Updates from August, 2006 Toggle Comment Threads | Keyboard Shortcuts

  • Karthik 2:45 pm on August 31, 2006 Permalink | Reply  

    देयानि कुत्र आगच्छन्ति (From where do the bills come?) 

    अद्य अहं सकलानि देयानि दातुं आरब्धवान्। एकम् पुनः एकम् देयं (bill) मम स्योतकात् (bag) बहिर् आगच्छति। गत द्वयोः मासयोः अहं अत्र नास्मः। मम भार्या सर्वानि देयानि एके आवरणे (in an envelope) अस्थापयत्। यस्य कल्पनापि नासीत् तस्य देयम् आवरणे आसन्। इदानीं प्रभृति अहं मम भार्यां निवेदयामि यदा देयम् आगच्छति तदैव ददातु।

    २००६-०८-३१ गुरुवासरः (2006-08-31 Thursday)

    Advertisements
     
  • Karthik 2:44 pm on August 30, 2006 Permalink | Reply  

    सोपसर्गः धातुः व्यव-स्था १आ (Verbal root with prefix – to be settled, arranged) 

    स्था धातुः भ्वादिगणी परस्मैपदी च किन्तु व्यव-स्था अत्मनेपदी अस्ति। यथा -सः पुस्तकानि व्यवतिष्ठते। अहं पत्राणि व्यवतिष्ठे। अपि त्वं फलानि व्यवस्थास्यसे। प्रातःकाले अहं पुस्तकानि व्यवातिष्ठे अधुना पुनः कथं ते अव्यवस्थितानि सन्ति।

    २००६-०८-३० बुधवासरः (2006-08-30 Wednesday)

     
  • Karthik 4:46 pm on August 29, 2006 Permalink | Reply  

    दयावान् रक्षिपुरुषः (A kind policeman) 

    अत्र आगन्तुं गतशुक्रवासरे मया वडोदरानगरस्य संयानस्थेशनं (railway station) गतम्। मया सह मम माता आसीत्। सा वृद्धा आसीत्। अद्यत्वे स्थेशने जनेभ्यः कापि आसन्दिका नास्ति केवलं कार्यकरेभ्यः (for workers) आसन्दिकाः सन्ति। यदा एकः रक्षिपुरुषः मम मातरम् अपश्यत् सः स्वासन्दिकायाम् उततिष्ठत् मम मातरम् आहूय स्वासन्दिकां ताम् अददात्। भारते कीदृशाः दयावन्तः पुरुषाः सन्ति किन्तु भारतस्य सर्वकारः (government) तैः सर्वैः सह कीदृशं व्यवहरति। तस्य व्यवहारात् दयावान् पुरुषः निष्ठुरः भवति।

    २००६-०८-२९ मङ्गलवासरः (2006-08-29 Tuesday)

     
  • Karthik 4:46 pm on August 28, 2006 Permalink | Reply  

    प्रथमदिवसे समस्या (Trouble on the first day) 

    सोमवारे मम भार्या कार्यं गन्तुं यदा निर्गच्छति तदा सा जानाति तस्याः यानस्य समूहा (battery) कार्यं न करोति। तस्याः विद्यालये प्रतिसोमवासरे सभा (meeting) भवति। सा त्वरते किन्तु यानं न चलति। यदा अहं द्वे मासे पूर्वं इतः अगच्छं तदा तां कथितवान् कृपया द्वे याने  परिवर्तताम् (alternate between the two cars) इति किन्तु सा तत् न कृतवान्। अहं शीघ्रं सज्जः अभवं तां विद्यालयं अनयं च।

    २००६-०८-२८ सोमवासरः (2006-08-28 Monday)

     
  • Karthik 4:48 pm on August 27, 2006 Permalink  

    केन्बरानगरं प्राप्तम् (Reached Canberra) 

    ह्यः प्रातः सार्ध-एकादशवादने मुम्ब‍ईनगरात् निर्गम्य सायंकाले सिंहपुरं (Singapore) प्राप्नुवम्। तत्र मम एकं मित्रं वसति। अहं तेन सह दूरभाषेण वार्तालापं कर्तुम् इच्छामि। किन्तु मम आगामिनः उड्डानस्य समयः अभवत्। अहम् अचिरं मम सिडनीनगरस्य उड्डाने प्राविशम्। यदा उड्डनस्य नियतसमये सार्धाष्तवादने सर्वः शान्तः आसीत् मया मनसि शङ्का जाता। किञ्चित् कालं परं विमानचालकः उद्घोषितवान् – विमानस्य वितन्तुकः यन्त्रः (radio equipment) सम्यग् कार्यं न करोति, यान्त्रिकाः तं यन्त्रं कारयितुं प्रयत्नं कुर्वन्ति इति। चतस्रः होरा परं यन्त्रः सम्यग् अभवत्। यदा मया सिडनीनगरं प्राप्तं तदा मम केन्बरानगरस्य उड्डानम् अगच्छत्। अहं अन्ये उड्डाने सार्ध-एकादशवादने केन्बरानगरं प्राप्तम्। बालकाः तेषां माता च केन्बराविमानस्थले मम तिस्रः होरा पर्यन्तं प्रतीक्षाम् अकुर्वन्। ते न अजानन् अहं कुत्र अस्मि। अन्ते अहं गृहं प्राप्तं चायः पीत्वा स्नानं कृत्वा अस्वपम्।

    २००६-०८-२७ रविवासरः (2006-08-27 Sunday)

     
  • Karthik 4:44 pm on August 27, 2006 Permalink | Reply  

    केन्बरानगरं प्राप्तम् (Reached Canberra) 

    ह्यः प्रातः सार्ध-एकादशवादने मुम्ब‍ईनगरात् निर्गम्य सायंकाले सिंहपुरं (Singapore) प्राप्नुवम्। तत्र मम एकं मित्रं वसति। अहं तेन सह दूरभाषेण वार्तालापं कर्तुम् इच्छामि। किन्तु मम आगामिनः उड्डानस्य समयः अभवत्। अहम् अचिरं मम सिडनीनगरस्य उड्डाने प्राविशम्। यदा उड्डनस्य नियतसमये सार्धाष्तवादने सर्वः शान्तः आसीत् मया मनसि शङ्का जाता। किञ्चित् कालं परं विमानचालकः उद्घोषितवान् – विमानस्य वितन्तुकः यन्त्रः (radio equipment)  सम्यग् कार्यं न करोति, यान्त्रिकाः तं यन्त्रं कारयितुं प्रयत्नं कुर्वन्ति इति। चतस्रः होरा परं यन्त्रः सम्यग् अभवत्। यदा मया सिडनीनगरं प्राप्तं तदा मम केन्बरानगरस्य उड्डानम् अगच्छत्। अहं अन्ये उड्डाने सार्ध-एकादशवादने केन्बरानगरं प्राप्तम्। बालकाः तेषां माता च केन्बराविमानस्थले मम तिस्रः होरा पर्यन्तं प्रतीक्षाम् अकुर्वन्। ते न अजानन् अहं कुत्र अस्मि। अन्ते अहं गृहं प्राप्तं चायः पीत्वा स्नानं कृत्वा अस्वपम्।

    २००६-०८-२७ रविवासरः (2006-08-27 Sunday)

     
  • Karthik 5:43 pm on August 26, 2006 Permalink | Reply  

    बृहत् चक्रं प्रवेक्ष्यामि (Entering the cycle again) 

    अद्य अहं स्वर्गात् भारतात् केन्बरानगरं गमिष्यामि। द्वे मासे परं पुनः केन्बरानगरं गमिष्यामि। वडोदरानगरे मम पितरौ भ्राता च वसन्ति। तैः सह द्वे सप्ताहे अतिष्ठम्। अत्र अहं स्वर्गम् इव अनुभवामि। किन्तु तत् विमोच्य अद्य केन्बरानगरं गन्तव्यम्। तत्र आवयोः ज्येष्ठा कन्या तस्याः गणित-गृह-कार्ये मां साहाय्यं प्रतीक्षते। आवयोः पुत्रः यानचालनं शिक्षणाय मां प्रतीक्षते। कनिष्ठा कन्या सर्वे गृह-कार्ये मां प्रतीक्षते। तेषां माता द्वन्द्वाय मम प्रतीक्षां करोति। द्वयोः मासयोः परं श्वः पुनः तत् चक्रं प्रवेक्ष्यामि।

    २००६-०८-२६ शनिवासरः (2006-08-26 Saturday)

     
  • Karthik 5:42 pm on August 25, 2006 Permalink | Reply  

    औस्ट्रेलियादेशे वसन्तः भारतीयाः (Indians living in Australia) 

    अहं गत द्वे सप्ताहे वडोदरानगरम् अतिष्ठम् अनेकानि लोकानि अमिलम् च। तेषाम् एकोऽपि जनः नासीत् यस्य औस्ट्रलियादेशे कोऽपि सम्बन्धी नास्ति। कदाचित् सर्वः भारतः औस्ट्रेलियादेशं गच्छति। औस्ट्रेलियादेशस्य क्षेत्रफलः भारतात् त्रिगुणः अस्ति तस्मात् भारतः तस्मिन् देशे सुखेन गन्तुं शक्नोति।

    २००६-०८-२५ शुक्रवासरः (2006-08-25 Friday)

     
  • Karthik 5:39 pm on August 24, 2006 Permalink | Reply  

    मा गमः – लुङ्-लकारः (Negation in Aorist Past) 

    लुङ्लकारस्य उपयोगः अद्यतन-भूतकालस्य अर्थे (past tense for today also called aorist past) भवति। यथा, अहं अद्य श्री‍रामदेवस्य आयुर्वेदिक-चिकित्सालयः अगमम्। तत्र अहं वैदेन रीतेशेण सह अवादिषम्।गम्-धातुः लुङ्लकारे –

    अगमत् अगमताम् अगमन्, अगमः अगमतम् अगमत, अगमम् अगमाव अगमाम।

    नकारात्मक-अर्थे मा-अव्ययस्य उपयोगः भवति। यदि लुङ्लकारेण सह मा-अव्ययस्य उपयोगः भवति तर्हि लुङ्लकारे अग्रस्थितः  लुप्तं भवति। तद्यथा, क्लैब्यं मा स्म गमः पार्थ।  मा शुचः सम्पदं दैवीम् अभिजातः असि पाण्डव। मा कर्मफलहेतुः भूः मा ते सङ्गः अस्तु अकर्मणि।

    २००६-०८-२४ गुरुवासरः (2006-08-24 Thursday)

     
    • nareshpc 2:09 am on August 31, 2006 Permalink | Reply

      Good post
      ससंदर्भःभवति मह्यम्।
      रामोदन्तप्रसङ्गे ह्यः वयं लुङ् लकारस्य विषये किञ्चित् शोधनं कृतवन्तः। “अवधीत्” इति शब्दः आसीत्।
      गच्छन् सहानुजो रामः कौशिकेन प्रचोदितः।
      ताटकामवधीद्धीमान् लोकप्ल्दनतत्परम्॥

    • S. L. Abhyankar 12:06 am on March 24, 2012 Permalink | Reply

      “यदि लुङ्लकारेण सह मा-अव्ययस्य उपयोगः भवति तर्हि लुङ्लकारे अग्रस्थितः “अ“ लुप्त: भवति।” एषः नियमः कस्मिन् पाणिनी-सूत्रे विवृतः खलु ?

      • hnbhat 6:57 pm on January 2, 2017 Permalink | Reply

        मााङि लुङ् इति लुङ् लकारः, न माङ् योगे, इति अडागमनिषेधः!

    • S. L. Abhyankar 11:40 am on March 26, 2012 Permalink | Reply

      भवता निर्दिष्टेषु –
      “(1) क्लैब्यं मा स्म गमः पार्थ । (2) मा शुचः सम्पदं दैवीम् अभिजातः असि पाण्डव । (3) मा कर्मफलहेतुः भूः (4) मा ते सङ्गः अस्तु अकर्मणि।”
      एतेषु उदाहरणेषु प्रायः आज्ञार्थ-प्रयोगः दृश्यते न तु अद्यतन-भूतकालस्य प्रयोगः ?

  • Karthik 4:17 pm on August 23, 2006 Permalink | Reply  

    सार्वधातुकाः लकाराः (Tense-terminations applicable to the whole root) 

    धातूनां विभाजनं दशगणेषु सार्वधातुकेभ्यः लकारेभ्यः अस्ति। लट्-लोट्-लङ्-विधिलिङ्-लकाराः सार्वधातुकाः लकाराः सन्ति। धातूनाम् अन्ते तिङ्‍प्रत्ययाः योजयित्वा लकाररूपाः कल्प्यते (are made)। सामान्यतः शब्दान् प्रत्ययः अन्ते योज्यते तथा शब्दस्य किमपि परिवर्तनं न भवति। यथा सामान्य += सामान्यत। किन्तु सार्वधातुक-लकारेषु यदि प्रत्ययाः योज्यते तर्हि सर्व-धातोः परिवर्तनम् भवति। यथा शक् + ति = शक्नोति। इतः शक्-धातुः शक्नो भवति तदा ति-प्रत्ययः योज्यते। सार्वधातुक-लट्-लकारेषु, गम् + ति -> गच्छ् + ति = गच्छति इति भवति। किन्तु असार्वधतुक-लृट्-लकारेषु गम् + इष्यति = गमिष्यति इति भवति। सार्वधातुक-लकारेषु गम्-धातुः गच्छ् भवति किन्तु असार्वधातुक-लकारेषु गम् एव तिष्ठति।

    २००६-०८-२३ बुधवासरः (2006-08-23 Wednesday)

     
c
Compose new post
j
Next post/Next comment
k
Previous post/Previous comment
r
Reply
e
Edit
o
Show/Hide comments
t
Go to top
l
Go to login
h
Show/Hide help
shift + esc
Cancel