Updates from December, 2018 Toggle Comment Threads | Keyboard Shortcuts

  • Himanshu Pota 10:22 am on December 31, 2018 Permalink | Reply  

    मातुः स्मरति (Remembers of mother) 

    अधीगर्थदयेशां कर्मणि॥२.३.५२॥
    अनेन सूत्रेण मातुः स्मरति इति वाक्ये मातुः इति षष्ठीविभक्तौ अस्ति। किन्तु ईश्वरचन्द्रः लिखति कर्म की विवक्षा न होने पर ही प्रकृत सूत्र में कहे गये धातुं के कर्म में षष्ठी होती है। विवक्षा की दशा में द्वितीया होती है। यथा – मातरं स्मरति।
    कर्म की विवक्षा इति सम्यग् न बोधामि।

    २०१८-१२-३१ सोमवासरः (2018-12-31 Monday)

    Advertisements
     
    • 4qafk3m8 2:30 pm on January 1, 2019 Permalink | Reply

      “कर्म की विवक्षा” का अर्थ है कि वाक्य में माता कर्म के रूप में है। माता कर्म के रूप में कब होगी? जब माता “अभीष्ट” वस्तु है – मतलब माता desired वस्तु है। अतः ‘माता को याद करता है।” – इस वाक्य में माता कर्म है क्योंकि स्मरण क्रिया का उद्देश्य माता है – अतः “मातरं स्मरति” रूप सिद्ध होता है। ‘माता का स्मरण करता है। (मातुः स्मरति।)’ इस वाक्य में माता कर्म नहीं है क्योंकि माता और स्मरण का केवल समबन्ध है, माता अभीष्ट वस्तु नहीं है (इसलिये उसका कर्मत्वम् नहीं है या यहाँ पर कर्म की विवक्षा नहीं है)। अतः षष्ठी का प्रयोग होता है।

    • Srinivasa 4:44 pm on January 1, 2019 Permalink | Reply

      वस्तुतः पठित धातुओं के कर्म कारक में शेष विवक्षित होने पर षष्ठी विभक्ति होती है । (देखें प्रथमावृत्ति) । यहाँ षष्ठी शेषे (२।३।५०) का प्रभाव है ।

    • Himanshu Pota 1:14 am on January 2, 2019 Permalink | Reply

      धन्यवादः। मन्ये भवतोः विशदीकरणात् बोधनस्य आरम्भः अभवत्। परं चिन्तयामि बोधनं सम्यग् करिष्यामि च।

  • Himanshu Pota 11:35 pm on December 30, 2018 Permalink | Reply  

    सः गम्यमानः दृश्यते (He who is going is seen) 

    गम्यमानः = गम् + यक् + शानच् + सुँ
    तेन सः गम्यमानः दृश्यते। उसके द्वारा वह जाने वाल देखा जा रहा है। By him is seen he who is going.
    अपि अयम् अनुवादः सम्यग् अस्ति?

    २०१८-१२-३० रविवासरः (2018-12-30 Sunday)

     
    • hnbhat 1:36 am on January 1, 2019 Permalink | Reply

      Wrong structure. गम्लृ धातु is parasmaipada and cannot take शानच्! In passive voice it can take शानच् but the meaning will be “he is gone by some agent. Means he is not able to go by himself and he is carried by some body. !!

    • 4qafk3m8 7:39 am on January 1, 2019 Permalink | Reply

      भटवर्येण युक्तमुक्तम्। निम्नस्थमुदाहरणं समीचीनतरम् –

      गम्यमानः मार्गः सुन्दरः दृश्यते। (The road being traveled appears beautiful.)

    • Himanshu Pota 9:57 am on January 1, 2019 Permalink | Reply

      क्षम्यताम्। यत् भट्टमहाभागेन उक्तं तत् न बोधामि। गम्यमानः इति न णिचि तस्मात् कथं कोऽपि अन्यः तं उद्वहति?
      गम्यमानः मार्गः सुन्दरः दृश्यते इति समीचीनतरम् उदाहरणम् अस्ति इति स्वीकरोमि। धन्यवादः।

  • Himanshu Pota 1:33 pm on December 29, 2018 Permalink | Reply  

    चिकीर्षति (Wishes to do) 

    तदत्र दयानिधेरनन्ततेजसस्तेऽयं जनः काञ्चिदाज्ञा चिकीर्षति। सप्तमोच्छ्वासः दशकुमारचरितं महाकविदण्डिना विरचितम्।
    चिकीर्षति – लट्लकारः परस्मैपदी प्रथमपुरुषः एकवचनम्
    डुकृञ् करणे तनादि: उभयपदी अनिट् सकर्मकः ड्वित् ञित्
    कृ (आदिर्ञिटुडवः (१.३.५), हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
    कृ सन् (धातोः कर्मणः समानकर्तृकादिच्छायां वा (३.१.७))
    कृ स (हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
    कृ स लट् (वर्तमाने लट् (३.२.१२३))
    कृ स ल् (उपदेशेऽजनुनासिक इत् (१.३.२), हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
    कृ स तिप् (तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् (३.४.७८))
    कृ स ति (हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
    कृ कृ स ति (सन्यङोः (६.१.९), एकचो द्वे प्रथमस्य (६.१.१))
    कर् कृ स ति (उरत् (७.४.६६))
    क कृ स ति (हलादिः शेषः (७.४.६०))
    क कॄ स ति (अज्झनगमां सनि (६.४.१६))
    क किर् स ति (ॠत इद्धातोः (७.१.१००), उरण् रपरः (१.१.५१))
    क कीर् स ति (हलि च (८.२.७७))
    च कीर् स ति (कुहोश्चुः (७.४.६२))
    चि कीर् स ति (सन्यतः (७.४.७९))
    चिकीर्षति (हलन्ताच्च (१.२.१०), आदेशप्रत्यययोः (८.३.५७))

    २०१८-१२-२९ शनिवासरः (2018-12-29 Saturday)

     
  • Himanshu Pota 6:57 pm on December 28, 2018 Permalink | Reply  

    सिष्णासामि (Want to take bath) 

    यद्यपि नद्यां निस्नातोस्मि तथाप्यस्यां सरस्यां सिष्णासामि। यद्यपि मैं नदी में खूब नहा चुका हूँ तथापि इस झील में स्नान करना चाहता हूँ। वाक्य १४ – वाक्यमुक्तावली, चारुदेव शास्त्रि, १९५४.
    सिष्णासामि – लट्लकारः परस्मैपदी उत्तमपुरुषः एकवचनम्
    स्ना [ ष्णा शौचे १०५२ ] अदादि: परस्मैपदी अनिट् अकर्मकः षोपदेशः
    स्ना (धात्वादेः षः सः (६.१.६४))
    स्ना सन् (धातोः कर्मणः समानकर्तृकादिच्छायां वा (३.१.७))
    स्ना स (हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
    स्ना स लट् (वर्तमाने लट् (३.२.१२३))
    स्ना स ल् (उपदेशेऽजनुनासिक इत् (१.३.२), हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
    स्ना स मिप् (तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् (३.४.७८))
    स्ना स मि (हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
    स्ना सामि (अतो दीर्घो यञि (७.३.१०१))
    स्ना स्ना सामि (सन्यङोः (६.१.९), एकचो द्वे प्रथमस्य (६.१.१))
    सा स्ना सामि (हलादिः शेषः (७.४.६०))
    स स्ना सामि (ह्रस्वः (७.४.५९))
    सि स्ना सामि (सन्यतः (७.४.७९))
    सिष्णासामि (आदेशप्रत्यययोः (८.३.५७), रषाभ्यां नो णः समानपदे (८.४.१))

    २०१८-१२-२८ शुक्रवासरः (2018-12-28 Friday)

     
    • 4qafk3m8 6:57 am on December 29, 2018 Permalink | Reply

      अत्र किमपि न विशेषम्। एतादृशानि रूपाणि ‘सन्नन्त’ नाम्नोच्यन्ते भवता ज्ञायते वा नाहं जानामि। प्रायः सर्वेषां धातूनां सन्नन्तरूपाणि भवितुमर्हन्ति। कानिचनोदाहरणानि –
      जिगमिषति (wants to go)
      युयुत्सति (wants to fight)
      दित्सति (wants to give)
      पिपठिषति (wants to read)
      चिखादिषति (wants to eat)

    • Himanshu Pota 12:54 pm on December 29, 2018 Permalink | Reply

      जानामि किन्तु स्मरणाय सिद्धिः लाभकरा भवति इति तस्मात् सिद्धिं चिकीर्षामि।

  • Himanshu Pota 2:32 pm on December 27, 2018 Permalink | Reply  

    पञ्चषाः (Five or six) 

    शूराः सन्ति सहस्रशः प्रतिपदं विद्याविदोऽनेकशः
    सन्ति श्रीपतयोऽप्यपास्तधनदास्तेऽपि क्षितौ भूरिशः।
    किन्त्वाकर्ण्य निरीक्ष्य चान्यमनुजं दुःखार्दितं
    यन्मनस्ताद्रूप्यं प्रतिपद्यते जगति ते सत्पुरुषाः पञ्चषाः॥
    अपास्त thrown off (dethroned), धनदाः Kuber, क्षितौ on the earth
    यन्मनस्ताद्रूप्यं प्रतिपद्यते – whose heart has become in that form
    पञ्चषाः – five or six
    पञ्चषाः इति केन सूत्रेण अस्ति जानाति चेत् सूचयतु।

    २०१८-१२-२७ गुरुवासरः (2018-12-27 Thursday)

     
    • Harmander Singh 8:40 pm on December 27, 2018 Permalink | Reply

      maybe this is what you needed (got it from https://sites.google.com/site/samskritavyakaranam/12—vyAvahArikii-shikShikA/pancasapancasad)

      पञ्चषाः इत्यनेन ‘पञ्च वा षड् वा’ इत्यर्थे बहुव्रीहिसमासः | अत्र ‘वा’ इत्यस्य संशयार्थः |
      पञ्चन्‌, षष् इति प्रातिपदिकद्वयं नित्यं बहुवचनान्तम्‌ | तदर्थं प्रथमाविभक्तौ सु-औ-जस्‌ इत्येषु बहुवचनार्थे जस्‌ इत्येव विधीयते |
      पञ्चन्‌ जस्‌ + षष् जस्‌ इति अलौकिकविग्रहः |
      पञ्चन्‌-शब्दः नकारान्त-सङ्ख्यावाचकः | षष्-शब्दः षकारान्त-सङ्ख्यावाचकः |
      ष्णान्ता षट्‌ (१.१.२४) इत्यनेन षान्तानां नान्तानां च सङ्ख्यावाचकानां षट्‌-संज्ञा भवति |
      पञ्चन्‌ इत्यस्य नान्तसङ्ख्यावाचकत्वात्‌ षट्‌-संज्ञा; षष्‌ इत्यस्य षान्तसङ्ख्यावाचकत्वात्‌ षट्‌-संज्ञा |
      षट्‌-संज्ञायां षड्भ्यो लुक्‌ (७.१.२२) इत्यनेन षड्भ्यः परयोः जस्‌-शसोः लुक्‌ स्यात्‌ |
      तस्मात्‌ पञ्चन्‌, षष्‌ इति उभयोः जसः लुक्‌ भवति | पञ्चन्‌ जस्‌ + षष् जस्‌ → पञ्चन्‌ + षष् |
      प्रत्ययलक्षणे सुप्तिङन्तं पदम्‌ (१.४.१४) इत्यनेन पञ्चन्‌ इत्यस्य पद-संज्ञा; नलोपः प्रातिपदिकान्तस्य (८.२.७) इत्यनेन नकारलोपः, पञ्च इत्येव अवशिष्यते |
      तदा पञ्च + षष् → सङ्ख्ययाव्ययासन्नादूराधिकसङ्ख्याः सङ्ख्येये (२.२.२५) इत्यनेन सूत्रेण बहुव्रीहिसमासः → पञ्चषष् |
      बहुव्रीहौ कृते बहुव्रीहौ सङ्ख्येये डजबहुगणात् (५.४.७३) इत्यनेन सङ्ख्येयबहुव्रीहिसमासात् डच्-प्रत्ययो विधीयते |
      पञ्चषष् + डच् इत्यस्यां स्थित्यां हलन्त्यम्‌ (१.३.३), चुटू (१.३.७) इत्याभ्यां डच्-प्रत्ययस्य डकारचकारयोः इत्-संज्ञा |
      तस्य लोपः (१.३.९) इत्यनेन इत्-संज्ञकयोः डकारचकारयोः लोपः | पञ्चषष् + डच् → पञ्चषष् + अ |
      पञ्चषष् + अ → डच्-प्रत्ययस्य डित्त्वात्‌ परत्वात् च टेः (६.४.१४३) इत्यनेन, पञ्चषष् इत्यस्य ‘अष्‌’ इति टि-भागस्य लोपः → पञ्चष् + अ → पञ्चष
      अनेन पञ्चष इति अकारान्तं प्रातिपदिकसंज्ञकं समस्तपदं निष्पन्नं भवति |
      पञ्चष इत्यस्मिन्‌ बहुत्वम्‌ अतः बहुवचनार्थे जस्‌ इत्येव विधीयते | पञ्चष + जस्‌ → पञ्चषाः |
      एवं प्रातिपदिकसंज्ञकात् समस्तपदात् विभक्तिविहिते पुंलिङ्गे पञ्चषाः, स्त्रियां पञ्चषाः, नपुंसकलिङ्गे पञ्चषाणि इति रूपाणि |

      • Himanshu Pota 10:47 pm on December 27, 2018 Permalink | Reply

        धन्यवादः। Thanks, this is the site maintained by Swarup bhai. Every page on this website is full of useful information and clarification on sutras. Swarup bhai is a gem. He runs about 3 – 4 online classes every week. People from all over the world can join his classes. Thanks again. He is a student of Mataji Dr Pushpa Dikshit.

    • hnbhat 11:33 am on December 28, 2018 Permalink | Reply

      एवमेव द्वौ वा त्रयो वा द्वित्राः: त्रयो वा चत्वारो वा त्रिचतुराः!

  • Himanshu Pota 10:39 pm on December 26, 2018 Permalink | Reply  

    रुदादिभ्यः सार्वधातुके॥७.२.७६॥ (In the group rud, etc., when saarvadhaatuka is there) 

    स्वप्  ञिष्वपँ शये अदादि: परस्मैपदी अनिट् अकर्मकः रुदादिः षोपदेशः ञीत् अदित्। 
    रुदादिभ्यः सार्वधातुके॥७.२.७६॥ अनुवृत्त्या सह सूत्रम् अस्ति रुदादिभ्यः सार्वधातुके। इट् वलादेः इति।
    स्वपिति स्वपितः स्वपन्ति
    स्वपिषि स्वपिथः स्वपिथ
    स्वपिमि स्वपिवः स्वपिमः
    स्वपितु स्वपिताम् स्वपन्तु
    स्वपिहि स्वपितम् स्वपित
    स्वपानि स्वपाव स्वपाम
    रुदश्च पञ्चभ्यः॥७.३.९८॥ अनुवृत्त्या सह सूत्रम् अस्ति रुदः च पञ्चभ्यः ईट् अपृक्ते सार्वधातुके।
    अड् गार्ग्यगालवयोः॥७.३.९९॥ अनुवृत्त्या सह सूत्रम् अस्ति अट् गार्ग्यगालवयोः रुदः च पञ्चभ्यः अपृक्ते सार्वधातुके।
    अस्वपत्/अस्वपीत् अस्वपिताम् अस्वपन्
    अस्वपः/अस्वपीः अस्वपितम् अस्वपित
    अस्वपम् अस्वपिव अस्वपिम

    २०१८-१२-२६ बुधवासरः (2018-12-26 Wednesday)

     
  • Himanshu Pota 2:31 pm on December 25, 2018 Permalink | Reply  

    ईयुषः (of who has gone) 

    इति विचिन्त्य स जातु मिमङ्क्षया बहुजलां सरितं समुपाययौ ।
    जलमगाहत तत्र समग्रहीत् जलचरश्चरणे जलमीयुषः॥श्रीमाधवीयश्रीशङ्करदिग्विजयसारः ५-६१॥
    मिमङ्क्षया – desirous to take a bath
    Having thought this, desirous of taking a bath he went to a river with a lot of water. Of him who went and dived in the water, there a water creature (crocodile) from the leg in the water.
    ईयुषः – पुँल्लिङ्गः षष्ठिविभक्तिः एकवचनम्
    इ॒ण् गतौ [१०२५] अदादिः परस्मैपदी अनिट् सकर्मकः णित्
    इण् (भूवादयो धातवः (१.३.१))
    इ (हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
    इ लिँट् ( लः कर्मणि च भावे चाकर्मकेभ्यः (३.४.६९), परोक्षे लिट् (३.२.११५))
    इ ल् (उपदेशेऽजनुनासिक इत् (१.३.२), हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
    इ क्वसुँ (क्वसुश्च (३.२.१०७))
    इ वस् (लशक्वतद्धिते (१.३.८), उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९))
    इ इ वस् (लिटि धातोरनभ्यासस्य (६.१.८), एकचो द्वे प्रथमस्य (६.१.१))
    ई इ वस् (दीर्घ इणः किति (७.४.६९))
    ई इ इ वस् (वस्वेकाजाद्घसाम् (७.२.६७))
    ई य् इ वस् (इणो यण् (६.४.८१))
    ईयिवस् ङस् (कृत्तद्धितसमासाश्च (१.२.४६), स्वौजसमौट्छष्टाभ्यांभिस्ङेभ्याम्भ्यस्ङसिभ्यांभ्यस्ङसोसाम्ङ्योस्सुप् (४.१.२))
    ईयिवस् अस् (लशक्वतद्धिते (१.३.८), तस्य लोपः (१.३.९))
    ईय् इ उ अ स् अस् (वसोः सम्प्रसारणम्‌ (६.४.१३१))
    ईय् इ उ स् अस् (सम्प्रसारणाच्च (६.१.१०८))
    ईय् उ स् अस् – अकृतव्यूहाः पाणिनीयाः भैमीव्याख्याप्रथमभागः पृ ४६७
    ईय् उ स् अः (ससजुषो रुः (८.२.६६), उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९), खरवसानयोर्विसर्जनीयः (८.३.१५))
    ईयुषः (आदेशप्रत्यययोः (८.३.५७))

    २०१८-१२-२५ मङ्गलवासरः (2018-12-25 Tuesday)

     
    • 4qafk3m8 9:05 am on December 26, 2018 Permalink | Reply

      ‘मिमङ्क्षया’ इति पदे तृतीया विभक्तिरस्ति। ‘मिमङ्क्षा’ इति प्रातिपदिकम्। एतत् प्रातिपदिकं ‘मस्ज्’ इति धातोर्निष्पन्नम्। सामान्यतः ‘मज्जति’ इत्यस्यार्थः ‘to dip / sink’ अस्ति। अत्र स नदीं ‘dip/bath’ इच्छया गतः – इत्याभिप्रेतः।

    • Himanshu Pota 10:37 pm on December 26, 2018 Permalink | Reply

      धन्यवादः।

  • Himanshu Pota 11:44 am on December 24, 2018 Permalink | Reply  

    विजिहासति (wishes to leave) 

    मम न मानसमिच्छति संसृतिं न च पुनर्जननी विजिहासति ।
    न च गुरुर्जननी तदुदीक्षते तदनुशासनमीषदपेक्षितम्॥५-६० श्रीमाधवीयश्रीशङ्करदिग्विजयसारः॥

    विजिहासति – लट्लकारः परस्मैपदी प्रथमपुरुषः एकवचनम्
    ओँहा॒क् त्यागे [१०९०] जुहोत्यादिः परस्मैपदी अनिट्
    वि हा (उपदेशेऽजनुनासिक इत् (१.३.२), हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
    वि हा सन् (धातोः कर्मणः समानकर्तृकादिच्छायां वा (३.१.७))
    वि हा स (हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
    वि हा स लट् (वर्तमाने लट् (३.२.१२३))
    वि हा स ल् (उपदेशेऽजनुनासिक इत् (१.३.२), हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
    वि हा स तिप् (तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् (३.४.७८))
    वि हा स ति (हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
    वि हा स हा स ति (सन्यङोः (६.१.९), एकचो द्वे प्रथमस्य (६.१.१))
    वि हा हा स ति (हलादिः शेषः (७.४.६०))
    वि झा हा स ति (कुहोश्चुः (७.४.६२))
    वि जा हा स ति (अभ्यासे चर्च (८.४.५४))
    विजिहासति (सन्यतः (७.४.७९))

    २०१८-१२-२४ सोमवासरः (2018-12-24 Monday)

     
  • Himanshu Pota 10:07 am on December 23, 2018 Permalink | Reply  

    यावान् (जितना, That much) 

    यावान् – पुँल्लिङ्गः प्रथमाविभक्तिः एकवचनम्।
    यत् वतुँप् (यद्तदेतेभ्यः परिमाणे वतुप्‌ (५.२.३९))
    यत् वत् (उपदेशेऽजनुनासिक इत् (१.३.२), हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९))
    यावत् (आ सर्वनाम्नः (६.३.९१))
    यावत् सुँ (स्वौजसमौट्छष्टाभ्यांभिस्ङेभ्याम्भ्यस्ङसिभ्यांभ्यस्ङसोसाम्ङ्योस्सुप् (४.१.२))
    यावत् स् (उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९))
    यावात् स् (अत्वसन्तस्य चाधातोः (६.४.१४))
    यावात् नुम् स् (उगिदचां सर्वनामस्थानेऽधातोः (७.१.७०))
    यावा न् त् स् (हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९), मिदचोऽन्त्यात् परः (१.१.४७))
    यावा न् त् (हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६८))
    यावान् (संयोगान्तस्य लोपः (८.२.२३))

    २०१८-१२-२३ रविवासरः (2018-12-23 Sunday)

     
  • Himanshu Pota 7:06 pm on December 22, 2018 Permalink | Reply  

    दध्यौ (Thought) 

    २०१८-१२-२२ शनिवासरः (2018-12-22 Saturday)
    तस्य स्थित्वा कथमपि पुरः कौतुकाधानहेतोरन्तर्बाष्पश्चिरमनुचरो राजराजस्य दध्यौ।
    मेघालोके भवति सुखिनोऽप्यन्यथावृत्तिचेतः कण्ठश्लेषप्रणयिन जने किं पुनर्दूरसंस्थे॥मेघदूतं पूर्वमेघः ३॥
    अन्वयः – राजराजस्य अनुचरः अन्तर्वाष्पः (सन्) कौतुकाधानहेतोः तस्य पुरः कथमपि स्थित्वा चिरं दध्यौ। मेघालोके सुखिनः अपि चेतः अन्यथावृत्ति भवति कण्ठाश्लेषप्रणयिनि जने दूरसंस्थे (सति) किं पुनः।
    दध्यौ चिन्तनं कृतवान्। ध्यै चिन्तायम् इति भ्वादिगणीयः परस्मैपदी अनिट् सकर्मकः धातुः लिट्लकारः प्रथमपुरुषः एकवचनम्
    आधानम् (causing)
    यक्षों के राजा (कुबेर) का सेवक (आँखों के) अन्दर आँसुओं को रोककर, उत्कण्ठा को उत्पन्न करने वाले उस (मेघ) के सामने किसी भी प्रकार रुककर देर तक सोचता रहा। मेघ के दिखलाई पडने पर (प्रिय के सुख से) सुखी (व्यक्ति) का भी चित्त दूसरे प्रकार की वृत्ति वाला (अर्थात् चंचल) हो जाता है, कण्ठ के आलिङ्गन के इच्छुकजन (प्रिया) के दूर स्थित होने पर क्या कहना?
    महाकवि कालिदास प्रणीतं मेघदूतम् सम्पूर्ण, बलवान सिंह यादव, चौखम्भा संक्सृत भवन, वाराणसी, वि. सं. २०७४।

     
c
Compose new post
j
Next post/Next comment
k
Previous post/Previous comment
r
Reply
e
Edit
o
Show/Hide comments
t
Go to top
l
Go to login
h
Show/Hide help
shift + esc
Cancel