पिहित (closed, concealed, covered)

पिहितशब्दं ‘closed’ अथवा ‘terminated’ इत्यर्थे दूरदर्शने प्रसारिते अद्यतनायां संस्कृतवार्त्तायां उपयुक्तम् । ‘भारतीयरिसर्वबैङ्केन व्यावसायिकऋणार्थमुद्घोषणपत्रस्य प्रणाली पिहिता – Reserve Bank of India has terminated the system of LoU for trade credits.

पश्यतु –

पिहितशब्दः अपिहित इत्यपि दृश्यते । अपिहित इत्यस्य रूपस्य सिद्धिः एवमस्ति।
अपि (उपसर्ग) + धा (धातु) + क्त प्रत्यय —>
अपि हि क्त (दधातेर्हिः ७।४।४२)। दधातेरङ्गस्य ‘हि’ इत्ययमादेशो भवति तकारादौ किति प्रत्यये परतः ।
अपिहितः इति रूपम् ।

एवं सति कथं अल्लोपसहितपिहित इति रूपं सिद्ध्यति? अत्र वयं अव्ययादाप्सुपः (२।४।८२) इत्येतं स्मरामः। यद्यपि अस्य सूत्रस्य प्रवृत्तिः ‘तत्र शालायाम्’, ‘तत्र शालायाम्’, ‘कृत्वा’, ‘हृत्वा’ इत्यादीनां सिद्ध्यर्थं भवति तथापि पारम्परिकेषु वृत्तीषु तत्प्रदेशे पठिते कारिकाश्लोके अल्लोपप्रमाणं दृश्यते ।

वष्टि भागुरिरल्लोपम् अवाप्योरुपसर्गयोः ।
आपं चैव हलन्तानां यथा वाचा निशा दिशा ।।

अत्रस्थानि उदाहरणानि वगाहः, अवगाहः, पिधानम्, अपिधानम् ।

पिधानम्, अपिधानम् – अपिपूर्वकस्य धाधातोः (डुधाञ् धारणपोषणयोः) ल्युटि युवोरनाकौ (७।१।१) इत्यनेन अनादेशविभक्तिकार्यानन्तरं ‘अपिधान’ मिति प्रयोगः सिद्धः ।

तथैव पिहित-अपिहित, वगाह-अवगाह, वतंस-अवतंस इत्यादयः ।

केचित् पिधानशब्दसिद्ध्यर्थं अर्धर्चादिगणपाठं दर्शयन्ति । पश्यतु अर्धर्चाः पुंसि च (२।४।३१)। पठिते गणे केवलं पिधानशब्दः दृश्यते न तु वगाहवतंसेत्यादयः । एतेषां सिद्ध्यर्थं पुरातनवैयाकरणं भागुरिवर्यमनुसृत्य अस्माभिः अल्लोपः करणीयः ।

भाषायामपि ‘भिज्ञ – अभिज्ञ’ इति अल्लोपः दृश्यते इति नारायणप्रसादवर्येणापि उक्तम्।

(वर्तते)

२०१८-०३-१४ बुधवासरः (2018-03-14 Wednesday)

प्रस्थानम् (Departure)

अद्य अहं सायं चतुर्वादने वोडोदरानगरतः केन्बरानगरं प्रति प्रातिष्ठम्। प्रथमे चरणे मुम्बईनगरं प्राप्तम्। तत्र मम मित्रेण विनयेन सह तस्य भार्यया सह च अमिलम्। तौ विमानपत्तनम् आगम्य माम् अनयताम्। वयं विमानपत्तनात् नातीदूरम् अल्पाहरगृहम् अगच्छाम। तत्र होराद्वयं पर्यन्तम् अजल्पन्। विनयस्य भार्या अस्मभ्यम् उपस्कराः अन्यानि वस्तूनि च अनयत्। तानि वस्तूनि मया तेभ्यः वस्तुभ्यः आनितानि स्यूते स्थापितानि। रात्रौ सार्धाष्ट्वादने तौ मां पुनः विमानपत्तनम् अनयताम्।

२०१८-०३-१४ बुधवासरः (2018-03-14 Wednesday)

समयं विनैव (unconditional)

समयः शब्दस्य agreement इति अर्थः अपि भवति। सः तु उपयोगी शब्दः अस्ति।
दूरदर्शने प्रसारिते अद्यतनायां संस्कृतवार्तायाम् अस्ति – नरेशः अग्रवालः भाजपादलं समयं विनैव आगच्छत् (https://youtu.be/sfsurfiTRbA)- इति।

२०१८-०३-१३ मङ्गलवासरः (2018-03-13 Tuesday)

सौरोर्जा (Solar Energy)

अद्यत्वे सौरोर्जा इति महान्तं चर्चाविषयम् अस्ति। भारते गतद्विदिवसेभ्यः अस्मिन् विषये महत् सम्मेलनम् आयोजितम् अस्ति। यस्मिन् सम्मेलने अनैकेषां राष्ट्राणां प्रधानमन्त्रिणः राष्ट्रपतयः च भागं गृह्णन्ति।

जयपुरे, जवाहरलालनेहरू-सौरोर्जा-कार्यक्रमस्य प्रथमचरणं राष्ट्राय समर्प्य भाषमाणः डा. सिंहः ऊर्जासुरक्षां सुनिश्चेतुं सौरोर्जाया संवर्धनावश्यकता सविशेषं व्याहरत्। http://sudharma.epapertoday.com/files/2013/09/sudharma-24b-september-13.pdf इति जालपत्रतः।

सूर्यात् प्राप्ता सौरोर्जा सौर-विद्युत्कोशेषु (सौर-सेल इत्यत्र) विद्युदुत्पादनाय प्रयोक्तुं शक्यते। https://www.samskrittutorial.in/ 

२०१८-०३-१२ सोमवासरः (2018-03-12 Monday)

सुहृदः बन्धुभिः समानमानान् (Friends as if they commanded respect due to relatives)

सुहृदः बन्धुभिः समानमानान् इति अपि अत्र बन्धुभिः इत्यस्मिन् तृतीयाविभक्तिः तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम्॥२।३।७२॥ इत्यनेन सूत्रेण भवति।
रामनाथशर्मा वर्यः स्वपुस्तके लिखति –
Note that Panini did not have to use the word artha with tulya to indicate items having the sense of tulya, since he uses tulyaartha in the plural. If he meant just the form, he should have used the singular, as is his normal practice. Since he uses the plural, there must be some special purpose. What could that be? The purpose is to accept only those synonyms of tulya which could qualify as synonumous without any cooccurrence condition. Because of this coorrurrnce exclusion, forms such as iva will not be treated as valid.
रामनाथशर्मणः महोदयस्य किं तात्पर्यम् अस्ति अहं न बोधामि। कृपया बोधयतु।

२०१८-०३-११ रविवासरः (2018-03-11 Sunday)

भासते (It appears)

भासृँ दीप्तौ इति अकर्मकः सेट् आत्मनेपदी भ्वादिगणीयः धातुः अस्ति।
मां भासते श्रीदेवी स्वाभाविकतया न अम्रियत।
आभासः सदृशः प्रतिबिम्बं दीप्तिः अभिप्रायः splendour, light, colour, appearance, phantomintention, purpose।
अद्य पूर्णिमा अस्ति चन्द्रस्य आभासः रमणीयः भविष्यति।

२०१८-०३-०१ गुरुवासरः (2018-03-01 Thursday)