उद्विग्नमनाः सः (He with agitated mind)

इद्रियाणि मनः बुद्धिः अस्य अधिष्ठानम् उच्यते इति गीता ३.४०॥
भीतः समुद्विग्नमनाश्च तल्पादुत्थाय प्रपच्छ तमो नमस्यम्।
का भासि नक्तं हृदये करालि कुर्वीय किं ब्रूहि नमोऽस्तु भीमे॥ (अरविन्दमहर्षेः  भवानीभारती १०)
प्रथमविभक्तौ एकवचने नपुंसके मनः किन्तु पुल्ँलिङ्गे उद्विग्नमनाः। अत्र न लुमताङ्गस्य (१.१.६३) स्मर्तव्यम्।
मनस् सुँ (स्वौ. (४.१.२))
मनस् (स्वमोर्नपुंसकात् (७.१.२३)) अत्र सुँ-प्रत्ययस्य लुक् भवति तस्मात् अत्वसन्तस्य चाधातोः (६.४.१४) इत्यस्य प्रसक्तिः नास्ति।
मनः (ससजुषो रूः (८.२.६६), खरवसानयोर्विसर्जनीयः (८.३.१५))
पुल्ँलिङ्गरूपम्
मनस् सुँ (स्वौ. (४.१.२))
मनास् स् (अत्वसन्तस्य चाधातोः (६.४.१४))
मनाः (हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६८), ससजुषो रूः (८.२.६६), खरवसानयोर्विसर्जनीयः (८.३.१५))

२०२०-०४-३० गुरुवासरः (2020-04-30 Thursday)

विष्णुशर्मनामा महापण्डितः (A great scholar by the name Vishnu Sharma)

सुदर्शनो नाम नगरपतिः किन्तु सुदर्शननामा नगरपतिः। कथम्?
नामन् इति प्रातिपदिकं नपुंसकमस्ति किन्तु सुदर्शननामन् पुल्ँलिङ्गम्। तस्मात् कथं प्रथमाविभक्तिः एकवचनम् नाम नामा इति।
नपुंसकरूपम् (अत्र प्रथमा एकवचनम् इति न सर्वनामस्थानम्)
नामन् सुँ (स्वौ. (४.१.२))
नामन् (स्वमोर्नपुंसकात् (७.१.२३))
नाम (नलोपः प्रातिपदिकान्तस्य (८.२.७))
पुल्ँलिङ्गरूपम्
नामन् सुँ (स्वौ. (४.१.२))
नामान् स् (सर्वनामस्थाने चासम्बुद्धौ (६.४.८))
नामान् (हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६८))
नामा (नलोपः प्रातिपदिकान्तस्य (८.२.७))

२०२०-०४-२९ बुधवासरः (2020-04-29 Wednesday)

सुप्तमत्तयोरुत्तमः (वार्तिकम् परोक्षे लिट् (३.२.११५) )(LiT while sleeping or intoxicated)

महाभाष्ये (३००८ समाधानवार्तिकम्॥४॥) इति सुप्तमत्तयोरुत्तमः इति वक्तव्यम् इति वार्तिकम्।
किनापि कविना लिट्लकारस्य त्रिष्टुप्छन्दसि अतिसुन्दरः प्रयोगः कृतः।
सुखे निमग्नः शयने यदासं मधोश्च रथ्यासु मनश्चचार।
स चिन्तयामास कुलानि काव्यं दारांश्च भोगांश्च सुखं धनानि॥

२०२०-०४-२८ मङ्गलवासरः (2020-04-28 Tuesday)

प्राज्यम् (Abundant)

विजित्य यः प्राज्यमयच्छदुत्तरान् कुरूनकुप्यं वसु वासवोपमः।
स वल्कवासांसि तवाधुनाहरन् करोति मन्युं न कथं धनञ्जयः॥किरातार्जुनीयम् १.३५॥
श्लोकेऽसमिन् प्राज्यम् अकुप्यम् धनञ्जयः इति कौतुकवन्ता शब्दाः सन्ति। प्राज्यम् इति प्र + अज् + ण्यत् इत्यस्मात् निष्पन्नोऽस्ति। आर्धधातुके अजेर्व्यघञपोः (२..५६) इति सूत्रेण अजः वी आदेशः भवति किन्तु बहुलं तणि इति वार्तिकेन अस्य आदेशस्य अत्र प्रतिषेधः भवति। ध्यातव्यम् आज्यम् इति घृतम्।
How come Dhananjaya, (brave) like Indra, he who gave abundant gold and wealth having won the Uttara Kuru, (and) now bringing you valkal clothes, doesn’t fire you up with anger?

२०२०-०४-२७ सोमवासरः (2020-04-27 Monday)

सौम्यामहाभागा लिखन्ति (Dr Sowmya Krishnapur Writes)

आचार्यो वक्त्यहं तारकाणां द्योतेन प्रकाशे इति। किं करणीयम्। तारका मां बोधयन्ति तस्मात् ते खलु धन्यवादार्हाः। अत्राहं तेभ्यः धन्यवादानेव व्याहरामि। अधोऽस्ति विकल्पे णिचि इति विषये सौम्यामहाभागस्य वचनम्।

अनुबन्धवर्णानां विशिष्टानि प्रयोजनानि सन्ति । यथा, ईदित्त्वम्  “श्वीदितो निष्ठायाम्” (७।४।२) इति इण्निषेधार्थम्, उदित्त्वम् “उदितो वा” (७।२।५६) इति क्त्वाप्रत्यये परे विकल्पेन इडागमार्थम् । ऊदित्त्वम् “स्वरतिसूतिसूयतिधूञूदितो वा” (७।२।४४) इति इडागमविकल्पार्थम् ।

यदि चुरादिगणे विद्यमानाः ईदित्, उदित्, ऊदित् धातवः नित्यं णिचं प्राप्नुवन्ति, तर्हि न कदापि धातोः अव्यवहितपरतया निष्ठा/क्त्वा/आर्धधातुकप्रत्ययो न भवतीत्यत्र तेषाम् अनुबन्धवर्णस्य न किञ्चित् प्रयोजनं स्यात् । अतः अनुबन्धकरणसामर्थ्यात् तेषाम् णिज्विकल्पः अङ्गीक्रियते । सिद्धान्तकौमुद्यां

1739 अञ्चु निशेषणे । अञ्चयति । उदित्त्वमिड्विकल्पार्थम् । अत एव विभाषितो णिच् ।

1804 पूरी आप्ययने । ईदित्त्वं निष्ठायामिण्निषेधाय । अत एव णिज्वा ।

इत्यादि उक्तमस्ति । तत्र न किञ्चित् सूत्रम् ।

सौम्या

२०२०-०४-२६ रविवासरः (2020-04-26 Sunday)

स्वरूपभ्रात्रा सह सम्भाषणसंस्कृतम् (Spoken Sanskrit with Swarupbhai)

रविवासरे २६अप्रेल२०२०तिथौ सम्भाषणसंस्कृतस्य एकोऽन्यो वर्गो आरप्स्यते। इदानीं त्रिसहस्रं छात्राः एतया पद्धत्या सम्भाषणसंस्कृतमभ्यस्यन्ति। पञ्चाशत् अध्यापकाः तान् पाठयन्ति च। यदि भवान् सम्भाषणम् अधिजिगांसते तर्हि अस्मिन् वर्गे युनक्तु।
Namaskar to All,

We are very pleased to announce that Spoken Sanskrit is being spread throughout the globe via a new program of classes being taught online. Since October 2019, over three thousand people around the world have registered, and classes are going on with a team of 50 teachers. If you are interested to study or teach with us, or if you know of people who may be interested, please let us know by contacting Swarup <dinbandhu@sprynet.com>. These classes are designed for those knowing a modern Indian language.

We have a new batch of Spoken Sanskrit classes beginning this Sunday, April 26. If you and/or your friends/family would like to begin study of Spoken Sanskrit, please contact them and have them email us to register. Feel free to place this announcement in your social media/facebook/Whatsapp group/twitter etc.

First class: Sunday, April 26

Timing:

Sundays 7:30 PM – 9:00 PM IST (INDA)
Sundays 10:00 AM – 11:30 AM EDT (USA)

Classes are free.

To register, contact: Swarup <dinbandhu@sprynet.com>

Here is a list some of the countries in which people are enthusiastically joining to learn Spoken Sanskrit through these classes:

India, Bangladesh, Nepal, Malaysia, Singapore, South Korea, Hong Kong, Japan, Australia, New Zealand, UK, Ireland, Finland, Germany, France, Spain, Austria, Belgium, Luxembourg, Switzerland, Colombia, USA, Canada, Mexico, Panama, Mauritius, Dubay/UAE, Italy, South Africa, Kenya, Indonesia, Bahrain, Tehran, Oman, Qatar, Russia.

Hari Om,
Swarup

२०२०-०४-२५ शनिवासरः (2020-04-25 Saturday)

षस्जँ गतौ (सज्जति) षञ्जँ सङ्गे (सजति) इति धातू (Shasja and Shanja roots)

षस्जँ गतौ (सज्जति) षञ्जँ सङ्गे (सजति) किन्तु अहं षस्जँ इति सङ्गे इत्यर्थे पश्यामि।
यथा स्थाने सज्जति दृष्टिः इति मालविकाग्निमित्रम्, गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते इति गीता। कथम्?
किन्तु क्तप्रत्यान्तरूपं सक्तम् इति सङ्गे इति अर्थे प्रयुज्यते।
षस्जँ -> सस्ज् -> सश्ज् (स्तोः श्चुना श्चुः (८.४.४०)) -> सज्ज् (झलां जश् झशि (८.४.५३)), सज्ज् + क्त + सुँ = सज्जितम्।
षञ्जँ + क्त + सुँ = सक्तम्।

२०२०-०४-२४ शुक्रवासरः (2020-04-24 Friday)

गोधासु गोत्वम् (Iguana has cowness)

दार्शनिकास्सास्नेति गोत्वमिति कथयन्ति। बहुकालेभ्यः पूर्वं मया सोल्पस्तर्कसङ्ग्रहः पठितः। तावत् स्मरामि सास्नेति गोत्वम्। गोत्वमित्यस्मिन् लक्षणे कोऽपि दोषो नास्तीति स्मरामि। गोधायाः चित्रे सास्ना पश्यामि तस्मात् मन्ये अस्मिन् लक्षणेऽपि दोषः अस्ति। यतो हि सः लक्षणः गवामन्यायां जात्यामप्यस्ति। दार्शनिकाः किं वदन्ति?

330px-Male_Green_Iguana_Belize
Iguana (Courtesy https://en.wikipedia.org/wiki/Iguana)

कथं मया गोधा इति अद्य स्मृतम्। एकमुपयोगि क्रमकणमस्ति तस्य नाम अस्ति IguanaTeX। मम एकेन सहकर्मिणाहमद्यास्य क्रमकस्य विषये सूचितः।

२०२०-०४-२३ गुरुवासरः (2020-04-23 Thursday)

ज्ञानकर्मसंन्यासयोगः (The yoga of knowledge and disciplines of action)

गीतायामस्मिन् चतुर्थे अध्याये कर्मन् इत्ययं पुनः पुनः प्रयुक्तोऽस्ति।
काङ्क्षन्तः कर्मणां सिद्धिम् – षष्ठी बहुवचनम्।
न मां कर्माणि लिम्पन्ति – प्रथमा बहुवचनम्।
कर्मफले – कर्माणां फले।
कर्मभिर्न स बध्यते – कर्मणि प्रयोगः तृतीया बहुवचनम्।
कृतं कर्म – कर्मणि प्रयोगः प्रथमा एकवचनम्।
कुरु कर्मैव – द्वितिया एकवचनम्।
किं कर्म किमकर्मेति, तत्ते कर्म प्रवक्ष्यामि।
कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः।
अकर्मणश्च बोद्धव्यं गहना कर्मणः गतिः॥गीता ४.१७॥
कर्मणः – षष्ठी एकवचनम्। सम्यग् न जानामि किन्तु कर्तृकर्मणोः कृति (२.३.६५) अथवा कृत्यां कर्त्तरि वा (२.३.७१) इत्यनयोः एकेन सूत्रेण षष्ठी भवति। कृत्य इति सप्त प्रत्ययाः सन्ति – तव्यत्, तव्य, अनीयर्, यत्, ण्यत्, क्यप्, केलिमर इति।
कर्मणि कर्म यः पश्येदकर्मणि च कर्म यः। कर्मणि सप्तमी एकवचनम्।
योगसंन्यस्तकर्माणम् ज्ञानसंछिन्नसंशयम्। कर्माणं द्वितीया एकवचनम्। कर्मन् पुल्ँलिङ्गस्य शब्दस्य सर्वनामस्थाने चासम्बुद्धौ (६.४.८) इत्यनेन उपधा दीर्घः भवति।

२०२०-०४-२२ बुधवासरः (2020-04-22 Wednesday)

चिन्तयित्वा चिन्तित्वा व्याकरणस्य मर्म (Chintayitvaa and Chintitvaa get to one of the secrets of grammar)

वन्दनीय भीमसेनशास्त्री भैमीव्याख्यायां द्वितीये भागे (पृ. ६०४) लिखति – यह सूत्र व्याकरण का मर्म जानने वालों के लिये बडे महत्व का है।

मन्ये नीलेशमहाभागस्तद् मर्म जानाति। स मामिदं मर्मवद् सूत्रमदर्शयत्।
चुरादिगणस्य इदितां धातोः णिचि विकल्पेन भवति। अप्यस्ति किमपि सूत्रं यत् इदं सूचयति। नास्ति किमपि सूत्रं किन्तु नीलेशवर्यः लिखति अस्य इदितः किमपि अन्यं प्रयोजनं नास्ति तस्मात् णिचि विकल्पेन इत्येव चिन्तनीयम् इति।
इदित एकं प्रयोजनमस्ति। अनिदितां हल उपधायाः क्ङिति (६.४.२४) इति सूत्रेण निर्दिष्टस्य नकारलोपस्य प्रतिषेधः। किन्तु णिचि सति चिन्ति इत्यस्मिन् नकारः उपधायां नास्ति। तस्मात् अनेन सूत्रेण इदित् वा अनिदित् नकारलोपः न भवत्येव।
मया नीलेशः तदा पृष्टः निष्ठायां सेटि (६.४.५२) इति सूत्रेण णिचि नास्त्येव तस्माद् नोपधा भवति अतः नकारस्य लोपः। किन्तु अचः परस्मिन्पूर्वविधौ (१.१.५७) इति सूत्रेण णिचः इतः आदेशः इद्वद् एव अस्ति तस्मात् नकारः उपधा नास्ति। भीमसेनशास्त्री इदं सूत्रं व्याकरणस्य मर्मेति मन्यते।

२०२०-०४-२१ मङ्गलवासरः (2020-04-21 Tuesday)

Neeleshji writes:
No (there is no sutra), but it is a logical deduction. इदित् vs अनिदित् भेद is done so that we can do the उपधा-नकार-लोप by अनिदितां हल उपधायाः क्ङिति. But for णिजन्त धातवः, the णिच् will come at the end so it is not possible to have नकार in upadhaa at all (E.g. चिन्ति – नकार is not in upadhaa). So then why make इदित् vs अनिदित् distinction for 10th Gana? the only answer is – That is an indication that acharya wants न् in upadhaa. That is possible only if the Nich is optional. QED 🙂

My reply:
There appears to be another use of इदित् that is for getting the form चिन्तितम्।
चिन्तितम् इत्यत्र निष्ठायां सेटि इति सूत्रेण णिच् इत्यस्य लोपः भवति तथा यदि चितिँ इति चिन्तँ इति आसीत् तर्हि अनिदितां हल उपधायाः क्ङिति इत्यनेन चितितम् इति अनिष्टरूपम् अभवत्।

Neeleshji’s reply:
अत्र मूलधातुः “चिन्त्” इति स्यात् चेदपि “चिन्त् + णिच् + इट् + क्त” इति स्थिते “निष्ठायां सेटि” इति णिज्लोपे कृते “अनिदितां हल उपधायाः क्ङिति” इत्यनेन उपधानकारलोपे प्राप्ते “अचः परस्मिन् पूर्वविधौ” इति लुप्त-इकारः स्थानिवत् स्यात् येन नकारलोपः नैव अभविष्यत्, अतः चिन्तितम् इत्येव रूपम् स्यात् ।
अचः = णिचः (इकारस्य) लोपः
परस्मिन् = सेट्-प्रत्यये परे
पूर्वविधौ = नकारलोपार्थम् ।