Updates from February, 2016 Toggle Comment Threads | Keyboard Shortcuts

  • Himanshu Pota 9:23 am on February 27, 2016 Permalink | Reply  

    https://www.change.org/p/mr-n-r-narayana-murthy-and-mr-rohan-narayan-murty-removal-of-prof-sheldon-pollock-as-mentor-and-chief-editor-of-murty-classical-library

    मया तु इमं यचिका हस्ताक्षरीकृता भवान् अपि करोतु इति मम निवेदनम्।

    Advertisements
     
  • Himanshu Pota 3:34 pm on February 25, 2016 Permalink | Reply  

    क्रममाणः (The one moving) 

    क्रमुँ पादविक्षेपे इति भ्वादिगणीयः सकर्मकः सेट् परस्मैपदी धातुः अस्ति।
    क्रमः परस्मैपदेषु॥७.३.७६॥ इति सूत्रेण शिति परस्मैपदेषु क्रामति इत्यादीनि रूपाणि भवन्ति।
    किन्तु क्रम् + चानश् इति क्रममाणः भवति। मन्ये तस्य कारणम् अस्ति चानश् इति प्रत्ययः परस्मैपदी नास्ति।
    चानश् प्रत्ययः अत्युपयोगी प्रत्ययः अस्ति। तस्य अध्ययनं कर्तव्यम्।

    २०१६-०२-२५ गुरुवासरः (2016-02-25 Thursday)

     
    • hnbhat 6:25 pm on February 28, 2016 Permalink | Reply

      “किन्तु क्रम् + चानश् इति क्रममाणः भवति। मन्ये तस्य कारणम् अस्ति चानश् इति प्रत्ययः परस्मैपदी नास्ति।
      चानश् प्रत्ययः अत्युपयोगी प्रत्ययः अस्ति। तस्य अध्ययनं कर्तव्यम्।”

      तस्य कारणं ताच्छील्यवयोवचनशक्तिषु चानश् १।३।४३ चानश् प्रत्ययः परस्मैपदी नास्तीति न, अनुपसर्गाद्वा १-३-४३ इति क्रम्-धातुः परस्मैपदी वा आत्मनेपदी च भवति, इति। अतः केवलाद् क्रमते, क्रामति 330) वा भ्राश-भ्लाश-भ्रमु-क्रमु-क्लमु-त्रसि-त्रुटि-लषः 3-1- 70 क्राम्यति च भवन्ति।

      • Himanshu Pota 8:24 pm on February 28, 2016 Permalink | Reply

        ताच्छील्यवयोवचनशक्तिषु चानश् ॥३.२.१२९॥ चानश् इति शित् अस्ति किन्तु न परस्मैपदी।

        • hnbhat 1:19 am on March 1, 2016 Permalink

          चानशो लादेशत्वाऽभावादनामत्मनेपदत्वात् परस्मैपदिभ्योऽपि प्रवृत्तिः।

    • hnbhat 1:17 am on March 1, 2016 Permalink | Reply

      क्रममाणः इति शानच् प्रत्ययेनापि भवति।

  • Himanshu Pota 11:06 am on February 24, 2016 Permalink | Reply  

    Kunal Krishna Mukherjee wrote:

    We finally stood up given then politics played out in scientific institutes.

    http://www.firstpost.com/india/full-text-save-educational-institutions-from-scholarship-of-abuse-iit-madras-professors-to-president-pranab-2639432.html

    If you feel the cause is worth please forward to all you know as IITM and Indian Medical Association are the only two who stood up as academics and politics
    don’t go together – science is a defense of the nation, we work for all and are beyond flags of all kinds expect the national flag.

    We won’t find much coverage as truth faces resistance to propagate, but we are confident that with your support we can reach corners.

     
  • Himanshu Pota 11:04 am on February 24, 2016 Permalink | Reply  

    श्रिञ् सेवायाम् (To serve) 

    श्रिञ् सेवायाम् इति भ्बादिगणीयः सकर्मकः सेट् उभयपदी धातुः अस्ति।
    सः पितरं श्रयति।
    सः व्यसनं अपाश्रयति। अपाश्रि – छोडना इति बृहद्धातुकुसुमाकरः किन्तु अन्येषु शब्दकोशेषु अस्ति विपरीतार्थम् to use, practise इति।
    सः शास्त्रेषु आश्रयति। आश्रि – आश्रय करना, to take refuge।
    सः रामे व्यपाश्रयति। व्यपाश्रि – विश्वास करना, भरोसा करना, साष्टाङ्ग नमस्कार करना, जमीन पर गिरना, to trust।
    अपि सन्ति कानि अपि सूत्राणि यस्मात् श्रि-धातुना सह का विभक्तिः उपयोक्तव्यम् इति ज्ञायते।

    २०१६-०२-२४ बुधवासरः (2016-02-24 Wednesday)

     
  • Himanshu Pota 5:36 pm on February 23, 2016 Permalink | Reply  

    निवहः (A group) 

    सुकुलं कुशलं सुजनं विहाय कुलकुशलशीलविकलेऽपि।
    आढ्ये कल्पतराविव नित्यं रज्यन्ति जननिवहाः॥पञ्चतन्त्रम्॥
    जननिवहाः जनानां निवहाः सङ्घाः। (पण्डितराजेश्वरशास्त्रिकृतया किरणावली व्याख्या।)
    आढ्ये कल्पतरौ इव।
    सदाचारी मनुष्य, कुलीनता, कुशलता तथा सदाचारयुक्त सज्जनता आदि गुणों से युक्त पुरुष को छोडकर, कुलीनता, दक्षता, एवं सद्गुणों से रहित धनवान् पुरुषमें कल्पवृक्ष की तरह अनुराग करते हैं उसे प्रसन्न करते हैं।

    २०१६-०२-२३ मङ्गलवासरः (2016-02-23 Tuesday)

     
  • Himanshu Pota 12:38 pm on February 23, 2016 Permalink | Reply  

    http://www.youtube.com/attribution_link?a=lJo6VgcPG5o&u=/watch%3Fv%3DFBhyaJ17T3A%26feature%3Dem-uploademail

     
  • Himanshu Pota 9:50 pm on February 22, 2016 Permalink | Reply  

    व्यज्यते (Makes it known) 

    अग्निना रयिमश्नवत् पोषमेव दिवेदिवे।
    यशसं वीरवत्तमम्॥ऋगवेदः १.१.३॥
    अस्य मन्त्रस्य अनुवादः टिप्पणी च अस्ति श्रीअरविन्दाश्रमेण प्रकाशिते अग्निमन्त्रमाला इति पुस्तके।
    टिप्पणी अस्ति – रयिम्। प्रथममन्त्रे रत्न इति पदस्य योऽर्थः (आनन्दः) उक्तः, स एव रयिः, राधः, रायः इत्यादिशब्दानामपि बोध्यः। रत्न इति शब्देन हि सोऽर्थः स्फुटतरं व्यज्यते इति विशेषः।
    स्फुटतरं व्यज्यते – is shown more clearly.
    By the flame one enjoys a treasure that verily increases day by day, glorious, most full of hero power.

    २०१६-०२-२२ सोमवासरः (2016-02-22 Monday)

     
  • Himanshu Pota 7:02 am on February 22, 2016 Permalink | Reply  

    https://sites.google.com/site/sanskritcode/dictionaries

     
  • Himanshu Pota 2:27 pm on February 20, 2016 Permalink | Reply  

    Namaste

    Samskrita Bharati India is organizing this talk on Feb 21st at 4 pm IST as part of their गीर्वाणवैभवं series. Please see the attachment. This will be broadcast live at this link.

    http://livestream.com/shaalelive/samskritabharati

    Please forward it to the groups you belong. One of the volunteers has requested that this be forwarded to as many as possible.

    Thanks
    Santhi

     
    • Sharada M. V. 4:08 am on February 21, 2016 Permalink | Reply

      Thank you.

  • Himanshu Pota 11:04 am on February 20, 2016 Permalink | Reply  

    एकभक्तिः (Devoted to One) 

    तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते।
    प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः॥गीता ७.१७॥
    अस्य श्लोकस्य अर्थकृते अत्र पश्यतु।
    मम प्रश्नः अस्ति – अपि एकभक्तिः इति कोऽपि समासः अस्ति?

    २०१६-०२-२० शनिवासरः (2016-02-20 Saturday)

     
    • hnbhat 12:09 pm on February 23, 2016 Permalink | Reply

      एकस्मिन् भक्तिर्यस्य स एकभक्तिरिति व्यधिकरणबहुव्रीहिः – समासः।

      अतएवैकभक्तिरेकस्मिन्भगवत्येव भक्तिरनुरक्तिर्यस्य स इति व्याख्या५।

    • Vardhan 4:53 pm on February 23, 2016 Permalink | Reply

      गीतायाः व्याकरण विषये प्रश्नाः सन्ति चेत् संस्कृतभारत्याः गीताप्रवेशः नाम्ना द्वि खन्दात्मकं पुस्तकम् पश्येत् | तत्र “एकभक्तिः – एकस्मिन् भक्तिः यस्य सः – बहुव्रीहि” इति दत्तं अस्ति |

      • Himanshu Pota 5:45 pm on February 23, 2016 Permalink | Reply

        धन्यवादः वर्धनवर्य। आगामिनि प्राप्ते अवसरे गीताप्रवेशः क्रेष्यामि।

c
Compose new post
j
Next post/Next comment
k
Previous post/Previous comment
r
Reply
e
Edit
o
Show/Hide comments
t
Go to top
l
Go to login
h
Show/Hide help
shift + esc
Cancel