Updates from Himanshu Pota Toggle Comment Threads | Keyboard Shortcuts

  • Himanshu Pota 2:37 pm on October 10, 2018 Permalink | Reply  

    पथिकः पान्थः वा (A traveller) 

    पन्थानं नित्यं गच्छति इति पथिकः पान्थः वा।
    पथः ष्कन्॥५.१.७७॥
    हितोपदेशे मित्रलाभः नाम अध्याये अस्ति
    भो भोः पान्थ इदं सुवर्णकङ्कणं गृह्यताम्।
    ततो लोभाकृष्टेन केनचित् पान्थेनालोचितम्।
    पान्थोऽवदत्।

    २०१८-१०-१० बुधवासरः (2018-10-10 Wednesday)

    Advertisements
     
  • Himanshu Pota 8:10 pm on October 7, 2018 Permalink | Reply  

    बद्ध्वा (Having tied) 

    कृष्णान् तुरगान् मन्दुरायां बद्ध्वा हरिताभारम् आनय। काले घोडों को घुडसाल में बांधकर दूब का गट्ठर ला। Tie the black horses in the stable and then bring a bundle of green grass.
    चन्द्रिका स्वचूडापाशे कुरवकम् अबद्ध्वा कथं यास्यति। चन्द्रिका अपने जूडे में लाल फूल बिना बाँधे कैसे जायेगी? How will Chandrika go without tying a red flower in her hair.
    सेटुफलानि भुक्त्वा जलपानेन विषूचिका जायते। तरबूजे खाकर पानी पीने से हैजा हो जाता है। Drinking water after eating watermelon one gets typhoid.

    २०१८-१०-०७ रविवासरः (2018-10-07 Sunday)

     
    • 4qafk3m8 11:03 pm on October 7, 2018 Permalink | Reply

      सेटुफलं जग्ध्वा जलपानेन विषूचिका जायते – इत्यसत्यम्। सेटुफलेन सह विषूचिकायाः कोऽपि सम्बन्धो नास्ति। विषूचिका दूषितेन जलेन जायते। तद्दूषितं जलं क्वापि प्राप्तुं शक्यते।

    • Himanshu Pota 7:54 pm on October 8, 2018 Permalink | Reply

      आम्। भवान् सत्यं लिखति। धन्यवादः।

  • Himanshu Pota 3:43 pm on October 1, 2018 Permalink | Reply  

    स वेद (He knows) 

    महीभृतां सच्चरितैश्चरैः क्रियाः स वेद निश्शेषमशेषितक्रियः।
    महोदयैस्तस्य हितानुबन्धिभिः प्रतीयते घातुरिवेहितं फलैः॥किरातार्जुनीयं प्रथमः सर्गः २०॥
    स वेद। सः निश्शेषं वेद। अशेषितक्रियः सः निश्शेषं वेद। किं वेद? अशेषितक्रियः सः महीभृतां क्रियाः निश्शेषं वेद। कथं वेद? अशेषितक्रियः सः महीभृतां क्रियाः सच्चरितैश्चरैः निश्शेषं वेद।
    यः सः महीभृतां क्रियाः वेद तस्य इहितं फलैः प्रतीयते (न पूर्वम्)। कीदृशैः फलैः प्रतीयते। महोदयैः हितानुबन्धिभिः फलैः प्रतीयते। कस्य इव? धातुः इव तस्य।

    २०१८-१०-०१ सोमवासरः (2018-10-01 Monday)

     
  • Himanshu Pota 10:19 pm on September 30, 2018 Permalink | Reply  

    अगमम् (I went) 

    गम् धातुः परस्मैपदी लुङ्लकारः
    अगमत् अगमताम् अगमम्
    अगमः अगमतम् अगमत
    अगमम् अगमाव अगमाम
    अद्य अहं विद्यालयं न अगमम्। आज मैं विद्यालय नहीं गया। Today I did not go to the school.
    त्वं गृहं मा गमः। तू घर मत जा। You don’t go home.
    सा आपणम् अगमत्। वह बजार गयी। She went to the shops.
    यूयं नगरम् अगमत। तुम सब नगर को गये। You all went to the city.

    २०१८-०९-३० रविवासरः (2018-09-30 Sunday)

     
    • 4qafk3m8 9:06 am on October 1, 2018 Permalink | Reply

      लुङ्लकारे कर्मणि प्रयोगे –
      अगामि अगामिषाताम् अगामिषत
      अगामिष्ठाः अगामिषाथाम् अगामिध्वम् / अगामिढ्वम्
      अगामिषि अगामिष्वहि अगामिष्महि

    • Himanshu Pota 3:30 pm on October 1, 2018 Permalink | Reply

      धन्यवादः।

  • Himanshu Pota 10:01 pm on September 29, 2018 Permalink | Reply  

    अभूत् (He happened) 

    भू धातुः परस्मैपदी लुङ्लकारः
    अभूत् अभूताम् अभूवन्
    अभूः अभूतम् अभूत
    अभूवम् अभूव अभूम
    अहम् अद्य अत्र न अभूवम्। मैं आज यहाँ नहीं था। I was not here today.
    सः तत्र अभूत्। वह वहाँ था। He was there.
    ते गृहे अभूवन्। वे घर पर थे। They were in the house.

    २०१८-०९-२९ शनिवासरः (2018-09-29 Saturday)

     
  • Himanshu Pota 6:46 pm on September 28, 2018 Permalink | Reply  

    व्यतिकरे तस्मिन् (In that case) 

    व्यतिकरे तस्मिन् नष्टप्रायमिदं च पुस्तकं भूयः प्रकाशयितुमैच्छत्।
    आदर्श संस्कृत-निबन्ध रत्नमाला – आचार्य विश्वनाथशास्त्री, पृष्ठः ३।

    २०१८-०९-२८ शुक्रवासरः (2018-09-28 Friday)

     
  • Himanshu Pota 8:48 am on September 23, 2018 Permalink | Reply  

    लिट्लकाररूपाणि (Remote Past) 

    परोक्षे लिट्॥३.२.११५॥
    भू सत्तायाम् – बभूव बभूवतुः बभूवुः
    अयोध्यायां कः राजा बभूव? Who was the king in Ayodhya?
    दशरथस्य चत्वारः पुत्राः बभूवुः। Dasharatha had four sons.
    गम् गतौ (इषुममियमां छः॥७.३.७७॥ – जगाम जग्मतुः जग्मुः
    विश्वामित्रः राज्ञः दशरथस्य समीपे जगाम। Vishvamitra went near king Dasharatha.
    स्था गतिनिवृत्तौ – तस्थौ तस्थतुः तस्थुः
    सीतारामलक्ष्मणाः मुनेः अगस्तस्य आश्रमे तस्थुः। Sita, Ram, and Lakshmana stayed in Agastya Muni’s ashrama.

    २०१८-०९-२३ रविवासरः (2018-09-23 Sunday)

     
    • 4qafk3m8 10:21 am on September 25, 2018 Permalink | Reply

      युक्तं वर्णनम्। लिट्लकारेणायमर्थोऽपि ज्ञायते।
      अयोध्यायां कः राजा बभूव? अयोध्या का राजा कौन हुआ? (न कि ‘अयोध्या का राजा कौन था?’)
      दशरथस्य चत्वारः पुत्राः बभूवुः। दशरथ के चार पुत्र हुए। (न कि ‘दशरथ के चार पुत्र थे।’)

  • Himanshu Pota 1:20 pm on September 18, 2018 Permalink | Reply  

    अत्याहितम् (great danger) 

    भासविरचिते प्रतिमानाटके अवदातिका वदति अहो अत्याहितम् इति।
    अत्याहितम् इति महाभीतिः अतिशयभयं जीवानपेक्षिकर्म जीवनाशारहितसाहसकर्म इत्यमरः।
    अयं शब्दः अत्याहितम् इति धा धातोः निष्पद्यते यथा अति + आ + धा + क्त + अम् = अत्याहितम्।

    २०१८-०९-१८ मङ्गलवासरः (2018-09-18 Tuesday)

     
  • Himanshu Pota 12:35 pm on September 8, 2018 Permalink | Reply  

    निधाय (Having kept) 

    नरेश तू रमेश के बाग से फल लाकर रूमाल में रखकर अपने हाथ से हरिश्चन्द्र को दे।
    Naresh, bring a fruit from the garden of Ramesh and keeping it in a handkerchief give it to Harishchandra with you hands.
    नरेश त्वं रमेशस्य उद्यानात् फलम् आनीय करवस्त्रे निधाय स्वहस्तेन हरिश्चन्द्राय यच्छ।
    संस्कृत शिक्षण सरणी इति आचार्यरामशास्त्रीमहाभागेन लिखितं परिमल पब्लिकेशन्सन प्रकाशितं पञ्चमं संस्करणं २०१७, पृष्ठः ८।
    डु धाञ् धारणपोषणयोः जुहोत्यादिः सकर्मकः अनिट् उभयपदी
    लट्
    दधाति धत्तः दधति
    दधासि धत्थः धत्थ
    दधामि दधावः दधामः
    लृट्
    धास्यति धास्यतः धास्यन्ति
    धास्यसि धास्यथः धास्यथ
    धास्यामि धास्यावः धास्यामः
    लङ्
    अदधात् अधत्ताम् अदधुः
    अदधाः अधत्तम् अधत्त
    अदधाम् अदध्व अदध्म
    लोट्
    दधातु धत्ताम् दधतु
    धेहि धत्तम् धत्त
    दधानि दधाव दधाम
    विधिलिङ्
    दध्यात् दध्याताम् दध्युः
    दध्याः दध्यातम् दध्यात्
    दध्याम् दध्याव दध्याम
    कृदन्तरूपाणि – कृदन्तरूपनन्दिनी इत् जरार्दनहेगडेवर्येण लिखितं संस्
    सः पुस्तकं तत्र निदधाति। He keeps the book there.
    सा शास्त्राणि निदधाति। She keeps shastras.

    २०१८-०९-०६ गुरुवासरः (2018-09-06 Thursday)

     
    • 4qafk3m8 11:11 pm on September 8, 2018 Permalink | Reply

      ‘धा’ अत्युपोगी धातुः। हिन्द्या बहवो शब्दा अनेनोत्पादिताः।
      सावधान = स + अव + धा (attention)
      अनुसन्धान = अनु + सम् + धा (research)
      संविधान = सम् + वि + धा (law, constitution, government)
      अभिधान = अभि + धा (name, appellation)
      परिधान = परि + धा (clothing)
      व्यवधान = वि + अव + धा (interruption)
      समाधान = सम् + आ + धा (solution)
      प्रधान = प्र + धा (chief)

      एतादृशानि बहून्यन्यान्युदाहरणानि वर्तन्ते।

    • Srinivasa 5:59 am on September 9, 2018 Permalink | Reply

      निधाय हृदि विश्वेशं विधाय गुरुवन्दनम् ।
      बालानां सुखबोधाय क्रियते तर्कसंग्रहः ।। तर्कसंग्रहे १ मङ्गलश्लोकम्

      हृदि निधाय – नितरां स्थापयित्वा ( अन्नंभट्टाचार्यविरचिते दीपिकाव्याख्यायाम् )

      • Harmander Singh 11:02 am on October 6, 2018 Permalink | Reply

        This use of निधाय is in keeping with the use of the term निधान​ as ‘treasure’ (often found in Hindi/Punjabi too, e.g. in Gurbani), it connotes treasuring/cherishing the Almighty in the heart.

        A couple of incidental points re this shloka:
        1. तर्कसंग्रहः is a treatise on वैशेषिक​ philosophy, which recently caught my attention in a different context, again thanks to you Himanshu ji,

        2. the juxtaposition of the terms निधाय, विधाय and सुखबोधाय is interesting. In fact I find the recitation more pleasing with बालानां and सुखबोधाय swapped:
        निधाय हृदि विश्वेशं विधाय गुरुवन्दनम् ।
        सुखबोधाय बालानां क्रियते तर्कसंग्रहः ।।
        (the anushtup aspect is preserved)

        Also interesting is the fact that while निधाय and विधाय are the same kind of krdanta, सुखबोधाय is सम्प्रदान कारक​ of सुखबोध​

  • Himanshu Pota 3:28 pm on September 6, 2018 Permalink | Reply  

    गर्हते गृहयते गृह्णाति (To Accept) 

    गृ॑हूँ ग्रहणे (गृह्) भ्वादिः आत्मनेपदी धातुः गर्हते गर्हेते गर्हन्ते इत्यादीनि रूपाणि।
    गृ॑ह॒ ग्रहणे चुरादिः आत्मनेपदी धातुः गृहयते गृहयेते गृहयन्ते इत्यादीनि रूपाणि।
    ग्र॑हँ॒ उपादाने (ग्रह्) क्रयादिः उभयपदी धातुः गृह्णाति गृह्णीतः गृह्णन्ति गृह्णीते गृह्णाते गृह्णते इत्यादीनि रूपणि।
    एते त्रयः धातवः समानार्थिनः इति मन्ये तस्मात् कथं एषु त्रिषु धातुसु गृह्णाति इत्यस्य उपयोगः अधिकं वर्तते?
    सन्त्यज्य शूर्पवद्दोषान् गुणान् गृह्णाति सज्जनः।

    २०१८-०९-०५ बुधवासरः (2018-09-05 Wednesday)

     
    • 4qafk3m8 11:36 pm on September 7, 2018 Permalink | Reply

      सर्वासु भाषास्वेतादृशो व्यवहारो दरीदृश्यते। केचन शब्दा अन्येभ्योऽपेक्षयाधिक्येनोपयुज्यन्ते। शताब्दं परं शताब्दं रूढिभूय व्यवहारोऽयं लोकसिद्धो जातः।

    • Himanshu Pota 12:34 pm on September 8, 2018 Permalink | Reply

      धन्यवादः।

c
Compose new post
j
Next post/Next comment
k
Previous post/Previous comment
r
Reply
e
Edit
o
Show/Hide comments
t
Go to top
l
Go to login
h
Show/Hide help
shift + esc
Cancel