देहरादूनद्रुतगामिनी (Deharadoon Express)

देहरादून-मुम्ब‍ईनगरयोः मध्ये चलति देहरादूनद्रुतगामिनी केवलं नामार्थे एव द्रुतगामिनी अस्ति। वास्तवे तु ता मन्दस्यापि मन्दा गामिनी अस्ति। गत व्याकरणपाठे आचार्यः अस्मान् शताब्दीद्रुतगमिन्याम् अनयत् किन्तु अद्य सः देहरादूनद्रुतगामिन्याम् अनयत्। अद्य अहं भृशम् आनन्दं प्राप्तवान्। आचार्याय धन्यवादः।

२००८-०५-३१ शनिवासरः (2008-05-31 Saturday)

क्रोधात् परम् (Beyond Anger)

अद्य आस्माकं मन्दिरे चार्ली नाम ब्रह्मकुमारीसंस्थायां प्रचारकः क्रोधात् परम् इति विषये प्रवचनं अददात्। सामान्यतः मम भार्या मां मन्दिरे गमनस्य न अनुजानाति किन्तु यदा मया कथितं कस्मिन् विषये प्रवचनम् अस्ति सा मां तस्मिनेव क्षणे अन्वजानत् (permitted)। मया सा पृष्टं अपि भवति अपि आगमिष्यति इति तया उक्तं मम क्रोधः किञ्चित् अपि नास्ति तथा मम गमनस्य किं प्रयोजनम् इति।

२००८-०५-३० शुक्रवासरः (2008-05-30 Friday)

प्रतिक्षणम् (At every moment, continually)

प्रतिक्षणम् इति अव्ययः शब्दः अस्ति।
रामः प्रतिक्षणम् भगवतः स्मरणं करोति। आवयोः पुत्रः कन्ये च प्रतिक्षणम् जीवनात् कथम् सम्पूर्णम् आनन्दं प्राप्नुयाम् इति चिन्ताम् एव अकुरुत।

२००८-०५-२८ बुधवासरः (2008-05-28 Wednesday)

हिन्दीभाषायां वार्तालापं करोति (Speaks in Hindi)

अद्य अहम् आवयोः कन्यां पुत्रं च तयोः विश्वविद्यालयात् आनयामि स्म तदा मया तौ पृष्टम् अपि युवां हिन्दीभाषायां वर्तालापं कर्तुं शक्नुथः इति। तौ अवदतम् – आवां विश्विद्यालये सदैव आवयोः मित्रै सह हिन्दीभाषायम् एव वार्तालापं कुर्वः इति। कन्या अवदत् – अद्य मम सखा एकाम् अन्याम् कन्याम् पश्यन् अवदत् – अगर यह यहाँ खडी रहेगी तो इसका सिर फोड दूँगी। तत्परं सा कन्या प्रत्यवदत् – मैं हिन्दी समझती हूँ। सा कन्या अफगानदेशात् अस्ति किन्तु हिन्दीभाषां सम्यग् जानाति।

२००८-०५-२७ मङ्गलवासरः (2008-05-27 Tuesday)

ब्राह्मे मुहूर्ते (The Divine Time)

ब्राह्मे मुहूर्ते चोत्थाय चिन्तयेदात्मनो हितम्।
हरिर्हरिर्हरिरिति व्याहरेत् वैष्णवः पुमान्।
इमां शिक्षाम् अस्माकम् आचार्यः अस्मान् ददाति। अपि सः अस्याः शिक्षायाः पालनं करोति? कदाचित् प्रतिदिवसे न करोति किन्तु रविवासरे सः ब्रह्ममुहूर्ते अजागः इति अहं सम्यग् जानामि। अहमपि तम् अनुकरिष्यामि।
जागृ धातोः लङ्-लकार-रूपाणि सन्ति –
अजागः अजागृताम् अजागरुः, अजागः अजागृतम् अजागृत, अजागरम् अजागृव अजागृम।

२००८-०५-२६ सोमवासरः (2008-05-26 Monday)

निभृतम् (secretly, privately, silently, quietly)

बालकानां निभृतं दर्शनस्य आनन्दः अन्यतरः अस्ति। किन्तु प्रौढाः अधीराः भवन्ति ते बालकानां सदैव नियन्त्रणं कर्तुम् इच्छन्ति।
निभृतम् इति शब्दः निपातः अव्ययः च अस्ति। तस्य शब्दस्य किमपि अन्यं रूपं न भवति।

२००८-०५-२५ रविवासरः (2008-05-25 Sunday)

पाठः नास्ति (No Lesson)

अद्य प्रातःकाले अस्माकम् आचार्यः अस्मान् संदेशं अप्रेषयत् अद्य लघुसिद्धन्तकौमुद्याः पाठः न भविष्यति इति। अहं मन्ये अद्य सः विलम्बेन जागरिष्यति। अधुना आचर्यस्य नगरे प्रातः नववादनं तथापि सः जालपत्रे अविद्यमानः अस्ति। कति वादनं पर्यन्तं सः स्वप्स्यति इति अहं न जाने। तं निंद्रा सुखकरा भवेत्।

२००८-०५-२४ शनिवासरः (2008-05-24 Saturday)

ज्वलिता उपरि आरोहति (Jwalita climbs up)

आवयोः कन्या ज्वलिता प्रतिशुक्रवासरे तरितुं गच्छति। तत्र तैः एकस्मिन् शिक्षणक्रमानुसारे शिक्ष्यते। अद्य ज्वलितायाः प्रशिक्षकः माम् अवदत् – ज्वलितया प्रशिक्षणक्रमे उपरि आरोहितुं शक्यते तस्याः तरणं सम्यग् अस्ति। तत् श्रुत्वा ज्वलिता प्रसन्ना तु अभवत् किन्तु सा कठिनतमं तरणप्रशिक्षणे गन्तुं न इच्छति। किं करणीयम्।

२००८-०५-२३ शुक्रवासरः (2008-05-23 Friday)

अनचि च।८।४।४६॥ (also not vowels 8.4.46..)

अनचि च इति पाणिनिकृति अष्टाध्याय्याम् इदं सूत्रमस्ति। तत् सूत्रम् अनुवृत्या सह भवति – अचः यरः द्वे वा अनचि च। (If a nonvowel follows a vowel then that nonvowel is duplicated.)
अनचि इति हल् अपि कथितुं शक्यते। अच् इति सर्वे स्वराः हल् इति सर्वे व्यञ्जनाः। कथं मुनिपाणिना अनचि इति लिखितं कथं हलि इति न लिखितं तस्य व्याख्या पठित्वा तस्य सूक्ष्मता दृष्ट्वा तस्य नियतत्वं ध्यात्वा यादृशः आनन्दः भवति तस्य वर्णनं न सुतरम्।

२००८-०५-२२ गुरुवासरः (2008-05-22 Thursday)

युवा (कन्) (Young)

युवाल्पयोः कनन्यतरस्याम्। (In place of yuvaa and alpa, kan is optionally substitued.)
अहम् अस्माकं भ्राताषु कनिष्ठः। (youngest)
सीता सर्वासु भगिनीषु कनिष्ठा। (youngest)
ज्वलिता शुचितायाः कनियसी भगिनी। (younger)
लक्ष्मणः रामचन्द्रात् कनीयान्। (younger)

२००८-०५-२१ बुधवासरः (2008-05-21 Wednesday)