आनाय्य (Brought (sacred fire) near)

अथ पित्रा स संमन्त्र्य छलेनानाय्य धर्मजम्।
द्यूतमारब्ध शकुनिः क्षणादस्याहरद्धनम्॥भारतकथा ६०॥
आनाय्योऽनित्ये (३.१.१२७) – आनाय्यः इति निपात्यते अनित्येऽभिधेये। नयतेराङ्पूर्वाण् ण्यदायादेशौ निपात्येते। आनाय्यो दक्षिणाग्निः। इति काशिका। मन्ये अस्मिन् श्लोके आनाय्य इत्यस्य उपयोगः न सम्यगस्ति।
आनाय्य/ आनाय्यः आनाय्यः, पुं, (आनाय्यते गार्हपत्यादानीय संस्क्रियतेऽसौ आङ् + नी + ण्यत् .) दक्षिणाग्निः . इत्यमरः ..गार्हपत्यादग्नेरानीय यो दक्षिणाग्निरारोप्यते .तत्र . इति भरतः .. होम करिवार निमित्ते धरहैते आनिया दक्षिणदिके राखा आगन् इतिभाषा।

२०२३-०६-१२ सोमवासरः (२०२३-०६-१२ Monday)

उद्गालः (Hook)

पुरुषः – अहं जालोद्गालादिभिर्मत्स्यबन्धनोपायैः कुटुम्बभरणं करोमि। अभिज्ञानशाकुन्तले षष्ठोऽङ्कः।
गलँ अदने स्रवणे च (भ्वादिः परस्मैपदी सकर्मकः सेट् )

२०२३-०६-०५ सोमवासरः (२०२३-०६-०५ Monday)