प्रिटोरीयानगरात् प्रातिष्ठे (Depart from Pretoria)

अद्य प्रातःकाले प्रिटोरीयानगरात् प्रातिष्ठे। प्रिटोरीयानगरात् भाटयानेन जोहेनेसबर्गनगरम् आगच्छम् ततः मुम्बईनगरम् ततः दिल्लीनगरम्। प्रिटोरीयानगरे मम अतिथिसत्कारः रमेशवर्येण कृतः। रमेशवर्यस्य तस्य भार्यायाः च अहं अतिथिसत्काराय कृतज्ञः अस्मि। यथा बान्धवाः सत्कारं कुर्वन्ति तस्मात् अपि वरं सत्कारं तौ कृतवन्तौ।

२०१४-०८-३१ रविवासरः (2014-08-31 Sunday)

भोजनम् (Lunch)

Dr Ramesh Bansal
Dr Ramesh Bansal

अद्य अपराह्णस्य भोजनं मया प्रिटोरीयाविश्वविद्यालयस्य विद्युतयान्त्रिकी-विभागस्य अध्यक्षेण च राजवर्येण च रमेशवर्येण च सह कृतम्। शनिवासरः अस्ति तथापि तैः मह्यं स्वकालं दत्तम्। भोजनं परं वयं प्रिटोरीयानगरं भ्रमणाय गतवन्तः।

२०१४-०८-३० शनिवासरः (2014-08-30 Saturday)

अन्तिमं निदेशनम् (Last Presentation)

अस्मिन् सदसि मम अन्तिमं निदेशनं अद्य आसीत्। निदेशनं कृत्वा सायंकाले प्रिटोरीयानगरम् आगच्छम्।

२०१४-०८-२९ शुक्रवासरः (2014-08-29 Friday)

पर्व (A break)

Cape Point, South Africaअद्य उपवेशनस्य चतुर्थे दिवसे अस्मिन् पञ्चदिवसीये उपवेशने मया पर्व पालितम्। अस्मिन् पर्वणि अहं केप-पोइंट केप-ओफ-गुडहोप इति स्थले गतवान्।

२०१४-०८-२८ गुरुवासरः (2014-08-28 Thursday)

चत्वारि प्रस्तुतिकरणानि (Four Presentations)

अद्य मम चतुर्णां शोधपत्राणां प्रस्तुतिकरणम् आसीत्। द्वे शोधपत्रे मम सहलेखकेन प्रस्तुते द्वे शोधपत्रे मया प्रस्तुते।

२०१४-०८-२७ बुधवासरः (2014-08-27 Wednesday)

डॉरमेशगोविन्दवर्येण सह अमिलम् (Met Dr Ramesh Govind)

डॉरमेशगोविन्दः केन्बरानगरे अस्माकं प्रतिवेशी आसीत्। सः इदानीं केपटाउनविश्वविद्यालये प्राध्यापकः अस्ति। उपवेशनस्य अद्यतनस्य नियतकार्यक्रमस्य परम् अहं तेन सह सायंकाले अमिलम्। तेन सह अहं वाटरफ्रण्ट इति स्थले भोजनाय अगच्छम्। सः अतिरोचकः संवादी अस्ति। सः शान्तः अस्ति किन्तु यदा सः संवादं करोति तदा तस्य संवादः रोचकः एव अस्ति।

२०१४-०८-२६ मङ्गलवासरः (2014-08-26 Tuesday)

उपवेशनम् आरब्धम् (Conference Started)

अद्य Ineternational Federation of Automatic Control (IFAC) 19th World Congress इति उपवेशनस्य केपटाउननगरे आरम्भः आसीत्। अद्य मम उपवेशने एकं शोधपत्रं प्रास्तवम् (presented)।

२०१४-०८-२५ सोमवासरः (2014-08-25 Monday)

केपटाऊननगरं प्राप्तम् (Reached Cape Town)

अद्य प्रातः एकादशवादने मया केपटाऊननगरं प्राप्तम्। विमानस्थालात् बहिः आगम्य सर्वयानेन नगरस्य सिविक इति केन्द्रम् आगच्छम् ततः पादाभ्यां भाटनिवासे प्राप्तम्। भाटनिवासे रमेशवर्यः अमिलत्। तस्य परिवारेण सह भोजनं कृत्वा वाटरफ्रण्ट इति स्थले भ्रमणाय अगच्छम्।

२०१४-०८-२४ रविवासरः (2014-08-24 Sunday)

वडोदरानगरात् अपागच्छम् (Departed from Vadodara)

अद्य अपराह्णे एकवादने वडोदरनागरात् वोल्वो इति यानेन मम अग्रजेन सह कर्णावतीनगराय अपागच्छम्। कर्णावतीनगरतः विमानेन मुम्बईनगरेन केपटाऊननगरप्रतिम् अगच्छम्।

२०१४-०८-२३ शनिवासरः (2014-08-23 Saturday)

किं करोमि? (What am I doing?)

ये अपि पण्डिताः इदं वार्त्तापत्रं पठन्ति ते कच्चिद् चिन्तयन्ति अयम् अज्ञः किं करोति इति। कथं सः व्याकरणस्य ज्ञानं प्राप्स्यति। अहं यथासम्भवप्रयासं करोमि। अष्टाध्यायी-माध्यमेन अपि शिक्षे किन्तु शनैः शनैः एव। मम शिक्षणे नैके जनाः साहाय्यं कुर्वन्ति तस्मात् अहं मम ध्येयं प्राप्स्यामि इति मम विश्वासः अस्ति।

२०१४-०८-२२ शुक्रवासरः (2014-08-22 Friday)