अन्तिमः दिवसः (Last Day)

कालचक्रं द्रुतगत्या चलति। नववर्षः आगच्छति निमीलितम् एव वर्षः पूर्णत्वं गच्छति। जीवने नैकानि कार्याणि कर्तव्यानि किन्तु कुतः अवकाशः। बहुधा यानि कार्याणि वयं कुर्मः तेषु किमपि फलं न प्राप्नुमः विपरीतं फलं वा प्राप्नुमः। सर्वं दृष्ट्वा अनुभवामि यत् कर्तव्यं तत् करणीयं इत्यैव कर्मणः सारः। भवतः सर्वान् मम शुभाशयाः आगामिवर्षे २०१६तमेवर्षे स्वकर्तव्यं मनसि निधाय कार्यं कुर्वन्तु इति।

२०१५-१२-३१ गुरुवासरः (2015-12-31 Thursday)

लत्वम् (The la process)

रो लः कदा कदा भवति तत् अष्टाध्याय्याम् एकेस्मिन् एव स्थाने स्थापितम् अस्ति। पश्यतु
कृपो रो लः॥८.२.१८॥ कृप् तुमुँन् -> कल्पितुम्
उपसर्गस्यायतौ॥८.२.१९॥ परा अय् तुमुँन् -> पलायितुम्
ग्रो यङि॥८.२.२०॥ निजेगिल्यते
अचि विभाषा॥८.२.२१॥ गिलति/गिरति
परेश्च घाङ्कयोः॥८.२.२२॥ परिघः/पलिघः, पर्यङ्कः/पल्यङ्कः, परियोगः/पलियोगः

२०१५-१२-३० बुधवासरः (2015-12-30 Wednesday)

Seeking Suggestions from the Public/Sanskrit Fraternity

The committee appointed by the Ministry of Human Resources Development (MHRD), New Delhi, headed by Sri N. Gopalaswamy seeks suggestions from the pubic and Sanskrit fraternity for the development of the Sanskrit language in terms of Action Plan. (What to do? How to to? Who should do?). Suggestions can be mailed to the Convener of the committee – Prof. P. N. Shastry, Vice Chancellor, Rashtriya Sanskrit Samsthan, New Delhi, E mail: pnshastry1952@gmail.com.

Suggestions should reach the commission on or before 5th January 2016.

ल्युटि इडागमः (iT with lyuT)

ल्युट्
ल्युट्-प्रत्ययः आर्धातुकः प्रत्ययः अस्ति। आर्धधातुके प्रत्यये प्रथमे इडागमव्यवस्था शोचनीया। प्रत्ययानाम् इडागमनाय सूत्रत्रयं महत्वपूर्णं सन्ति (नेड्‌ वशि कृति (७.२.८), तितुत्रतथसिसुसरकसेषु च (७.२.९), आर्धधातुकस्येड्वलादेः (७.२.३५))।
अनुबन्धः विहाय ल्युट्-प्रत्ययस्य यु इति अवशिष्यते। यु इति वलादिः नास्ति तस्मात् जानीमः ल्युटि इडागमः न भविष्यति। तत् परं यु इत्यस्य अन इति आदेशः भवति। ल्युटि अजन्तधातूनां अजन्तस्य गुणादेशः भवति तत् परम् अव् अय् वा आदेशः भवति। ल्युटि गुणादेशपरं सर्वे धातवः हलन्ताः भवन्ति तथा हल् इति परम् अ इति अस्ति तस्मात् ल्युटि किमपि सन्धिकार्यं न अर्हति। संक्षेपे ल्युटि गुणादेशः इति मुख्यकार्यम् अस्ति। तत् विहाय कानिचित् विशेषकार्याणि सन्ति किन्तु तानि बहूनि न सन्ति।

कथनम्
कथ वाक्यप्रबन्धे वाक्यप्रबन्धने [१८६१] चुरादिः उभयपदी सेट्
कथ णिच् (सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् (३.१.२५))
कथ इ (आदिर्ञिटुडवः (१.३.५), तस्य लोपः (१.३.९))
कथ् इ (अतो लोपः (६.४.४८))
कथ् इ ल्युट् (ल्युट् च (३.३.११५))
कथ् इ यु (लशक्वतद्धिते (१.३.८), हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
कथ् इ अन (युवोरनाकौ (७.१.१))
कथन (णेरनिटि (६.४.५१))
कथन सुँ (स्वौजसमौट्छष्टाभ्यांभिस्ङेभ्याम्भ्यस्ङसिभ्यांभ्यस्ङसोसाम्ङ्योस्सुप् (४.१.२))
कथनम् (अतोऽम् (७.१.२४))

२०१५-१२-२९ मङ्गलवासरः (2015-12-29 Tuesday)

ल्युट् प्रत्ययः (lyuT suffix)

भैमीव्याख्यायां कृदन्तप्रकरणे अत्युपयोगिनां धातूनां ल्युट्-रूपाणि सन्ति (पृष्ठाः – २३६-२४१)।
मह्यम् उद्यानगमनं रोचते। नित्यम् अध्ययनं कर्तव्यम्। भवतः आगमनं कदा भविष्यति।

१. अर्जनम्
अर्जँ अर्जने [७३०] भ्वादिः परस्मैपदी सेट्
अर्ज् (उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९))
अर्ज् ल्युट् (ल्युट् च (३.३.११५))
अर्ज् यु (लशक्वतद्धिते (१.३.८), हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
अर्ज् अन (युवोरनाकौ (७.१.१))
अर्ज् अन सुँ (स्वौजसमौट्छष्टाभ्यांभिस्ङेभ्याम्भ्यस्ङसिभ्यांभ्यस्ङसोसाम्ङ्योस्सुप् (४.१.२))
अर्जनम् (अतोऽम् (७.१.२४))

२. भवनम्
भू सत्तायाम् [२५] भ्वादिः परस्मैपदी सेट्
भू ल्युट् (ल्युट् च (३.३.११५))
भू यु (लशक्वतद्धिते (१.३.८), हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
भू अन (युवोरनाकौ (७.१.१))
भो अन (सार्वधातुकार्द्धधातुकयोः (७.३.८४))
भवन (एचोऽयवायावः (६.१.७८))
भवन सुँ (स्वौजसमौट्छष्टाभ्यांभिस्ङेभ्याम्भ्यस्ङसिभ्यांभ्यस्ङसोसाम्ङ्योस्सुप् (४.१.२))
भवनम् (अतोऽम् (७.१.२४))

३. भोजनम्
भु॒जँ पालनाभ्यवहारयोः [१४५५]रुधादिः परस्मैपदी अनिट्
भुज् (उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९))
भुज् ल्युट् (ल्युट् च (३.३.११५))
भुज् यु (लशक्वतद्धिते (१.३.८), हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
भुज् अन (युवोरनाकौ (७.१.१))
भोजन (पुगन्तलघूपधस्य च (७.३.८६))
भोजन सुँ (स्वौजसमौट्छष्टाभ्यांभिस्ङेभ्याम्भ्यस्ङसिभ्यांभ्यस्ङसोसाम्ङ्योस्सुप् (४.१.२))
भोजनम् (अतोऽम् (७.१.२४))

ल्युटि केवलः गुणादेशः भवति तस्मात् ल्युट्-रूपाणि सरलानि सन्ति। भैमीव्याख्यायां प्रदत्तेषु ल्युट्-रूपेषु केवलः अधः लिखितेषु रूपेषु विशेषकार्याणि सन्ति।
अय् + ल्युट् + सुँ = पलायनम् (उपसर्गस्यायतौ)
कृप् + ल्युट् + सुँ = कप्लनम्
गुप् + ल्युट् + सुँ = गोपायनम् गोपनम् वा (गुपूँ-धूप-विच्छि-पणि-पनिभ्य आयः)
गुह् + ल्युट् + सुँ = गूहनम् (ऊदुपधाया गोह)
गै + ल्युट् + सुँ = गानम् (आदेच उपदेशेऽशिति)
ग्लै + ल्युट् + सुँ = ग्लानम् (आदेच उपदेशेऽशिति)
त्रै + ल्युट् + सुँ = त्राणम् (आदेच उपदेशेऽशिति)
ब्रू + ल्युट् + सुँ = वचनम् (ब्रुवो वचिः)
मस्ज् + ल्युट् + सुँ = निमज्जनम्
मुर्छ् + ल्युट् + सुँ = मूर्च्छनम् (उपधायां च, अचो रहाभ्यां द्वे)
मृज् + ल्युट् + सुँ = मार्जनम् (मृजेर्वृद्धिः)
रभ् + ल्युट् + सुँ = आरम्भणम् (रभेरशब्लिँटोः)
लभ् + ल्युट् + सुँ = लम्भनम् (लभेश्च)
वे + ल्युट् + सुँ = वानम् (आदेच उपदेशेऽशिति)

२०१५-१२-२८ सोमवासरः (2015-12-28 Monday)

माता चिकित्सालयात् प्रत्यागमिष्यति (Mother will come back from the hospital)

मम माता गतषोडशभ्यः दिवसेभ्यः चिकित्सालये आसीत्। मन्ये अद्य सा गृहं प्रत्यागमिष्यति।

२०१५-१२-२७ रविवासरः (2015-12-27 Sunday)

चुरादिगणेभ्यः ल्युटि

कथ + ल्युट् + सुँ = कथनम्
अत्र कथं चुरादिगणेभ्यः ल्युटि इति अस्मात् णेर्लोपः भवति?
णेर्लोपाय चत्वारि सूत्राणि सन्ति –
णेरनिटि ॥६.४.५१॥
निष्ठायां सेटि ॥६.४.५२॥
जनिता मन्त्रे ॥६.४.५३॥
शमिता यज्ञे ॥६.४.५४॥
किन्तु एतेषु चतुर्षु सूत्रेषु चुरादिगणेभ्यः ल्युटि णेर्लोपः इति न पश्यामि। कथं लोपः? कृपया अवबोधयतु।