उड्डयनप्रदर्शनम् (Flypast)

ओस्ट्रेलियादेशस्य वायुसेना शतवार्षिकाभवत्। तस्याद्योत्सवोऽसीत्। तद्द्रष्टुमहमगच्छम्। सरोवरस्य तट उपविशन्नहं विमानानां वियति क्रीडामपश्यम्। प्रदर्शनं यावदूहितं तावन्नाकर्षकमासीत् किन्तु वातावरणं सुखकरमासीत्। मनसो देहस्य च आनन्दः प्राप्तोऽद्य मया।
https://www.abc.net.au/news/2021-03-31/100-year-anniversary-royal-australian-air-force-marked-flyover/100040006

२०२१-०३-३१ बुधवासरः (2021-03-31 Wednesday)

जयतु नितिनः (May Nitin Gadkari Rise to the Top)

श्रोतव्यं नितिनस्य एषः संवादः। गर्विताः वयं अस्माभिः प्राप्तः नितिनः। प्रार्थे भारतीयाः सर्वान् परस्परान् व्यतिरेकान् त्यक्त्वा धैर्येण विकासकार्याणि पश्यन्तु। भवन्तोऽस्य प्रशासनस्य समर्थनं कुर्वन्ति वा न कुर्वन्ति इति भवतामीच्छास्ति किन्तु विकासकार्यस्य समर्थनं कुर्युः।

२०२१-०३-३० मङ्गलवासरः (2021-03-30 Tuesday)

क्लान्तः आसीः (You were tired)

अपि देव रघुकुलानन्द एवं मम कारणात् क्लान्त आसीः। उत्तररामचरित्रं चित्रदर्शन् नाम प्रथमेऽङ्के।
आसीः असँ भुवि लङ्लकारः मध्यमपुरुषः एकवचनम्।
आ + अस् + सिप् = आसीः, अत्र सिप् इत्यस्य इकारस्य इतश्च (३.४.१००) इत्यनेन सूत्रेण लोपः भवति। अस्तिसिचोऽपृक्ते (७.३.९६) सूत्रेण ईट् आगमः। अनेनैव आसीत् अकार्षीत्।

२०२१-०३-२८ रविवासरः (2021-03-28 Sunday)

जयतु भारतीयभाषां वदन् नरेन्द्रमोदी (May the Indian Language Speaking Modi Rise)

यावद् मोदी भारतीयभाषया लोकैः सह संवदिष्यति तावत् निर्वाचनानि जेष्यति। प्रसन्नोऽस्मि बाङ्गलादेशे ह्यः स एकया भारतीयभाषया समवदत्।

२०२१-०३-२७ शनिवासरः (2021-03-27 Saturday)

अतो लोपः (६.४.४८) (a disappears (if followed by ardhadhaatuka suffix))

विहाय कामन्यः सर्वान्पुमांश्चरति निस्पृहः।
निर्ममो निरहङ्कारः स शान्तिमघिगच्छति॥गीता २.७१॥
स्पृह ईप्सायाम् + घञ् भावे कर्तरि कारके च संज्ञायम् + सुँ = स्पृहः। अत्र अतो लोपः (६.४.४८) इति सूत्रेण स्पृह इत्यस्य अन्तस्य अतः लोपो भवति। लोपे सति पुगन्तलघूपधस्य इति सूत्रेण कथं स्पृह इत्यस्य ऋकारस्य गुणः न भवति इति न जाने।
वि ओँहाक् त्यागे ल्यप् = विहाय।

२०२१-०३-२६ शुक्रवासरः (2021-03-26 Friday)

अहो आनन्दः (Oh Joy)

सत्यमान्यतास्ति अहं संस्कृतं न जानामि इति। सत्यं स्वीकरोमि तथापि यमानन्दं मह्यं संस्कृतं यदा कदा ददाति तेन मोदे। मन्ये तस्मिन् मोदने न कोऽपि दोषः। संस्कृतज्ञेभ्यः क्षमां याचे।
अन्ते अकर्तरि कारके च सञ्ज्ञायम् इत्यस्य अर्थं बोधामि। अहो आनन्दः।

घञि भावे अकर्तरि च भवति। किं भावे? त्यागः। किं अकर्तरि? पठति तं पाठः।
भावे (३.१.१८) – सिद्धावस्थापन्ने धात्वर्थे वाच्ये धातोर्घञ् स्यात्
अकर्तरि च कारके संज्ञायाम् (३.३.१९) – प्रसीव्यन्ति तं प्रसेवः।
घञन्ताः पुमान्।
(३५) पुमान् पुंलिङ्गाधिकारः – पणिनीयलिङ्गानुशासनम्
(३६) घञबन्तः
घञि घ् ञ् इति इत्सञ्ज्ञकौ स्तः। तस्य लोपः। अ इत्येव अवशिष्यते।
विदँ ज्ञाने घञ् सुँ = वेदः पुगन्तलघूपधस्य च (७.३.८६) येन वेत्ति सः वेदः।
डुलभँष् प्राप्तौ घञ् सुँ = लाभः अत उपधायाः (७.२.११६) यं लभते सः लाभः।
भू  सत्तायाम् घञ् सुँ = भावः अचो ञ्णिति (७.२.११५) यद्भवति सः भावः।
त्यजँ हानौ घञ् सुँ = त्यागः चजोः कु घिण्ण्यतोः (७.३.५२) यत्त्यजति सः त्यागः।

२०२१-०३-२५ गुरुवासरः (2021-03-25 Thursday)

अभ्यासो न हि त्यक्तव्यः (Practice should not be abandoned)

अर्हे कृत्यतृचश्च (३.३.१६९) – अर्हतीति अर्हः तद्योग्यः। अर्हे कर्तरि वाच्ये गम्यमाने वा धातोः कृत्यतृचः प्रत्ययाः भवति, चकाराल् लिङ् च। इति काशिका।
ये प्रत्ययाः तव्यत्तव्यानीयरः (३.१६) इति सूत्रात् ण्वुल्तृचौ (३.१.१३३) इति सूत्रात् पूर्वमादिष्टाः सन्ति तेषां कृत्यः इति संज्ञा भवति। तव्यत् इति कृत्यः प्रत्ययः तस्मात् अर्हति इति अर्थे भवति। यथा न त्यक्तव्यः इति त्यागं न कर्तुमर्हति त्यागं न युक्तम्।

२०२१-०३-२४ बुधवासरः (2021-03-24 Wednesday)

आपदाम् आपतन्तीनाम् (Of the falling troubles)

आ पतॢँ गतौ शतृ = आपतत् इति (लटः शतृशानचावप्रथमासमानाधिकरणे (३.२.१२४))
आपतत् ङीप् = आपतती इति उगितश्च (४.१.६) सूत्रेण। अतः ऊर्ध्वं शप्श्यनोर्नित्यम् (७.१.८१) इति सूत्रेण नुम् आगमः भवति तस्मात् आपन्ती इति स्त्रीलिङ्गं प्रातिपदिकम्। तस्य षष्ठ्यन्तं रूपम् आपतन्तीनाम् इति।

२०२१-०३-२३ मङ्गलवासरः (2021-03-23 Tuesday)

पठतु किङ्करोति मोदी (Please read what Modi is doing)



त्रिकोटिः नूतनजलप्रणालिकाः मोदिप्रशासनेन स्थापिता गतवर्ष एव। त्रिकोटिः इति किम्? त्रिकोटिः इति तति प्रणालिकाः सन्ति यति स्वतन्त्रतायाः प्रभृतिः प्रशासनेन स्थापिताः प्रणालिकाः सन्ति। कल्पनां करोतु एकस्मिन् वर्षे यत् कार्यमभवत् गतसप्ततिवर्षेषु कार्यमभवत्।
न इदमहमैव ब्रवीमि किन्तु सा पत्रिका या सोनियाप्रियङ्काराहुलानां पादकासु तिष्ठन् प्रकाशनं करोति सा पत्रिका लिखति।
यत् मोदिरूपेण रत्नं भारतेन प्राप्तं तस्य तिरस्कारं मा करोतु। न शीघ्रमायाति द्वितीयः मोदी।

Given the disruption caused by the Covid pandemic, there were doubts about the Jal Shakti ministry’s ability to meet its targets. Despite the odds, over 30 million new households have been provided with tap water during this period, equal to the number of households provided with taps since Independence. The Modi government achieved this by providing massive funding, Rs 3.6 lakh crore, and backing it with mission mode management and technology to monitor progress. What’s more, state governments are encouraging community participation in the operation and maintenance of water supply to their homes in the form of Pani Samitis. The Centre and states are also focusing on ensuring sustainability of water supply and quality rather than treating it as a one-shot affair. The most important outcome of these efforts is that women, who bore the brunt of the task of fetching water for households, wasting precious time, are being freed from that drudgery. This in itself will prove emancipating. Apart from ease of living, there is a clear link between socioeconomic development and water availability.

२०२१-०३-२२ सोमवासरः (2021-03-22 Monday)