किं नाम विद्वत्ता? (What Indeed is Scholarship?)

मया क्लाऊसवर्येण विरचितं हिन्दूमतस्य एकं सर्वेक्षणम् इति आख्यातस्य पुस्तकस्य पठनमारब्धम् (A Survey of Hinduism, 3rd edition, Klaus K. Klostermaier, State University of New York Press, 2007).
तस्मिन् पुस्तके संदर्भविभागेऽस्ति पञ्चाशत् पृष्ठानि प्रायः पञ्चाशदधिकसप्तशतं पुस्तकानि वा शोधपत्राणि सन्ति। कोऽपि प्रत्येकस्मिन् सप्ताह एकस्मिन् पुस्तके पठिते चेदेकादशभिः वर्षैः शोधकार्यायोद्यतः पण्डितो भवति।
ग्रन्थशतेष्वाधीतेषु पण्डितो याति विद्वत्ताम्।
सा नाम विद्वत्ता न सा ये जना अत्रोपासते॥
भट्टमहाभागाः प्रथमपङ्क्त्याः व्यतिकरं परामृशन्ति –
ग्रन्थशतेनाधीतेन विद्वान् भवति कश्चन।

२०१९-११-३० शनिवासरः (2019-11-30 Saturday)

क्लाईवजेम्सवर्यः दिवं गतः (Clive James is no more)

सप्तत्रिंशतो वर्षेभ्यः पूर्वमागतोऽहं देशे।
यो देशस्तदा दृष्टो न पश्यामि स देशोऽद्य॥
तदासन् प्रगल्भा अनधीना अनीश्वरा जनाः।
क्लाईवस्तेष्वनुत्तमः स गतः स कालो गतः॥
https://www.abc.net.au/news/2019-11-28/clive-james-dies-aged-80/5751522
https://www.clivejames.com/author.html
https://www.abc.net.au/news/2019-11-28/clive-james-quotes-on-life-death-princess-diana-game-of-thrones/11744416

CliveJamesfromGaurdian
Clive James (Courtesy https://www.theguardian.com/culture/gallery/2019/nov/27/clive-james-a-life-in-pictures#img-8)

२०१९-११-२९ शुक्रवासरः (2019-11-29 Friday)

पञ्चसप्ततितमः वार्षिकोत्सवः (Seventy-fifth Jubilee)

अस्मिन् वर्षे अस्माकं विद्यालयस्य विद्यानिकेतन इत्यस्य पञ्चसप्ततितमः वार्षिकोत्सवः मन्यते। तस्मै उत्सवाय पत्रप्रेषणविभागेन २०१९-११-२५तिथौ एकं विशेषमावरणं विमोचितम्। तस्य आवरणस्य वर्णनं चित्रे च अत्र ददामि। मधुकरशर्मामहाभागेन इमे चित्रे प्रेषिते।

PostalStampBPSPilani75AnniversaryNov2019

२०१९-११-२८ गुरुवासरः (2019-11-28 Thursday)

प्रशस्तिः (Laudation)

ह्यो मया The Sanskrit Language: an overview, Pierre-Sylvain Filliozat (translated from the French by T. K. Gopalan), Indica Books, 2000 (original French edition, 1992) इति पुस्तकं चर्चितम्। ताश्चर्चा अचार्येण न मुदिता।
पुस्तकं महद्संस्कृतविषये लघु वर्णनम्।
क्षम्यै विद्वद्भिरहं कुमतिना समुद्रं लिप्से॥
अस्मिन् पुस्तके वर्णितमस्ति यतो हि भारतेषु नैकाः प्रादेशिकभाषाः आसन् तथापि संस्कृतं विहाय कापि भाषा नासीत् या भाषा जीवनस्य समग्रेषु क्षेत्रेषूपयुक्ता आसीत्। संस्कृतेषु मन्त्रोऽस्ति साहित्यमस्ति काव्यमस्ति वाग्व्यवाहरोऽस्ति शास्त्राणि सन्ति वेदाः सन्ति उपनिषदः सन्ति इतिहासोऽस्ति पुराणानि सन्ति स्तुतयः सन्ति ज्ञानमस्ति विज्ञानमस्ति। न किमपि अस्ति यत् संस्कृते नास्ति। इदं सर्वं अस्मिन् पुस्तके रुचिकरायां भाषायां व्याख्यातम्।

२०१९-११-२७ बुधवासरः (2019-11-27 Wednesday)

संस्कृतम् – एकं सर्वेक्षणम् (The Sanskrit Language: an Overview)

मया ह्य आरभ्य संस्कृतम् – एकं सर्वेक्षणम् इति पुस्तकस्य पठनमद्यावसितम् – The Sanskrit Language: an overview, Pierre-Sylvain Filliozat (translated from the French by T. K. Gopalan), Indica Books, 2000 (original French edition, 1992).
पुस्तके पञ्चाध्यायाः सन्ति – भाषा; संस्कृतस्य वर्णनम्, वाक् दर्शनम्; संस्कृतस्य उपभोक्तारः; संस्कृतस्य उपयोगाः इति।
संस्कृतभाषायां यदहं कार्यं कर्तुमिच्छामि तस्य चर्चास्मिन् पुस्तकेऽस्ति। किन्तु कमपि शोधकर्तारमहं नावगामयितुं शक्नोमि (I am not able to convince) एतेषु क्षेत्रेषु कार्यं कुर्यादिति। किं करणीयम्?
पुस्तके लेखकः प्रार्थयति (claims) ७००वर्षारभ्य १७००वर्षपर्यन्तं संस्कृतं भारतस्य सम्बन्धभाषासीदेव। किन्तु पुस्तके अस्य वाक्यस्य अन्येषां वाक्यानामपि सन्दर्भाः प्रमाणानि वा न दत्तानि। मन्ये लेखकः यथातथ्यं तथैव लिखति किन्तु गम्भीरकार्याय प्रमाणान्यर्हन्ति।

२०१९-११-२६ मङ्गलवासरः (2019-11-26 Tuesday)

देव्यः गताः (The Queens Went)

वसिष्ठाधिष्ठिता देव्यो गता रामस्य मातरः।
अरुन्धतीं पुरस्कृत्य यज्ञे जामातुराश्रमम्॥उत्तररामचरितम् १.३॥
रामस्य मातरः देव्यः वसिष्ठाधिष्ठिताः अरुन्धतीं पुरस्कृत्य जामातुराश्रमम् यज्ञे गताः।
The mothers of Ram, the queens, under the protection of Vasistha, keeping Arundhati in the front, went to the ashram of their son-in-law for a yagna.
जामाता अत्र दशरथस्य कन्यायाः पतिः ऋष्यशृङ्गः इति। मया न ज्ञातं दशरथस्य दुहिताप्यसीत्।
अत्र यज्ञे इति सप्तमी वर्तते निमित्तात्कर्मयोगे सप्तमी इति वार्तिकेन अथवा यज्ञे सति इत्यर्थे।
अत्र गता इति क्तः प्रयोगोऽस्ति तथापि कर्ता प्रथमाविभक्तावस्ति। कथम्? गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च (३.४.७२) इति सूत्रेण। अनेन सूत्रेण गतिवाची क्तप्रत्ययः कर्मणि कर्तरि भावे च भवति। अस्मिन् श्लोके तथा गताः कर्तर्यस्ति।
आचार्येणोत्तररामचरितं पठ इति निर्दिष्टोऽहमस्मि। केनापि मम शुभचिन्तकेनोत्तररामचरितं पुस्तकं मह्यं दत्तं तस्मादाचार्यस्य निर्देशनस्याचरणं सुशकमभवत्। ताभ्यां धन्यवादो व्याहरामि।

२०१९-११-२५ सोमवासरः (2019-11-25 Monday)

अर्धराज्यम् (Half the Kingdom)

अर्धराज्यम्   (Half the Kingdom)

दिष्ट्या भर्तृदारकोऽर्धराज्ये प्रतिष्ठां गमिष्यति  (मालविका ५।१३) अथवा भाग्येन माधवसेनः द्विधाविभक्तस्य विदर्भराज्यस्यैकस्मिन् भागे स्वामित्वं प्राप्नोति द्विधाविभक्तमित्यनेन समभागद्वयेन विभक्तमिति सूचितम्। कुतः क्लीबत्वम्?  अर्धं नपुंसकमिति सूत्रप्रमाणेन।

अर्धं नपुंसकम् २।२।२

समांशवाची अर्धशब्दो नित्यं नपुंसकलिङ्गं भवति। अर्धमित्येतत् नपुंसकमेकदेशिनैकाधिकरणेन समस्यते तत्पुरुषश्च समासो भवति षष्ठीसमासापवादोऽयं योगः। अत्र एकाधिकरणेन एकत्वसंख्याविशिष्टद्रव्यमित्यर्थम् एकदेशी इत्यनेन अवयवी सूचित:

यथा

१। राज्यस्य अर्धम्अर्धराज्यम्

२। आसनस्य अर्धम्अर्धासनम्

अर्धासनं गोत्रभिदोऽधितष्ठौ (रघु ६।७३) अथवा इन्द्रस्य अर्धासनं अधिष्ठितवान्

३। शरीरस्य अर्धम्अर्धशरीरम्

तया तु तस्यार्धशरीरभाजा पश्चात्कृताः स्निग्धजनाशिषोऽपि (कुमार ७।२८)  अथवा हरस्य अर्धशरीरं भजन्त्या गौर्या बन्धुजनाशीर्वादाः अधरीकृताः

ग्रामार्धः इत्यस्य ग्रामस्य अंशः अर्थः अर्धशब्दस्य समांशवाचित्वाभावेन नित्यनपुंसकत्वाभावान्नायं समासः। किन्तुषष्ठीइत्येव समास इति षष्ठ्यन्तस्य पूर्वनिपातः   एवं आसनस्य अंशः इत्यर्थे आसनार्धः इति समासो भवति

एकदेशी इति किम्? अर्धपशुर्देवदत्तस्य अत्र अर्धशब्दः समप्रविभागार्थे सत्यपि तस्यदेवदत्तस्यइत्यनेन समासो भवतिदेवदत्तस्यइत्यस्य स्वामित्वात् अत्र तु पशुशब्द एव अवयवी अतःपशोःइत्यनेन समस्यतेअर्धपशुर्देवदत्तस्य

प्रकृतसूत्रेएकाधिकरणेइत्यस्य अनुवृत्तिरस्ति अतः यदि अवयवी एकत्वसंख्याविशिष्टो भवति तर्हि समासोऽपि भवति यथा अर्धं पिप्पलीनाम् अत्र अवयवीपदस्य बहुत्वसंख्याविशिष्टत्वात् समासो  भवति 

 

२०१९-११-२४ रविवासरः (2019-11-24 Sunday)