युधामन्युः (Yudhamanyu)

मह्यं कण्ठस्थः करणाय दुष्करः अधोलिखितः श्लोकः।
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान्।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः॥
अहं विस्मारामि महारथाः इति अस्ति अथवा पृथिविपते इति अस्ति। यदा अत्र लिखन् अस्मि तदा अवगच्छामि महारथाः इति एव अर्हति यस्मात् पृथिविपते इति सम्बोधन्विभक्तिः अस्ति न तु कर्ताकारकविभक्तिः।

२०११-१०-१८ मङ्गलवासरः (2011-10-18 Tuesday)

पद्मासनस्थः (Seated in Lotus Position)

अद्य स्टीव-जोब्स्-वर्यस्य स्मृत्यां विशेषं Time Magazine संस्करणं प्राप्तम्। तस्य आवरणे अस्ति स्टीव-जोब्स्-वर्यस्य चित्रम्। तस्मिन् चित्रे सः पद्मासनस्थः अस्ति तस्य उपस्थे (in the lap) तस्य प्रथमम् एपलः इति सङ्गणित्रम् अस्ति।

२०११-१०-१७ सोमवासरः (2011-10-17 Monday)

क्रियायोगः (Kriya Yoga)

सप्ताहे एकवारं रविवासरे वयं मिलित्वा मन्दिरे क्रियायोगाभ्यासः कुर्मः। प्रत्येकरविवासरे त्रयः चत्वारः जनाः आगच्छन्ति किन्तु अद्य अष्टजनाः आगच्छन्। सर्वैः सह अभ्यासः वरमसि।

२०११-१०-१६ रविवासरः (2011-10-16 Sunday)

परीक्षणम् (Examining)

अद्य मया परीक्षायाः उत्तरपत्राणि परीक्षितानि। प्रयोगशालायाः प्रयोगविवरणानि अपि परीक्षितानि। प्रातःकाले पुस्तकानि पोट्टल्यकरवम्।

२०११-१०-१५ शनिवासरः (2011-10-15 Saturday)

अन्तिमदिवसः (Last Day)

अद्य ज्वलितामीतयोः अवकाशस्य अन्तिमदिवसः अस्ति। तयोः पाठशालावकाशः द्विसप्ताहात्मकः आसीत्। ज्वलिता तेषु अवकाशेषु प्रायः दश-एकादशवादने जागर्ति स्म। सा कथं सोमवासरे सप्तवादने जागरिष्यति इति अहं न जानामि।

२०११-१०-१४ शुक्रवासरः (2011-10-14 Friday)

अवाप्नोति (Gets)

शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः।
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात्॥गीता १५.८॥
रामः रुप्प्यकाणि अवाप्नोति। सः गृहात् उत्क्रामति।

२०११-१०-१३ गुरुवासरः (2011-10-13 Thursday)

परं भावम् (Supreme State)

अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः।
परं भावमजानन्तो ममाव्ययमनुत्तमम्॥गीता ७.२४॥
नवमे अध्याये अपि परं भावमजानन्तो मम भूतमहेश्वरम् इति अस्ति।

२०११-१०-१२ बुधवासरः (2011-10-12 Wednesday)

सोमवासरस्य पाठ्यक्रमः (Monday Time-table)

यतो ही अवकाशः प्रायः सोमवासरे भवति तस्मात् सोमवासरस्य पाठे हानिः भवति। तस्मात् अस्माकं विश्वविद्यालये अद्य मङ्गलवासरे सोमवासरस्य पाठ्यक्रमः अस्ति।

२०११-१०-११ मङ्गलवासरः (2011-10-11 Tuesday)