

    २०२३-१२-३१ रविवासरः (2023-12-31 Sunday)

विशदः (Shining)

अत्युग्रदीप्तिविशदः समरेङ्ग्रगण्यः
शौर्ये च सम्प्रति सशोकमुपैति धीमान् ।
प्राप्ते निदाघसमये घनराशिरुद्धः
सूर्यः स्वभावरुचिमानिव भाति कर्णः ॥ कर्णभारम् ४॥
अत्युग्रदीप्तिविशदः प्रतापातिशयप्रद्योतितः।
विशदः, त्रि, (वि + शदॢँ शातने (भ्वादिः परस्मैपदी अकर्मकः अनिट् ज्वलादिः )+ अच् .) विमलः इति हेमचन्द्रः, व्यक्तः इति मेदिनी, शुक्लगुणयुक्तः इत्यमरः, उज्ज्वलः।
वि विशेषवैरूप्यनञर्थगतिदानेषु इति मुग्धबोधटीकायां दुर्गदासः।

२०२३-१२-२८ गुरुवासरः (२०२३-१२-28 Thursday)

समरः (Battle)

करितुरगरथस्थैः पार्थकेतोः पुरस्ताद्
मुदितनृपतिसिंहैः सिंहनादः कृतोऽद्य ।
त्वरितमरिनिनादैर्दुःसहं लोकवीरः
समरमधिगतार्थः प्रस्थितो नागकेतुः ॥ कर्णभारम् ३
समरः, पुं, क्ली, (सम्यक् अरणं प्रापणमिति सं + ऋ गतौ + अप् . यद्बा, सम्यक् ऋच्छत्यत्रेति .“ मन्दरकन्दरशीकरेति .” बाहुलकात्अरप्रत्ययेन साधुः . इत्युज्ज्वलः . ३ . १३१ .) युद्धम् . इत्यमरः .. (यथा, रघुः . १२ . ८२ .“ इतराण्यपि रक्षांसि पेतुर्वानरकोटिषु .रजांसि समरोत्थानि तच्छोणितनदीष्विव ..” )
आयोधनम्, प्रविदारणम्, संख्यम्, ‍समरः, कलहः, अभिसंपातः, संयोगः, संग्रामः, ‍संयत्, समित्, जन्यम्, मृधम्, समीकम्, अ‍नीकः, ‍विग्रहः, कंलिः, अभ्यामर्दः, आहवः, ‍समितिः, युत्, प्रधनम्, आस्कन्दनम्, ‍सांपराथिकम्, रणः, संप्रहारः, संस्फोटः, ‍समाघातः, समुदायः, आजिः, युद्धम्।
युद्धार्थे कति पदानि सन्ति येषां व्युत्पत्तिः सम्यग् मेलनम् इति अस्ति। क आश्चर्यः प्रायः यदा जनाः मिलन्ति तदा युध्यन्ते च।

२०२३-१२-२६ मङ्गलवासरः (२०२३-१२-26 Tuesday)

कलिताञ्जलिः (hands together)

सङ्ग्रामे तुमुले जाते कर्णाय कलिताञ्जलिः ।
निवेदयति संभ्रान्तो भृत्यो दुर्योधनाज्ञया ॥ कर्णभारम् २
कल गतौ सङ्ख्याने च (चुरादिः उभयपदी सकर्मकः सेट्)
भ्रमुँ अनवस्थाने (दिवादिः परस्मैपदी सकर्मकः सेट् पुषादिः शमादिः )
नि + विदँ ज्ञाने (अदादिः परस्मैपदी सकर्मकः सेट् ) –
संग्रामँ संग्राम (अर्थः) युद्धे इति माधवीया।
युधँ सम्प्रहारे (दिवादिः आत्मनेपदी अकर्मकः अनिट् )
आङ् + ज्ञा धातुविवरणम् ज्ञा अवबोधने ( ०९.००४३ ज्ञा अवबोधने )
तु  गतिवृद्धिहिंसासु (अदादिः परस्मैपदी सकर्मकः अनिट् )

२०२३-१२-19 मङ्गलवासरः (2023-12-19 Tuesday)

श्रीधरः नृसिंहः (Shridhara Nrisimha)

नरमृगपतिवर्ष्मालोकनभ्रान्तनारी-
नरदनुजसुपर्वव्रातपाताललोकः ।
करजकुलिशपालीभिन्नदैत्येन्द्रवक्षाः
सुररिपुबलहन्ता श्रीधरोऽस्तु श्रिये वः ॥ कर्णभारम् १
वर्ष्म विग्रहः – शरीरं वर्ष्म विग्रहः इत्यमरः। सुपर्वणां सुमनसाम्। व्राताः सङ्घाः निकरव्रातसङ्घातसञ्चयाः इत्यमरः। करजः करे जातः। कुलिशं वज्रं म्भोलिः शतकोटिः कुलिशम् शम्बः पविः वज्रम् अशनिः स्वरुः भिदुरम् ह्लादिनी इत्यमरः। पालिः अश्रि कोटिः कोणः इत्यमरः।

२०२३-१२-18 सोमवासरः (2023-12-18 Monday)

निरयः (Hell)

अथ गत्वेन्द्रलोकं सो वीक्ष्येन्द्रार्धासनस्थितम्।
दुर्योधनं तथाऽन्यांश्च कर्णादीन् मोदमेदुरान्।
चित्रीयमाणः शुश्राव निरयस्थजनारवम्॥ भारतकथा १७९॥
मोदमेदुरान् आनन्दनिर्भरान्। निरयस्थजनारवं नरकस्थितलोकचीत्कारम्।
निरयः, पुं, (निकृष्टः अयो गमनं यत्र) नरकः इत्यमरः १ . ८ . १ (यथा, हरिवंशे १६ .१६ “कथञ्च शक्तास्ते दातुं निरयस्थाः फलं पुनः ..” )
नरकः, निरयः, दुर्गतिः, नारकः।
मेदुर/ मेदुरः मेदुरः, त्रि, (मेद्यति स्निह्यतीति . मिद् स्नेहने +“ भञ्ज-भासमिदो घुरच् .” ३ . २ . १६१ . इति घुरच् .)अतिशयस्निग्धः . तत्पर्य्यायः . सान्द्रस्निग्धः २ .इत्यमरः . ३ . १ . ३० .. (यथा, गीतगोविन्दे . १ . १ .“ मेघैर्मेदुरमम्बरं वनभुवः श्यामास्तमालद्रुमै-र्नक्तं भीरुरयं त्वमेव तदिमं राधे ! गृहं प्रापय ..” )।

२०२३-१२-17 रविवासरः (2023-12-17 Sunday)

क्षुत्तृड्भ्याम्। (Till thirst and hunger)

कामस्यान्तं हि क्षुत्तृड्भ्यां क्रोधस्यैतत्फलोदयात्।
जनो याति न लोभस्य जित्वाभुक्त्वा दिशो भुवः।।
क्षुत्तृड्भ्याम् इत्यस्मिन् पदे द्वौ शिक्षप्रदौ सन्धी स्तः।
क्षुध् + तृष् + भ्याम् = क्षुत्तृड्भ्याम्। क्षुध् बुभुक्षा भूख तृष् पिपासा प्यास। इच्छा तब तक है जब तक भूख और प्यास
खरि च (८.४.५५)
झलां जश् झशि (८.४.५३)
स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाङ्ङ्योस्सुप् (४.१.२)

२०२३-१२-16 शनिवासरः (2023-12-16 Saturday)