यावान् तावान् (As much, that much)

यावन्तः जनाः नगरे सन्ति तावन्तः सर्वे अत्र समागताः इति मे प्रतिभाति।
यावत् परिमितम् अन्नम् अस्ति तावत् अत्र आनयतु।
अद्य यावान् शीतः अस्ति तावान् मया पूर्वं न दृष्टः।
सः यावतीं प्रीतिं स्वमातरि धरति तावतीं कोऽपि न धरति।

कृपया पश्यतु – https://www.facebook.com/permalink.php?story_fbid=1488581417823871&id=298160286865996&comment_tracking=%7B%22tn%22%3A%22O%22%7D

२०१७-०५-२९ सोमवासरः (2017-05-29 Monday)

कितवः (A cunning man)

कस्यैष आत्मनीनो हताशः कितवः। (To whom can this cunning wretch attach himself?)
इदं वाक्यं अरविन्दकेजरीवालं लक्षीकरोति इति मे प्रतिभाति। वस्तुतः इदं वाक्यं कालिदासविरचिते मालविकाग्निमित्रे नाटके अस्ति किन्तु केजरीवालस्य वर्णनं करोति।

२०१७-०५-२८ रविवासरः (2017-05-28 Sunday)

हीनवादी (Defeated (in a lawsuit))

यो हीनवादी सः ते भक्ष्य इति। पञ्चतन्त्रम्
भक्ष + ण्यत् + सुँ = भक्ष्यः (eatable or fit for food)

२०१७-०५-२७ शनिवासरः (2017-05-27 Saturday)

पूर्णाहुतिः (Final Offering)

शनिवासरे २५मार्च२०१७तिथौ वयं केन्बराहिन्दुमन्दिरसमवायस्य स्थापनायाः त्रिंशत्संवत्सराय अनेकानि पूजाकर्माणि करिष्यामः इति अनुष्ठानम् अकुर्म। तस्मिन् दिवसे यत् अनुष्ठानं वयं अकुर्म तत् अद्य भागवत्सप्ताहस्य समापने पूर्णं कृतम्। श्वः वयं त्रिंशत्संवत्सरस्य कार्यक्रमाय पूर्णाहुतिं दास्यामः। पूर्णाहुत्यां नामजापः हवनः महभोजः च भविष्यन्ति। कार्यक्रमः सार्धदशवादने आरप्स्यति प्रायः द्वादशवादने पूर्णतां गमिष्यति च। भवन्तः सर्वे आगच्छन्तु।

२०१७-०५-१३ शनिवासरः (2017-05-13 Saturday)

ऐतिहासिकः दिवसः (A Historical Day)

शुक्रवासरः १२मई२०१७तिथिः अस्मभ्यं केन्बराहिन्दुमन्दिराय च एकः ऐतिहासिकः दिवसः आसीत्। अस्मिन् दिवसे सप्ताधिकशतवर्षदेशीयेन श्रीशङ्करत्रिवेदिमहाभागेन अस्माकं शान्तिः इति पत्रिकायाः त्रिशत्वर्षस्मृतिङ्कस्य विमोचनं कृतम्। श्रीशङ्करमाहाभागः केन्बराहिन्दुमन्दिरे शनिवासर६मईतिथेः शनिवासर१३मईतिथिं पर्यन्तं भागवतकथाकुर्वाणस्य श्रीजगदीशत्रिवेदिमाहाभागस्य पिता अस्ति।विमोचनात् परं श्रीशङ्करमहाभागः श्लोकान् उच्चारयत् लघुव्याख्यानम् अपि अददात्। श्रीशङ्करमहाभागस्य दर्शनं कृत्वा वयं सर्वे अतीवानन्दम् अनुभवामः।

Launch of the 30th Anniversary commemorative Shanti Souvenir Fri 12 May 2017 at the HTCC

२०१७-०५-१२ शुक्रवासरः (2017-05-12 Friday)