गीतापाठः (Gita Chanting)

अस्मिन् सप्ताहे मया सम्पूर्णगीतापाठः मम स्मृत्या कृतः। अहं प्रत्येकस्मिन् दिवसे यदा यानेन कार्यालयं गच्छामि ततः प्रत्यागच्छमि च तस्मिन् काले यानं चालयन् मम स्मृत्या गीतापाठं करोमि। अयं क्रमः अनेकात् वर्षात् प्रचलति किन्तु मध्ये मध्ये स्खलनं भवति अलसतया अभ्यासः विरमति पाठः स्मृत्यां क्षीणः भवति च। किन्तु गतमासात् अभ्यासः सम्यग् भवति तस्मात् अस्मिन् सप्ताहे सम्पूर्णः पाठः कृतः। प्रसन्नोऽस्मि।

२०१६-११-२६ शनिवासरः (2016-11-26 Saturday)

अकृतः (Not Prepared)

श्रीमद्भगवद्गीतायां द्विवारम् अकृतः इति शब्दस्य उपयोगः अभवत्।
यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम्।
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः॥१५।११॥
तत्रैवं सति कर्तरमात्मानं केवलं तु यः।
पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः॥१८।१६॥

२०१६-११-२५ शुक्रवासरः (2016-11-25 Friday)

असु क्षेपणे (to throw) – 3

परा असु

परास्तम् – निराकृतम् = प्रत्युक्तम्

परास्तवसुधा सुधाधिवसति  – त्यक्तवसुन्धरा चिरमधिवसति   (कि ५।२७)

परास्त –  निराकृत

अप असु

अपास्यात् – जह्यात् (छोड़ दें)

चीराण्यपास्याज्जनकस्य कन्या नेयं प्रतिज्ञा मम दत्तपूर्वा।

यथासुखं गच्छतु राजपुत्री वनं समग्रा सह सर्वरत्नैः  (रा २।३८।६)

जनक की पुत्री अपने वल्कलवस्त्र त्याग दें। मैं ने यह प्रतिज्ञा पहले नहीं की। राजपुत्री अपने  समस्त आभरणादियों के साथ यथासुख वनप्रस्थान करें ।

 

(वर्तते)

२०१६-११-१२ शनिवासरः (2016-11-12 Saturday)

 

असु क्षेपणे (to throw) – 2

प्रेरणेऽर्थे अस्यति इति असु धातोः सामान्यः प्रयोगः ।  असु धातु को सामान्यतः ‘दूर करना’ इस अर्थ में प्रयोग किया जाता है।

नीलकण्ठपरिभुक्तयौवनां तां विलोक्य जननी समाश्वसत् ।

भर्तृवल्लभतया हि मानसीं मातुरस्यति सुचं वधूजनः ।।

(कुमारसम्भवे ८।१२)

शिवेन परिभुक्तयौवनां पार्वतीं अवलोक्य तस्याः जननी अथवा मेना संतुतोष। तथा हि पतिवात्सल्येन मातुः मनोभवां शोकं निरस्यति

नीलकण्ठ (अथवा शिवजी) से सम्भोग किये गये पार्वती के यौवन को देखकर उसकी माँ मेना सन्तुष्ट हुई। वधूजन पुत्री अपने पति के प्रेम से ही अपनी माँ का मानसिक शोक को दूर करती हैं

 

(वर्तते)

२०१६-११-१२ शनिवासरः (2016-11-12 Saturday)

असु क्षेपणे (to throw)

असु क्षेपणे (फेंकना, निराश होना) दिवादिगणीय, सकर्मक, सेट्, परस्मैपदीय धातुः।

अयं धातुः क्षेपणातिरिक्तेषु बहुष्वर्थेषु प्रयुक्तो दृश्यते।

१। निराकृतावर्थे  परास्यति, परास्यते। अपास्यति, अपास्यते। व्युदस्यति, व्युदस्यते। निरस्यति, निरस्यते इत्येते प्रयोगाः। परास्यते  इत्यत्र परापूर्वः असु धातुः। ‘उपसर्गादस्यत्यूह्योर्वेति वाच्यम्’ इत्यात्मनेपदविकल्पः ।

२। सङ्क्षिप्तावर्थे समस्यति, समस्यते इति सम्पूर्वस्य असु धातोः प्रयोगः ।

३। संन्यासेऽर्थे संन्यस्यति, संन्यस्यते इति सम् नि इत्युपसर्गद्वयपूर्वः असु धातुः ।

४। अतिविस्तारेऽर्थे तथा अन्तर्धावर्थे च व्यस्यति, व्यस्यते इति विपूर्वः असु क्षेपणे इति धातुः प्रयुक्तो दृश्यते ।

५। न्यासेऽर्थे न्यस्यति, न्यस्यते इति निपूर्वस्य असुधातोः प्रयोगः ।

६। शीलनेऽर्थे अभ्यस्यति अभ्यस्यते इत्यभिपूर्वस्य असु धातोः प्रयोगः ।

एते प्रयोगाः क्रमशः परीक्ष्यन्ते ।

(वर्तते)

२०१६-११-१२ शनिवासरः (2016-11-12 Saturday)