अभिरूपः (Enlightened person)

आर्ये अभिरूपभूयिष्ठा परिषदियम्। O Arya, this assembly is mostly (made up) of learned persons. अभिज्ञानशाकुन्तले प्रथमेऽङ्के।
अभिरूपः अभिरूपयति शास्त्रार्थं निरूपयति, मनोहरः पण्डितः इति मेदिनी। अभिरूपः अभिलक्ष्यं रूपमस्य पण्डितः इति हेमचन्द्रः कामदेवः चन्द्रः शिवः विष्णुः इति शब्दरत्नावली।

२०२१-०८-३१ मङ्गलवासरः (2021-08-31 Tuesday)

शुभकार्यम् (Auspicious Work)

मया चिन्तितम् अद्य श्रीकृष्णस्य जन्मदिवसोऽस्ति किञ्चिद् शुभं करणीयम्। यावत् चिन्तयामि तावत् ज्ञातं आवयोः कन्याद्य नूतनं कार्यम् आरभते। इयमस्ति तस्याः पदोन्नतिः। अतीवशुभकार्यम्।

सर्वेभ्यः मित्रेभ्यः श्रीकृष्णस्य जन्मोत्सवस्य शुभकामनाः निवेदयामि।

२०२१-०८-३० सोमवासरः (2021-08-30 Monday)

लोकप्रियः मन-की-बात इति कार्यक्रमः (The Popular Man-ki-Baat)

मया न ज्ञातं मन-की-बात इति कार्यक्रमः ओस्ट्रेलियादेशेऽपि लोकप्रियोऽस्ति। श्रीनरेन्द्रमोदी अद्य अस्मिन् कार्यक्रमे सिडनी-संस्कृत-पाठशाला इत्यस्य उल्लेखमकरोत्।।। नैके जनाः कार्यक्रमं श्रुत्वा मामिमं सन्देशमप्रेषयन्। हर्षितोऽस्मि जनाः मोदिनं शृण्वन्ति तस्मात् सिडनी-संस्कृत-पाठशालां विषये अखिले विश्वे सर्वे जानन्ति च।

२०२१-०८-२९ रविवासरः (2021-08-29 Sunday)

समीकरणम् (The same)

गतवर्षे मया एकस्य व्यवर्धकस्य (of an amplifier) परिपथस्य (circuit) विश्लेषणमारब्धम्। विश्लेषणं द्विप्रकारकं प्रायः क्रियते। किन्तु द्वयोः विश्लेषणयोः मध्ये अहं समीकरणं न कर्तुमशक्नवम्। मया भृशं प्रयासाः कृताः किन्तु सफलता नागता। ह्यः कालप्रतिक्रियाप्रतिरूपं अवाप्तुं कार्यं कुर्वता मया ज्ञातं क्रमान्तरम् (time-step) मया सम्यग् न निर्दिष्टम्। अस्मात् आवर्तनविश्लेषणस्य (frequency response analysis) कालविश्लेषणस्य (time response) च समीकरणं नाभवत्। अद्य भिन्नं कालान्तरं निर्दिश्य समीकरणं लब्धम्। प्रसन्नोऽस्मि।

An Operational Amplifier Circuit

२०२१-०८-२८ शनिवासरः (2021-08-28 Saturday)

हास्यकलाकारः जोबाईडनः (Comedian President Joe Biden)

अमेरीकावासिभ्यः हास्यमिष्टतमम् इति मन्ये। ते सदैव हास्यकलाकारान् राष्ट्रपतिपदव्यां स्थापयन्ति। ते खलु हास्यप्रियाः।

२०२१-०८-२७ शुक्रवासरः (2021-08-27 Friday)

कर्तुः क्रियया आप्तुमिष्टतमम् (The agent most wishes to reach through his actions)

कर्तुरीप्सिततमं कर्म (१.४.४९) इति सूत्रकारः। भाष्यकारः संकलयति कर्तुः क्रियया आप्तुमिष्टतमं कारकं कर्मसंज्ञं स्यात्। पयसा ओदनं खादति।

२०२१-०८-२६ गुरुवासरः (2021-08-26 Thursday)

अथ सुन्दरकाण्डः (Now Begins the Sundarkand)

रामोदन्तम् इति काव्यं वयं अस्माकं संस्कृतवर्गे पठामः। वर्गेऽद्य रामोदन्तस्य सुन्दरकाण्डः आरब्धः।

२०२१-०८-२५ बुधवासरः (2021-08-25 Wednesday)

मातुलुङ्गा (Sweet lime)

मातुलङ्गः मा न तुलां गच्छति इति (does not go by the weight)। बीजपूरो मातुलङ्गः सुफलः फलपूरकः लङ्गुषः पूरकः पूरो बीजपूर्णोऽम्बुकेशरः। तथास्य गुणाः स्यान्मातुलुङ्गः।

२०२१-०८-२४ मङ्गलवासरः (2021-08-24 Tuesday)

निद्राणः (Sleeping)

संयोगादेः यण्वत् इति (य व र ल इति यण् इति प्रत्याहारः) इति धातोः निष्ठतकारस्य नः भवति।
संयोगादेरातो धातोर्यण्वतः (८.२.४३)

२०२१-०८-२३ सोमवासरः (2021-08-23 Monday)

वसन्तः (Spring)

विश्वेऽस्ति तु महाकोपः प्रकृत्या मानवानां च।
नर्तुचक्रं विरमति वसन्तोऽहो प्रतियातः॥

Spring in Canberra

२०२१-०८-२२ रविवासरः (2021-08-22 Sunday)