डीडीसंस्कृतवार्ताः इति episode इति अर्थे प्रकरणम् इति शब्दः प्रयुज्यते। सः शब्दः मह्यं रोचते।
२०१६-०६-३० गुरुवासरः (2016-06-30 Thursday)
Learn Sanskrit while blogging
डीडीसंस्कृतवार्ताः इति episode इति अर्थे प्रकरणम् इति शब्दः प्रयुज्यते। सः शब्दः मह्यं रोचते।
२०१६-०६-३० गुरुवासरः (2016-06-30 Thursday)
सुधर्मा इति वार्तापत्रे लेखकैः ऐरोप्यदेशसमुदयः इति शब्दः उपयुज्यते। गत सप्ताहे ऐरोप्यदेशसमुदयः शीर्षसामाचारे आसीत्। केचित् समाचाराः वर्णयन्ति निर्वाचनस्य परिणामं दृष्ट्वा आङ्ग्लदेशे नागरिकाः buyer’s remorse इति अनुभवन्ति इति।
http://sudharma.epapertoday.com/?yr=2016&mth=6&d=27&pg=1
२०१६-०६-२९ बुधवासरः (2016-06-29 Wednesday)
ह्यः सोमवासरे मैसूरुनगरे महाराजयदुवीरकृष्णदत्तचामराजवोडियारमाहाभागस्य डुङ्गरपुरराज्यस्य राजकन्यया तृषिकाकुमारीसिंहमहाभागया सह परिणयः अभवत्।
२०१६-०६-२८ मङ्गलवासरः (2016-06-28 Tuesday)
अहं प्रकोष्ठस्य मानम् मामि। (I measure the size of the room.)
मा माने अदादिगणीयः अकर्मकः सेट् परस्मैपदी धातुः अस्ति।
लट्
माति मातः मान्ति
मासि माथः माथ
मामि मावः मामः
लोट्
मातु माताम् मान्तु
माहि मातम् मात
मानि माव माम
लङ्
अमात् अमाताम् आमान्-अमुः
अमाः अमातम् अमात
अमाम् अमाव अमाम
विधिलिङ्
मायात् मायाताम् मायुः
मायाः मायातम् मायात
मायाम् मायाव मायाम
२०१६-०६-२७ सोमवासरः (2016-06-27 Monday)
धान्यं कुडवेन मिमीते। He measures grain with kudava. संस्कृत स्वयं-शिक्षक – श्रीपाद दामोदर सातवलेकर।
माङ् माने शब्दे च जुहोत्यादिगणीयः सकर्मकाकर्मकौ अनिट् आत्मनेपदी धातुः अस्ति।
लट्
मिमीते मिमाते मिमते
मिमीषे मिमाथे मिमीध्वे
मिमे मिमीवहे मिमीमहे
लोट्
मिमीताम् मिमाताम् मिमताम्
मिमीष्व मिमाथाम् मिमीध्वम्
मिमै मिमावहै मिमामहै
लङ्
अमिमीत अमिमाताम् अमिमत
अमीमीथाः अमिमाथाम् अमिमीध्वम्
अमिमि अमिमीवहि अमिमीमहि
विधिलिङ्
मिमीत मिमीयाताम् मिमीरन्
मिमीथाः मिमीयाथाम् मिमीध्वम्
मिमीय मिमीवहि मिमीमहि
२०१६-०६-२६ रविवासरः (2016-06-26 Sunday)
माङ् माने दिवादिगणीयः सकर्मकः अनिट् आत्मनेपदी धातुः अस्ति। बृहद्धातुकुसुमाकरः इति ग्रन्थे अस्ति – माङ् माने। (नापना, तौलना)। अनुमा – तर्क से सिद्ध करना, उपमा – उपमा देना, तुलना करना। परिमा – नापना, परिमाण करना, प्रमा – प्रमाण होना।
लट्
मायते मायेते मायन्ते
मायसे मायेथे मायध्वे
माये मायावहे मायामहे
लोट्
मायताम् मायेताम् मायन्ताम्
मायस्व मायेथाम् मायध्वम्
मायै मायावहै मायामहै
लङ्
अमायत अमायेताम् आमयन्त
अमायथाः अमायेथाम् अमायध्वम्
अमाये अमायावहि अमायामहि
विधिलिङ्
मायेत मायेयाताम् मायेरन्
मायेथाः मायेयाथाम् मायेध्वम्
मायेय मायेवहि मायेमहि
२०१६-०६-२५ शनिवासरः (2016-06-25 Saturday)
अद्य प्रातःकाले अहम् अन्वमिमि बरतानीया यूरोपसमूहे स्थास्यति किन्तु अपराह्णे ज्ञातं बरतानीया बहिर्गमिष्यति। इदं निर्वाचनं अश्चर्यमयम् आसीत्। मन्ये विभाजनं तेभ्यः लाभकरं भविष्यति।
२०१६-०६-२४ शुक्रवासरः (2016-06-24 Friday)
अहम् एकं ग्रन्थिम् आसिनोमि। अहम् एकं पोटलम् आसिनोमि। सः पोटलं बध्नाति। तौ पोटलं बध्नीतः।
षिञ् बन्धने इति स्वादिगणीयः सकर्मकः अनिट् उभयपदी धातुः अस्ति।
२०१६-०६-२३ गुरुवासरः (2016-06-23 Thursday)
मन्ये श्वः बरतानीयादेशस्य जनाः यूरोपसमूहे स्थातव्यं वा न स्थातव्यं इति विषये मतदानं करिष्यन्ति। मन्ये मतदानस्य परिणामः तु स्थातव्यम् इति निश्चयेन भविष्यति किन्तु तेषाम् हितम् यूरोपसमूहात् बहिर्गमने इति अस्ति। किन्तु यथा सर्वत्र भवति तथापि तत्र अपि भविष्यति यत् हितकरं तत् जनाः न कुर्वन्ति इति।
२०१६-०६-२२ बुधवासरः (2016-06-22 Wednesday)
सर्वेभ्यः अन्ताराष्ट्रीय-योग-दिवसाय शुभाशयाः निवेदयामि। अद्य अस्माकं मन्दिरे योग-उत्सवः असीत्। प्रायः पञ्चाशत् जनाः योगासन-प्राणायाम-ध्यानं अकुर्वन्।
२०१६-०६-२१ मङ्गलवासरः (2016-06-21 Tuesday)