पथिकः पान्थः वा (A traveller)

पन्थानं नित्यं गच्छति इति पथिकः पान्थः वा।
पथः ष्कन्॥५.१.७७॥
हितोपदेशे मित्रलाभः नाम अध्याये अस्ति
भो भोः पान्थ इदं सुवर्णकङ्कणं गृह्यताम्।
ततो लोभाकृष्टेन केनचित् पान्थेनालोचितम्।
पान्थोऽवदत्।

२०१८-१०-१० बुधवासरः (2018-10-10 Wednesday)

बद्ध्वा (Having tied)

कृष्णान् तुरगान् मन्दुरायां बद्ध्वा हरिताभारम् आनय। काले घोडों को घुडसाल में बांधकर दूब का गट्ठर ला। Tie the black horses in the stable and then bring a bundle of green grass.
चन्द्रिका स्वचूडापाशे कुरवकम् अबद्ध्वा कथं यास्यति। चन्द्रिका अपने जूडे में लाल फूल बिना बाँधे कैसे जायेगी? How will Chandrika go without tying a red flower in her hair.
सेटुफलानि भुक्त्वा जलपानेन विषूचिका जायते। तरबूजे खाकर पानी पीने से हैजा हो जाता है। Drinking water after eating watermelon one gets typhoid.

२०१८-१०-०७ रविवासरः (2018-10-07 Sunday)

स वेद (He knows)

महीभृतां सच्चरितैश्चरैः क्रियाः स वेद निश्शेषमशेषितक्रियः।
महोदयैस्तस्य हितानुबन्धिभिः प्रतीयते घातुरिवेहितं फलैः॥किरातार्जुनीयं प्रथमः सर्गः २०॥
स वेद। सः निश्शेषं वेद। अशेषितक्रियः सः निश्शेषं वेद। किं वेद? अशेषितक्रियः सः महीभृतां क्रियाः निश्शेषं वेद। कथं वेद? अशेषितक्रियः सः महीभृतां क्रियाः सच्चरितैश्चरैः निश्शेषं वेद।
यः सः महीभृतां क्रियाः वेद तस्य इहितं फलैः प्रतीयते (न पूर्वम्)। कीदृशैः फलैः प्रतीयते। महोदयैः हितानुबन्धिभिः फलैः प्रतीयते। कस्य इव? धातुः इव तस्य।

२०१८-१०-०१ सोमवासरः (2018-10-01 Monday)