सरस्वति नौमि नित्यम् (Oh Sarasvati I always sing your praises)

अस्माकं संस्कृतवर्गे धातूनामर्थानामनुशीलनं कुर्मः। तस्मादत्र सन्ति त्रयो धातवो येषामर्थो मया प्रायो विस्मृतः।

नौमि जनकसुतावरम्। I sing the glories of the husband of the daughter of Janaka.
विद्याप्रदायिनि सरस्वति नौमि नित्यम्॥श्रीसरस्वतीस्तोत्रम् २.८॥
कमलोदरकोमलपादतलं तव नौमि सरस्वति पादयुगलम्॥श्रीसरस्वतीस्तोत्रम् ३.८॥

यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभीमुखाः द्रवन्ति॥गीता ११.२८॥

अघं धुन्वन्ति कार्त्स्न्येन नीहारमिव भास्करः। They shake off (destroy) sin completely like the cold is destroyed by the sun.
भक्ता न लिप्ताः पापेषु पुण्येषु सर्वकर्मिणः।
अहं धुनोमि तेषां च कर्मभोगान्सुनिश्चितम्॥कृष्णजन्मखण्डः ६.५१॥
My devotees do not get attached to sin and all their actions are for good. I surely shake off (even) the fruits of their (good) actions.

२०१९-१०-३१ गुरुवासरः (2019-10-31 Thursday)

आरोहनपघनः (चढता पुर्जा Climbing Part)

आरोहन् निर्मलः पुर्जा ह्यः २९अक्टूबर२०१९तिथौ शीशपङ्गमा इति शिखरे आरूढे शिखरारोहणस्य कीर्तिमानमस्थापयत्। विश्वेषु यानि चतुर्दश पर्वतशिखाराणि सन्ति तेषामुपरि एकोननवत्यधिकशतानां दिवसानामन्तरेणैव स आरोहत्।
पश्यतु च –
https://www.abc.net.au/news/2019-06-02/unpacking-the-tragedy-on-mount-everest/11162770
हरिनारायणभट्टमहाभागाः सूचयन्ति शतम् शब्दस्य सुबन्तरूपाणि नपुंसकलिङ्गे सर्वासु विभक्तिषु सर्वेषु वचनेषु भवन्ति। शतेषु जायते शूरः।
शतम् शते शतानि
शतम् शते शतानि
शतेन शताभ्याम् शतैः
शताय शताभ्याम् शतेभ्यः
शतात् शताभ्याम् शतेभ्यः
शतस्य शतयोः शतानाम्
शते शतयोः शतेषु
हे शत हे शते हे शतानि

२०१९-१०-३० बुधवासरः (2019-10-30 Wednesday)

काम एष क्रोध एषः (It is desire, it is anger)

अथ केन प्रयुक्तोऽयम् इति पृष्टे भगवान् उवाच –
काम एष क्रोध एष रजोगुणसमुद्भवः।
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम्॥गीता ३.३७॥
एतत्तदोः सुलोपोऽकोरनञ्समासे हलि॥६.१.१३२॥ इति सूत्रेण एषः क्रोधः इति एष क्रोधः इति भवति।
कामः पुल्ँलिङ्गः शब्दः अस्ति। कम् कमुँ कान्तौ घञि कामः। कमेर्णिङ्॥३.१.३०॥ इति सूत्रेण णिङ् प्रत्ययः यस्मात् कम् + णिङ् + घञ् + सुँ = कामः।
क्रोधः अपि घञ् इति प्रत्यये सम्भवति तस्मात् क्रोधः अपि पुल्ँलिङ्गः शब्दः अस्ति।

२०१९-१०-२९ मङ्गलवासरः (2019-10-29 Tuesday)

अर्वाचीनः महाकविभारविः (Modern (man) the great poet Bharavi)

इदानीं ये cool सन्ति ते न प्रत्यक्षरूपेण प्रतिभाषन्ते। अपि भवतः कुशलम् इति पृछन्तः ते प्रतिभाषन्ते (not bad) नैवमकुशलमिति। तथा भारविरप्यवन्ध्यः कोपः अकुप्यं धनम् इति।
वन्ध्यः अफलितः अवन्ध्यः फलितः कोपः। यः कोपः सः फलति। सम्यग् जानामि वन्ध्यः कोपः कः भवति। यदाहं कस्मायपि कुप्यामि तदा तस्मिनुपरि कोऽपि प्रभावो न दृश्यते। सोऽस्ति वन्ध्यः कोपोऽफलितः कोपः।
अवन्ध्यकोपस्य विहन्तुरापदां भवन्ति वश्याः देहिनः। किरातार्जुनीयं प्रथमे सर्गे त्रयस्त्रिंशत्तमे श्लोके।
People come under the influence of the one who destroys difficulties with fruitful anger.
योऽयच्छतकुप्यं वसु। किरातार्जुनीयं प्रथमे सर्गे पञ्चत्रिंशत्तमे श्लोके।
He who gave the wealth of gold and silver (not of base metals).

२०१९-१०-२८ सोमवासरः (2019-10-28 Monday)

श्लोकावलोकनम् (Critique of Verse)

प्राचीनसंस्कृतकविषु महाकविः भवभूतिः करुणारसचक्रवर्तीति गण्यते कारुण्ये कालिदासादप्यतिरिच्यत इति  वदन्ति उत्तररामचरिताख्ये नाटके भवभूतेर्कवित्वस्य चरमोत्कर्षो दृश्यते इत्यपि प्रसिद्धः इदं नाटकमधिकृत्य एकं कुतूहलपूर्वंकं वृत्तान्तमपि विशेषतः त्रैलिङ्गभाषीयेषु (Telugu speakers) प्रचलितमस्ति।

महानाटके उत्तररामचरिते परिसमाप्ते काले, भवभूतिना कोऽपि जनः कालिदासं नाटकं श्रावयितुं तत्सकाशं प्रेषितः कालिदासोऽपि सम्पूर्णं नाटकपाठं चतुरङ्गक्रीडाव्यापारे श्रुतवान्   अपि महाकविना किमपि उक्तमिति प्रत्यागतं सेवकं भवभूतिः अपृच्छत् , किञ्चिदेवेति प्रत्यवदत् वयस्य, अशेषे काले किमपि कविराजेनोक्तमिति पुनरवदत् नाट्यकारः।     सेवकेनोक्तं ननु एकदा चेटी तस्मै ताम्बूलमुष्णकं चूर्णं (भाषायां सुन्नम्) आनीतवती ताम्बूलं किञ्चिद् चर्वाणं कृत्वा कविराजेनोक्तं ईषदधिकं चूर्णं (सुन्नम्) अस्तीति। त्रैलिङ्गभाषायां अनुस्वारमपि सुन्नमित्युच्यते अतः भवभूतिना तत्क्षणमेवावगतः पाठे कुत्रचिदेको अनुस्वाऱः अतिरिच्यत इति महाकविना इङ्गितमिति

अरण्ये सीतारामयोः वृत्तान्तं वर्णयन्तं प्रस्तुतस्य श्लोकस्य द्वौ पाठभेदौ स्तौ पाठौ एकाक्षरादेव अथवा चरमपादस्थानुस्वारादेव   भिन्नौ।

      किमपि किमपि मन्दं मन्दमासक्तियोगात्

अविरलितकपोलं जल्पतोरक्रमेण |

अशिथिलपरिरम्भव्यापृतैकैकदोष्णो:

अविदितगतयामा रात्रिरेव व्यरंसीत् ||

अर्थात् रामचन्‍द्रजी सीता से कहते हैंप्रिये, यह वही प्रसावण पर्वत है, जहाँ वनवास के समय, “हम लोग रहते थे और जहाँ हम दोनों एक दूसरे का गाढालिंगन किये हुए तथा एक दूसरे के गाल से गाल सटाए हुए रात की रात बिता देते थे ”। तात्पर्य यह है कि रात बीत जाती थी, पर बात बीतती थी।

रात्रिरेवं व्यरंसीत् इति पाठात्  (अथवा इस प्रकार रात बीतती थी) अननुस्वारपाठ एव उत्कृष्टः इति स्पष्टमेव

 

 

२०१९-१०-२७ रविवासरः (2019-10-27 Sunday)

दीपोत्सवेन दिष्ट्या वर्धते भवान् (Happy Deepavali)

दीपोत्सवः गृहेषु गृहेषु वहतु श्रीलक्ष्मीः।
तया दीपावल्या श्रिया वर्धन्ते भवन्तः दिष्ट्या॥

२०१९-१०-२७ रविवासरः (2019-10-27 Sunday)

न विश्रामः खलानाम् (There is no rest for the wicked)

आङ्ग्लभषायामेका सूक्तिरस्ति There is no rest for the wicked इति। सा सूक्तिर्मामेव लक्षीकरोति। अशेषे सप्ताहे कार्यं कृतं विश्रामाय सप्ताहन्तो दीपोत्सवश्चागच्छत् किन्त्वद्यापि मया कार्यम्। प्रातः सार्धत्रिवादन उत्थाय सिडनीनगरं गन्तव्यम्। तत्र प्रबोधामहाभागा द्विदिवसात्मकायां कार्यशालायां विद्युद्सञ्चारस्य गुणदोषान् कथं मायन्त इति विषये प्रशिक्षणं दास्यति। रविवासरे रात्रौ केन्बरानगरं पुनः प्राप्स्यामि। न विश्रामः न दीपोत्सवः खलानाम्।

२०१९-१०-२६ शनिवासरः (2019-10-26 Saturday)

सर्वपापप्रणाशनम् (Destroyer of all sins)

मुहूर्तमेकमेकस्याप्यर्धमर्धस्याप्यर्धं च।
तुलसी सङ्गः साधूनां सर्वपापप्रणाशनम्॥
एक घडी आधी घडी आधी से पुनि आध।
तुलसी सङ्गत साधु की मिटे कोटि अपराध॥

२०१९-१०-२५ शुक्रवासरः (2019-10-25 Friday)

वेदान्तः (Vedanta)

The story of a man’s life may be summed up briefly in these words. He sleeps, dreams, wakes. His whole life is a repetition of these states. This fact is so simple and obvious that it may not be considered worthy of any significance; yet Vedanta builds upon it its system of Truth and Reality. If Truth is to be attained and Reality comprehended it can be only by a study of Life unfolding in these aspects. They are the three, great gateways of knowledge, says Shankara (in his introduction to Mandukya-7). There is none other. Vedanta or The Science of Reality, K. A. Krishnaswamy Iyer, Adhyathma Prakasha Karyalaya Holenarasipura 573211 India, (first print 1930), 2018, p. 210.

साधूनां सङ्गः कर्तव्यः। यदा अहं बेङ्गलुरुनगरे प्राध्यापकेन बालादित्यसूरीमहाभागेन सह अमिलं सः मां वेदान्तपुस्तकापणम् अनयत्। तत्र मयेदं पुस्तकं प्राप्तम्। यथा कृष्णस्वामिमहाभागोऽस्मिन् पुस्तके व्याख्याति तस्मात् मन्य उपरि दत्तः प्रस्तरः वेदान्तस्य प्राणोऽस्ति। एतेषु वाक्येषु गूढमवधानं दातव्यम्।

२०१९-१०-२४ गुरुवासरः (2019-10-24 Thursday)

ज्ञेयम् (Should know)

कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम्।
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन॥गीता १.३९॥
अन्वयः – कुलक्षयकृतम् दोषम् प्रपश्यद्भिः अस्माभिः पापात् अस्मात् निवर्तितुम् कथम् न ज्ञेयम्।
Why we who can see the fault in destroying the family not know how to turn away from this sin?

भट्टमहाभागाः लिखन्ति –
यद्यप्येते न पश्यन्ति लोभो पहतचेतसः ।
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥३८॥
कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् ।
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥३९॥
The above two verses have to be read together.
जनार्दन! यद्यप्येते लोभो पहतचेतसः कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् न पश्यन्ति, कुलक्षयकृतं दोषं प्रपश्यद्भिः अस्माभिः पापादस्मान्निवर्तितुम् कथं न ज्ञेयम् ? ॥ ३८-३९।।
यद्यपि लोभसे भ्रष्टचित्त हुए ये लोग कुलके नाशसे उत्पन्न होनेवाले दोषोंको और मित्रोंसे विरोध करनेमें पाप नहीं देख पाते, फिर भी हे जनार्दन ! कुलनाशसे उत्पन्न दोषोंको जाननेवाले हमलोगोंने, इस पापसे हटनेके लिये क्यों नहीं सोचना चाहिये ? ३८-३९।।

२०१९-१०-२३ बुधवासरः (2019-10-23 Wednesday)