दलाईलामादादाभगवन्तौ (Dalai Lama and Dada Bhagavan)

इदानीं कीथवर्यः विंशत्यधिकशतवर्षस्य कारावासदण्डं भजते। एकं वारं दलाईलामामहाभागेन तस्य अनुमोदनं कृतम्। https://en.wikipedia.org/wiki/Keith_Raniere
अत्र सिडनीनगरे दादाभगवतः भक्तेन हरप्रीतस्य अनुमोदनं कृतम्।
https://www.abc.net.au/news/2020-10-31/crypto-ponzi-scheme-sanhi-plus-gold-union-coin/12832188
विवरणं पठतु। अहो विस्मयः कथं जनाः कितवप्रभावेण मतिशून्याः भवन्ति। विशेषे तेषां कितवानां प्रभावः ये अलौकिकं व्याख्यान्ति।

इदं चित्रं कीथवर्यस्य आधारान् दर्शयति।

By Feoffer – Own work, CC BY-SA 4.0, https://commons.wikimedia.org/w/index.php?curid=93566453

२०२०-१०-३१ शनिवासरः (2020-10-31 Saturday)

आधुनिकवैद्युतशोधोपकरणानि (Helpful Sanskrit Research Tools)

इदं जालपत्रं पश्यतु –
https://m.facebook.com/sanskritstudents/photos/a.475035639277295/901501283297393/?type=3

२०२०-१०-३० शुक्रवासरः (2020-10-30 Friday)

लेखनीमसिः अवस्यति (Ink is finished)

मन्ये पूर्वं कदाप्यहं मम लेखन्यां मसेः अवसानं नापश्यम्। अस्मिन् चित्रे मसिविहीनां लेखनीं पश्यतु। मया अधुनावधि न्यूनातिन्यूनं शतं लेखन्यः उपयुक्ताः किन्तु मसिव्ययस्य पूर्वमेव तासां लोपो भवति। ताः लेखन्याः कुत्र यान्ति न कोऽपि जानाति।

The Empty Pen

२०२०-१०-२९ गुरुवासरः (2020-10-29 Thursday)

विचारदुर्गाणि (Think Tanks)

मया सदा चिन्तितं क एभ्यो विचारदुर्गेभ्यो धनं ददाति। पठतु कीदृशा जना एभ्यो धनं ददति। न विचारदुर्गेष्वस्ति कोऽपि चिन्तकस्ते सर्वे स्वामिने केवलं युक्तयः कल्पयन्ति।
https://www.smh.com.au/world/europe/i-was-blindsided-kevin-rudd-says-he-had-no-idea-about-think-tank-s-ties-to-jeffrey-epstein-20201028-p569iw.html

२०२०-१०-२८ बुधवासरः (2020-10-28 Wednesday)

अवामंस्थाः (You disrespected)

अवामंस्थाः अव मनँ ज्ञाने दिवादिः आत्मनेपदी सकर्मकः अनिट् लुङ्लकारः मध्यमपुरुषः एकवचनम्।
अधिगतपरमार्थान् पण्डितान् मावमंस्थास्तृणमिव लघु लक्ष्मीर्नैव तान् संरुणद्धि।
अभिनवमदलेखाश्यामगण्डस्थलानां न भवति बिसतन्तुर्वारणं वारणानाम्॥नीतिशतकम्॥

मालिनी छन्दः
माऽवमंस्था अपमानं मा कुरु। माङि लुङ् (३.३.१७५), न माङ्योगे (६.४.७४) इत्याभ्याम् अट् आगमो न भवति।
बिसतन्तुः कमलनालतन्तुर्वारणं रोधको न भवति।

२०२०-१०-२७ मङ्गलवासरः (2020-10-27 Tuesday)

प्रातिहन्त्रम् (Vengeance)

इदानीं शीतं प्रातिहन्त्रेण सह पुनरायाति। ऐषमे स्तोकं घर्मः आयात् मन्ये सप्ताहपर्यन्तमेव घर्मः तद्राहित्यं शीतमेव।
न जाने कथं वयं शीतस्य प्रतिकार्याः सन्ति। शीतमस्मान् बलेन प्रतिसचते। शीतं वारं वारं प्रत्यकृत्य प्रसीदति। हे शीत वयं त्वां सादरं नमामः। पुनरायतु किन्तु यथाकाले।

२०२०-१०-२६ सोमवासरः (2020-10-26 Monday)

गगनदीपः (A Light in the Sky)

ह्यः मया मिडसोमर मर्डर इति क्रमिकायां Written in the Stars इति अध्यायः दृष्टः। अस्मिन् अध्याये अस्ति गगनदीपः नाम छात्रा। गगनदीपस्य वृन्देन पूर्वाज्ञात एको ग्रहोऽवलोकितः। इदमवलोकनं रहस्यमासीत् यत् गगनदीपस्य शिक्षकेन कथमपि मार्गितम्। शिक्षकः येऽपि इदं रहस्यं जानन्ति तेषां वधं कर्तुं प्रवृत्त आसीत्। सर्वेषां वधं कृत्वा सः अस्यावलोकनस्य श्रेयः प्राप्तुमैच्छत्। गगनदीपं विहाय सः सर्वानहन्। अन्ते यदा सः गगनदीपस्य वधं कुर्वनासीत् तदा सः गगनदीपं कथयति वधाय क्षमस्व किन्तु त्वं मम प्रियासि तस्मादयं पूर्वाज्ञातः ग्रहः गगनदीपः इति अभिधास्यामि।
न जाने चलचित्रकल्पकारं को गगनदीपः नाम ददातु इति विमर्शम् अददात् किन्तु अध्यायस्य नाम Written in the Stars इति छात्रायाः नाम गगनदीपः इति सर्वथा युक्तं मनोहार्यपि।

२०२०-१०-२५ रविवासरः (2020-10-25 Sunday)

शिकागोसप्तकस्य अभियोगश्रवणम् (The Trial of Chicago 7)

गतगुरुवासरे मया नैकानि कार्याणि कृतानि। कश्चिदभिष्टोऽपि लब्धः तस्मात् मया स्वयं शिकागोसप्तकस्य अभियोगश्रवणम् इति चलचित्रदर्शनं पुरस्कृतम्।
चलचित्रे अवलोकिते अनुभूतमल्पमपि परिवर्तनं कथं दुरासदम्। चलचित्रे तस्य राष्ट्रस्य न्यायव्यवस्थायाः कट्वालोचनास्ति किन्तु तथापि चलचित्रनिर्देशकेन अमेरिकादेशस्य न्यायव्यवस्था उत्कर्षे स्थापिता।

२०२०-१०-२४ शनिवासरः (2020-10-24 Saturday)

घातकपरिणामः (Dangerous Result)

गत शनिवासरे २०२०-१०-१७तिथौ केन्बराराज्यस्य विधानसभायै निर्वाचनमासीत्। भारतीयमूलीयाश्चत्वारः प्रमुखद्वाभ्यां दलाभ्यां प्रत्याशिन आसीत्। तेषु कोऽपि न निर्वाचितः। अस्माकं मित्रं दीपकराजोऽल्पमतान्तरेण पराजितः। इदं खलु दुःखकारणम्। तस्मादपि अन्यं दुःखकारणमस्ति। अस्मिन् चित्रे ये हरितवर्णा निर्वाचितसदस्याः सन्ति ते अस्मभ्यं घातकाः। गतविधानसभायां त्रयः हरितसदस्याः आसन् किन्त्वस्मिन् सभायां षण्णां निर्वाचितसदस्यानां प्रभावः न केवलं द्वीगुणितः किन्तु बहुगुणीभविष्यति। सम्यगवगच्छन्तु हरितवर्णः इति किम्।

https://www.abc.net.au/news/elections/act/2020/results

२०२०-१०-२३ शुक्रवासरः (2020-10-23 Friday)

लोकार्पणाय निमन्त्रणम् (Invitation for a Launch)

व्योमसंस्कृतपाठशाला https://www.sanskritfromhome.in अष्टाध्यायी इति जालपत्रस्य https://ashtadhyayi.com चलदूरभाषयन्त्राय एकस्य प्रयोगस्य लोकार्पणं करिष्यति। अस्मिन् कार्यक्रमे मुख्यातिथयः सन्ति श्रीजोर्जकारदोनामहाभागाः।
अयं कार्यक्रमः अस्ति विजयदशमीपर्वणि सोमवासरे २०२०-१०-२६तिथौ सायङ्काले ७.००-८.३० भारतीयसमयानुसारेण
भवन्तः सर्वे आमन्त्रिताः स्युः। कार्यक्रमे अनेन सङ्केतेन https://zoom.us/j/97247628879 प्रवेष्टुं शक्यते। आमत्रणमपि संलग्नमस्ति।

२०२०-१०-२२ गुरुवासरः (2020-10-22 Thursday)