Updates from March, 2016 Toggle Comment Threads | Keyboard Shortcuts

  • Himanshu Pota 9:23 am on March 27, 2016 Permalink | Reply  

    गणेशराजीवयोः युद्धम् (The Battle of Ganesh and Rajiv) 

    कृपया एतौ द्वौ निबन्धौ पठितव्यम्। श्रीगणेश उवाचhttp://www.sandeepweb.com/the-bhagavad-gita-before-the-battle/ तत् परं श्रीराजीव उवाचhttp://beingdifferentforum.blogspot.com.au/2016/03/rajiv-malhotras-preliminary-response-to.html
    राजीवस्य लेखे तस्य कांश्चित् शब्दान् ध्यातव्यम्।
    For the global battlefield, what would be the relevant experience equivalent to his 1,000 avadhanas? I submit it is the experience of going into the line of enemy fire, surrounded by a hundred opponents or even more, and being able to hold one’s ground, and come out wiser for the next encounter. I have had these (well over 1,000) live experiences in audiences where I have been the only Indian or Hindu, where there is blatant intimidation and mockery, where every attempt has been made to belittle such attempts, and where I had nothing personal to gain and all my reputation and social credibility to lose.
    मन्ये राजीवः न अस्ति स्वामिविवेकानन्दः इति किन्तु यथा अहं स्वामिविवेकानन्दस्य पीडाम् अनुभवामि तथा एव राजीवस्य पीडाम् अपि अनुभवामि। राजीव त्वां वर्धापयामि वर्धस्व विजयस्व शतं जीव चिरं जीव दीर्घायुर्भव आयुष्मान् भव विजयी भव शिवास्ते पन्थानः सन्तु शुभमस्तु मङ्गलमस्तु।

    २०१६-०३-२७ रविवासरः (2016-03-27 Sunday)

    Advertisements
     
    • Srinivasa 5:53 pm on March 27, 2016 Permalink | Reply

      गणेशराजीवयोः द्वन्द्वयुद्धं संस्कृतिसंस्कृतयोः द्वन्द्वयुद्धमिति मन्ये । प्रवासीभारतीयेषु भारतीयसंस्कृतिः ग्रन्थमात्रे व्यवस्थितमिति स्पष्टमेव । सर्वे गीताध्ययनं कुर्वन्ति परन्तु गीतां अवलंब्य दैनिकजीवनं कुर्वाणाः सन्तः विदेशे दुर्लभदर्शनाः एव । प्रवासीभारतीयानां के पुनः शिष्टाः? ये केचिद् आङ्लभाषायां गीतां व्याख्यातुं शक्याः ते एव शिष्टाः । साधारणतया ते संस्कृतपण्डिताः न सन्ति । अतः गीतां च धार्मिकग्रन्थान् वर्जयित्वा ते कानपि संस्कृतग्रन्थान्न जानन्ति । सम्भवतः तेषां विचारधारा संकुचिता रसहीना च भवतीति मन्ये । अतः इमां विचारधारां विशालीकर्त्तुं किं कर्त्तव्यं इति प्रश्नः उत्तिष्ठति । प्रथमं संस्कृतात् संस्कृतिः बलीयसीति तैः अभिज्ञातव्या । संस्कृतिश्च जीवनदि न तु ग्रन्थस्था शुष्कसरिदित्यपि अभिज्ञातव्या । इमं जीवनद्यमृतं पातुं भारतीयपण्डितानां अनुग्रहं साहाय्यं मार्गदर्शनं इत्यादयः अत्यावश्यकानि इत्यपि तैः अभिज्ञातव्यम् ।

  • Himanshu Pota 5:59 pm on March 26, 2016 Permalink | Reply  

    लक्ष्मीः अजायत (Lakshmi is born) 

    अस्मिन् उत्कर्षहर्षावसरे होलिकापर्वणि केन्बरानगरे वयम् अन्यतमस्य हर्षस्य कारणम् अप्राप्नुम। शुक्रवासरे सायं पञ्चविंशतिपञ्चवादने श्रीमतीपूजापाण्डेयमहभागा केन्बरामगरे केल्वरीचिकित्सालये एकां लक्ष्मीं जन्म अददात्। वयं दम्पती श्रीमतीपूजामहाभागं पण्डितप्रकाशपाण्डेयवर्यं च अभिनन्दनं पाठयामः। ईश्वरं नवकन्यायाः दीर्घायुषे सौभाग्याय च प्रार्थामहे।

    २०१६-०३-२६ शनिवासरः (2016-03-26 Saturday)

     
    • hnbhat 7:31 pm on March 26, 2016 Permalink | Reply

      किं दम्पतिमिति ब्रूयामुताहो दम्पती इति।​।

    • Srinivasa 3:15 am on March 27, 2016 Permalink | Reply

      सर्वत्र द्विवचनमेव अथवा दम्पती इति प्रयोक्तव्यमिति मन्ये । कालिदासस्य प्रयोगः अत्र दृश्यते –
      अथाभ्यर्च्य विधातारं प्रयतौ पुत्रकाम्यया ।
      तौ दम्पती वसिष्ठस्य गुरोर्जग्मतुराश्रमम् ।। (रघुवंशे १।३५)

      तौ दम्पती जायापती, राजदन्तादिषु (पा सू २।२।३१) जायाशब्दस्य दमिति निपातनात्साधुः इति मल्लिनाथसूरिः । अथवा जायाश्च पतिश्च द्वन्द्वे द्विवचनमेव प्रयोक्तव्यमिति स्पष्टम् ।

      किमियं पङ्क्तिः नीलकण्ठदीक्षितवर्यस्य श्लोकादुद्डृता ? अप्यत्र अर्धनारीश्वरमन्तरेण किमपि कथ्यते? भट्टवर्यः कृपया कथयतु।

  • Himanshu Pota 12:47 pm on March 23, 2016 Permalink | Reply  

    इयम् महिला मे रोचते – http://www.ibnlive.com/news/india/ticket-less-lady-passenger-says-wont-pay-fine-catch-vijay-mallya-first-1219983.html |

     
  • Himanshu Pota 12:31 pm on March 23, 2016 Permalink | Reply  

    डॉप्रकाश-आमटेवर्यः (Dr Prakash Amte) 

    अस्माकं सौभाग्यम् अस्ति प्रसिद्धबाबा-आमटेमहाराजस्य नेकैः पुरस्कारैः सभाजितः सूनुः डॉप्रकाश-आमटेवर्यः स्वभार्यया सह केन्बरानगरम् आगमिष्यति। केन्बरामराठीमण्डलेन ताभ्यां सह चर्चासत्रस्य आयोजनं विहितम् अस्ति। सत्रे प्रकाशवर्यः स्वनिर्देशने भवमानानां सामाजिकसेवाकार्याणां श्रवालोकमाध्यमेन चर्चां करिष्यति। तत् सत्रं हिन्दूमन्दिरे बुधवासरे ३०मार्च२०१६तिथौ सायं सार्धषट्वादनात् नववादनपर्यन्तम् भविष्यति। मध्ये सार्धसप्तवादनात् दशोनाष्टवादनपर्यन्तम् मन्दिरस्य नित्यारतिः भविष्यति।

    कार्यक्रमे आगतेभ्यः प्रार्थना अस्ति अपि दशडोलरमितस्य अनुदानं डॉप्रकाशवर्यस्य सामाजिककार्येभ्यः करोतु।
    २०१६-०३-२३ बुधवासरः (2016-03-23 Wednesday)

     
  • Himanshu Pota 2:09 pm on March 22, 2016 Permalink | Reply  

    सूची (Railing, Balustrade) 

    शब्दकोषे मया सूची स्तम्भकरः स्तवरकः वेदिका इति शब्दाः railing (seen in this image) अर्थे लब्धाः। अपि ते सम्यग् शब्दाः सन्ति?

    railing

    २०१६-०३-२२ मङ्गलवासरः (2016-03-22 Tuesday)

     
    • hnbhat 2:23 pm on March 22, 2016 Permalink | Reply

      RAILING (subs.):
      ²I A fence: q. v.: lohavṛtiḥ

      -(RAILING, s. (Reviling) निन्दा -न्दनं, अपवादः, परिवादः, परीवादः,
      तिरस्कारः, उपालम्भः, जुगुप्सा, वाक्पारुष्यं, आक्रोशः -शनं, उपक्रोशः, दुर्वाक्यं,
      धिक्क्रिया.–(Fence) आवरणं, लोहावरणं, आवारः, कटञ्जनं, see FENCE.

      BALUSTRADE, s. पङ्क्तिक्रमेण रचितः क्षुद्रस्तम्भसमूहः, क्षुद्रस्तम्भश्रेणी.

    • रमण 5:40 pm on March 22, 2016 Permalink | Reply

      आरम्बना, सूचक, प्राग्रिवा , सूचि sanskritdictionary.com द्वारा माया लभ्धः नूनम कोपी शब्द कोशे न तत प्राप्तम प्राग्रिव तू माया रोचते अथवा आरम्बना अपि सुलभा एव धन्यवादाः

  • Himanshu Pota 2:36 pm on March 21, 2016 Permalink | Reply  

    महोत्सवेन मज्जन्माभिनन्दितवान्। मत् जन्माभिनन्दितवान्। अपि मत् इति मम अर्थे अस्ति? अपि मज्जन्म इति समस्तपदम् अस्ति यत्र अस्मत् इति प्रातिपदिकस्य मत् आदेशः अभवत्? यस्य जन्म सः अहं मत्जन्म इति।

     
    • hnbhat01 4:24 pm on March 21, 2016 Permalink | Reply

      प्रत्ययोत्तरपदयोश्च १०८५, ७।२।९८ इति प्रत्यये उत्तरपदे च परत एकवचने वर्तमानयोः युस्मदस्मदोर् मपर्यन्तस्य त्व म इत्येतावादेशौ भवतः। अत्र उत्तरपदे एकवचने मद् इत्यादेशः, अस्मच्छब्दस्य।

      • hnbhat01 4:28 pm on March 21, 2016 Permalink | Reply

        मज्जन्मनः फलमिदं मधुकैटभारे. मत्प्रार्थनीय मदनुग्रह एष एव ।

        मम जन्म – मज्जन्म; मया प्रार्थनीयः – मत्प्रार्थनीयः; मयि अनुग्रहः – मदनुग्रहः।

    • hnbhat 5:04 pm on March 21, 2016 Permalink | Reply

      यस्य जन्म सः अहं मत्जन्म इति।?

  • Himanshu Pota 11:23 am on March 15, 2016 Permalink | Reply  

    अयं निजः परो वा (This is mine or not mine) 

    अयं निजः परो वेति गणना लघुचेतसाम्।
    उदारचरितानान्तु वसुधैव कुटुम्बकम्॥
    पदविभागः –
    अयं निजः परः वा इति गणना लघुचेतसाम्। उदारचरितानाम् तु वसुधा एव कुटुम्बकम्॥
    अन्वयः –
    अयम् (This) निजः (mine) वा (or) परः (not mine) इति (that) गणना (calculation or thinking) लघुचेतसाम् (of small minded)। तु (But)
    वसुधा (the earth) एव (indeed) कुटुम्बकम् (the family) उदारचरितानाम् (of great persons)॥
    This is mine or not mine is the thinking of small minded. But the earth is indeed the family of great persons.

    प्रातिपदिकाः – सङ्ख्याद्वयम् न.म इति न-विभक्तिः म-वचनम् यथा १.१ इति प्रथमा-विभक्तिः एकवचनम्, ०.० इति अव्ययः।
    अयम् (इदम् १.१ पु॰) निजः (निज १.१ पु॰) परः (पर १.१ पु॰) वा (०.०) इति (०.०) गणना (गणना १.१ स्त्री॰) लघुचेतसाम् (लघुचेतस् ६.३ पु॰)। उदारचरितानाम्
    (उदारचरित ६.३ पु॰) तु (०.०) वसुधा (वसुधा १.१ स्त्री॰) एव (०.०) कुटुम्बकम् (कुटुम्बक १.१ नपु॰)।॥

    समासाः
    लघु चेतः यस्य सः लघुचेतः। उदारः यस्य चरितः सः उदारचरितः।
    Note:
    इति is normally used as a quotation mark, i.e., अयं निजः परः वा इति = “अयं निजः परः वा”।
    There is no verb explicitly used in this verse but “is” is implied.

    २०१६-०३-१५ मङ्गलवासरः (2016-03-15 Tuesday)

     
    • hnbhat 11:51 am on March 15, 2016 Permalink | Reply

      लघु चेतः यस्य सः — will be लघुचेताः।

      • Himanshu Pota 12:02 pm on March 15, 2016 Permalink | Reply

        अहं समासकार्यं न जानामि कृपया समासविग्रहे साहाय्यं करोतु। धन्यवादः।

      • Himanshu Pota 12:30 pm on March 15, 2016 Permalink | Reply

        https://slabhyankar.wordpress.com/2010/05/26/learning-sanskrit-by-a-fresh-approach-lesson-6/ इति जालपत्रे अस्ति – लघुचेतसाम् = लघुः चेत: यस्य सः –> ते –> तेषां –>

        • hnbhat 12:46 am on March 22, 2016 Permalink

          It is confusing as given above.

          लघु चेतो यस्य सः — १.१ लघुचेताः।
          लघु चेतो ययोस्ते – १.२. लघुचेतसौ:।
          लघु चेतो येषां ते — १.३. लघुचेतसः। तेषाम् – ६.३ लघुचेतसाम्।

          This is the correct way of explaining विग्रहवाक्य in Sanskrit. If the form used is plural, only plural is used. लघु चेतो येषां तेषाम् – लघुचेतसाम्। is another wasy of splitting विग्रहवाक्य in बहुव्रीहि.।

  • Himanshu Pota 8:12 pm on March 14, 2016 Permalink | Reply  

    ग्रामः नगरम् (Village & Town) 

    अनेकवारं समानार्थे प्रयुञ्जनानां शब्दानां लिङ्गः न तु समानः। यथा ग्रामः नगरम्, ग्रन्थः पुस्तकम्, मन्दिरं देवालयः, गृहम् आलयः निलयः, शरीरं देहः।

    २०१६-०३-१४ सोमवासरः (2016-03-14 Monday)

     
    • hnbhat 9:26 pm on March 14, 2016 Permalink | Reply

      नार्थानुसारेण लिङ्गनिर्णयो भवति संस्कृतभाषायां शब्दानां भाषान्तरेष्विव, नापि केवलं पुंस्त्रीरूपभेदेन!

      अनेकवारे समानार्थे प्रयुञ्जानां शब्दानां – कोsर्थः??

      • hnbhat 3:32 pm on March 17, 2016 Permalink | Reply

        भार्याशब्दः स्त्रीलिङ्गे, दारशब्दः भार्यार्थैकः पुंलिङ्गे बहुवचने एव प्रयुज्यते, कलत्रशब्दः भार्यार्थः नपुंसके एव प्रयुज्यते।

        जायाशब्दः स्त्र्रीलिङ्गे एव प्रयुज्यते।

        भार्या जायाथ पुंभूम्नि दाराः स्यात्तु कुटुम्बिनी (२.५.५४०) इत्यमरः।

        कलत्रं श्रोणिभार्ययोः। ।। ३.३.७१८ ।।

        देशे देशे कलत्राणि देशे देशे च बांधवाः । तं तु देशं न पश्यामि यत्र भ्राता सहोदरः ॥

        पुत्र–मित्र-कलत्राणि।

        • hnbhat 3:40 pm on March 17, 2016 Permalink

          प्रीणाति यः सुचरितः पितरं स पुत्रो यद्भर्तुरेव हितमिच्छति तत् कलत्रम् ।
          तन्मित्रमापदि सुखे च समक्रियं यद् एतत् त्रयं जगति पुण्यकृतो लभन्ते ॥ ६८॥

          Son, wife and friend – पुत्रः, कलत्रम्, मित्रम्।

    • hnbhat 10:14 pm on March 14, 2016 Permalink | Reply

      समौ संवसथग्रामौ

    • hnbhat 2:51 pm on March 17, 2016 Permalink | Reply

      ॥ भयलिङ्गभगपदानि नपुंसके॥ —-

      भयादयश्शब्दाः नपुंसकानि भवन्ति। यथा—-

      भयं। लिङ्गं। भगं। पदं।

      इति लिङ्गानुशासनात् लिङ्गशब्दः नपुंसके भवति।

  • Himanshu Pota 7:47 pm on March 13, 2016 Permalink | Reply  

    अवरुणध्मि (I Obstruct) 

    अहं व्यजनम् अवरुणध्मि। I stop the fan.
    रुध् धातुः सकर्मकः रुधादिगणीयः उभयपदी अनिट् धातुः अस्ति।
    धातुः सकर्मकः अथवा अकर्मकः तत् महत्त्वपूर्णम् अस्ति। किन्तु अनेकेषु धातुपाठेषु धातुः सकर्मकः अकर्मकः वा इति ज्ञापनं नास्ति। स्तुभ् भ्वादिगणीयः अकर्मकः आत्मनेपदी सेट् धातुः अस्ति। तस्मात् अहं स्तोभे इति I stop किन्तु अहं अवरुणध्मि इति I (make something) stop. स्तुभ् इति अकर्मकः अस्ति तस्मात् तस्य क्रियाफलं अन्यं न गच्छति कर्तरि एव भवति। अवरुध् इति सकर्मकः अस्ति तस्मात् क्रियाफलं कर्तारं गच्छति।

    २०१६-०३-१३ रविवासरः (2016-03-13 Sunday)

     
    • hnbhat 9:17 pm on March 14, 2016 Permalink | Reply

      Please see उपससर्गार्थवृत्तिचन्द्रिका .. अव–रुध्| The verb is द्विकर्मक.

      व्रजमवरुणद्धि गाम् = ‘he confines the cow to the fold.’ Here धेनुं and व्रजं are akathita or optional objects.

      This is the example in लघुसिद्धान्तकौमुदी.

      More examples will be found in उपसर्गार्थवृत्तिचन्द्रिका.

      अनो रुध कामे – अनुपूर्वको रुध् धातुः, इच्छार्थे दिवादौ पठ्यते। अनुरुध्यन्ति।

  • Himanshu Pota 11:30 am on March 12, 2016 Permalink | Reply  

    ११-१३मार्च२०१६-विश्वसांस्कृतिकसम्मेलनम् (11-13 March 2016 World Cultural Festival) 

    ह्यः श्रीश्रीरविशङ्करमहाभागेन आयोजितस्य विश्वसांस्कृतिकसम्मेलनस्य उद्घाटनम् अभवत्। नैके जनाः तत् सम्मेलनं विरुन्धन्ति। अपि ते हिन्दूसंस्कृतेः रिपवः सन्ति। न तथा। ते हिन्दूसंस्कृतेः रिपवः न सन्ति। ते तु केवलम् आक्रन्दन्ति अस्मिन् सम्मेलने अस्माकम् अंशः (commission) कुत्र अस्ति इति। ते सर्वे अंशभागिनः (दलाल, commission agents) सन्ति। तेषां कृते कस्य अपि वस्तुनः मूल्यं यावद् एव अस्ति तावद् ते तस्य वस्तुनः मूल्यस्य अंशं प्राप्तुं शक्नुवन्ति। अस्य विश्वसम्मेलनस्य ते कमपि अंशं प्राप्तुं न शक्नुवन्ति तस्मात् ते स्ववक्षं ताडयन्तः रुदन्ति।

    २०१६-०३-१२ शनिवासरः (2016-03-12 Saturday)

     
c
Compose new post
j
Next post/Next comment
k
Previous post/Previous comment
r
Reply
e
Edit
o
Show/Hide comments
t
Go to top
l
Go to login
h
Show/Hide help
shift + esc
Cancel