प्रभावलयम् (Aura)

विद्युल्लताकपिलतुङ्गजटाकलापम्
उद्यत्प्रभावलयिनं परशुं दधानम् ।
क्षत्रान्तकं मुनिवरं भृगुवंशकेतुं
गत्वा प्रणम्य निकटे निभृतः स्थितोऽस्मि ॥ कर्णभारम् ९
कलापः समूहः। कलापः, पुं, (कलां मात्रां आप्नोति . कला + आप्+“ कर्म्मण्यण” . ३ . २ . १ . इति अण् . यद्वाकला आप्यतेऽनेन“ हलश्च” . ३ . ३ . १२१ .इति घञ् .) समूहः।

२०२४-०१-२९ सोमवासरः (२०२४-०१-२९ Monday)

गुणप्रकर्षः (Great merit)

अयं स कालः क्रमलब्धशोभनो
गुणप्रकर्षो दिवसोऽयमागतः ।
निरर्थमस्त्रं च मया हि शिक्षितं
पुनश्च मातुर्वचनेन वारितः ॥ कर्णभारम् ८
गुणप्रकर्षः प्रतीक्ष्येण पूज्येन गुणेन प्रकृष्टः उत्कृष्टः।
प्रकर्षः पुं, (प्र + कृष् + भावे घञ् ) उत्कर्षः।

२०२४-०१-२८ रविवासरः (२०२४-०१-२८ Sunday)

राधेयः (Karna)

पूर्वं कुन्त्यां समुत्पन्नो राधेय इति विश्रुतः ।
युधिष्ठिरादयस्ते मे यवीयांसस्तु पाण्डवाः ॥ कर्णभारम्
राधेयः राधायाः अपत्यम्।
राधेयः वसुषेणः अर्कनन्दनः घटोत्कचान्तकः चाम्पेशः सूतपुत्त्रकः चाम्पाधिपः अड्गराट् राधासुतः अर्क-तनयः अङ्गाधिपः

२०२४-०१-२७ शनिवासरः (२०२४-०१-२७ Saturday)

वैधुर्यम् (Agitation)

२०२४-०१-०६ शनिवासरः (2024-01-06 Saturday)
कर्णः — अहोतुखलु,
अन्योन्यशस्त्रविनिपातनिकृत्तगात्र-
योधाश्ववारणरथेषु महाहवेषु ।
क्रुद्धान्तकप्रतिमविक्रमिणो ममापि
वैधुर्यमापतति चेतसि युद्धकाले ॥ कर्णभारम् ६॥
मम कर्णस्य चेतसि वैधुर्यम् आपतति युद्धकाले। कीदृशः कर्णः क्रुद्धः अन्तकप्रतिमः यमप्रतिमः विक्रमः। कीदृशः युद्धः निकृत्तगात्र-योधा-अश्व-वारण-रथः।

द्रष्टव्यो यदि स भवेद् (If I may see him)

मा तावन्मम शरमार्गलक्षभूताः
किं प्राप्ताः क्षितिपतयः सजीवशेषाः ।
कर्तव्यं रणशिरसि प्रियं कुरूणां
द्रष्टव्यो यदि स भवेद् धनञ्जयो मे ॥ कर्णभारम् ५
महुलिकरमहाभागयाः व्याख्यानं द्रष्टव्यम्।

२०२४-०१-०४ गुरुवासरः (2024-01-04 Thursday)

विशदः (Shining)

अत्युग्रदीप्तिविशदः समरेङ्ग्रगण्यः
शौर्ये च सम्प्रति सशोकमुपैति धीमान् ।
प्राप्ते निदाघसमये घनराशिरुद्धः
सूर्यः स्वभावरुचिमानिव भाति कर्णः ॥ कर्णभारम् ४॥
अत्युग्रदीप्तिविशदः प्रतापातिशयप्रद्योतितः।
विशदः, त्रि, (वि + शदॢँ शातने (भ्वादिः परस्मैपदी अकर्मकः अनिट् ज्वलादिः )+ अच् .) विमलः इति हेमचन्द्रः, व्यक्तः इति मेदिनी, शुक्लगुणयुक्तः इत्यमरः, उज्ज्वलः।
वि विशेषवैरूप्यनञर्थगतिदानेषु इति मुग्धबोधटीकायां दुर्गदासः।

२०२३-१२-२८ गुरुवासरः (२०२३-१२-28 Thursday)

समरः (Battle)

करितुरगरथस्थैः पार्थकेतोः पुरस्ताद्
मुदितनृपतिसिंहैः सिंहनादः कृतोऽद्य ।
त्वरितमरिनिनादैर्दुःसहं लोकवीरः
समरमधिगतार्थः प्रस्थितो नागकेतुः ॥ कर्णभारम् ३
समरः, पुं, क्ली, (सम्यक् अरणं प्रापणमिति सं + ऋ गतौ + अप् . यद्बा, सम्यक् ऋच्छत्यत्रेति .“ मन्दरकन्दरशीकरेति .” बाहुलकात्अरप्रत्ययेन साधुः . इत्युज्ज्वलः . ३ . १३१ .) युद्धम् . इत्यमरः .. (यथा, रघुः . १२ . ८२ .“ इतराण्यपि रक्षांसि पेतुर्वानरकोटिषु .रजांसि समरोत्थानि तच्छोणितनदीष्विव ..” )
आयोधनम्, प्रविदारणम्, संख्यम्, ‍समरः, कलहः, अभिसंपातः, संयोगः, संग्रामः, ‍संयत्, समित्, जन्यम्, मृधम्, समीकम्, अ‍नीकः, ‍विग्रहः, कंलिः, अभ्यामर्दः, आहवः, ‍समितिः, युत्, प्रधनम्, आस्कन्दनम्, ‍सांपराथिकम्, रणः, संप्रहारः, संस्फोटः, ‍समाघातः, समुदायः, आजिः, युद्धम्।
युद्धार्थे कति पदानि सन्ति येषां व्युत्पत्तिः सम्यग् मेलनम् इति अस्ति। क आश्चर्यः प्रायः यदा जनाः मिलन्ति तदा युध्यन्ते च।

२०२३-१२-२६ मङ्गलवासरः (२०२३-१२-26 Tuesday)

सम्पूर्णा बालतोषिणी भारतकथा (Finished Bharatakathaa)

अद्यास्माकं वर्गे बालतोषिणिभारतकथाया अध्ययनं समाप्तम्।
अस्मिन् वर्गे अस्माभिः सामान्यव्याकरणं पाणिनिव्याकरणं वेदमन्त्रान् गीतां हितोपदेशम् इत्यादिनि अंशेन अधीतानि – https://sites.google.com/view/htcc-learnsanskrit/home
सुबोधसंस्कृतम् इति पुस्तके सरलरामायणकथा, श्रीरामोदन्तं काव्यं, स्वप्नवासवदत्तं, भारतकथा इति पुस्तकानि पूर्णरूपेण अधीतानि।
तावत् आगामिफरवरीमासात् मृच्छकटिकं नाटकम् अध्येष्यामहे।

२०२३-१२-20 बुधवासरः (2023-12-20 Wednesday)

कलिताञ्जलिः (hands together)

सङ्ग्रामे तुमुले जाते कर्णाय कलिताञ्जलिः ।
निवेदयति संभ्रान्तो भृत्यो दुर्योधनाज्ञया ॥ कर्णभारम् २
कल गतौ सङ्ख्याने च (चुरादिः उभयपदी सकर्मकः सेट्)
भ्रमुँ अनवस्थाने (दिवादिः परस्मैपदी सकर्मकः सेट् पुषादिः शमादिः )
नि + विदँ ज्ञाने (अदादिः परस्मैपदी सकर्मकः सेट् ) –
संग्रामँ संग्राम (अर्थः) युद्धे इति माधवीया।
युधँ सम्प्रहारे (दिवादिः आत्मनेपदी अकर्मकः अनिट् )
आङ् + ज्ञा धातुविवरणम् ज्ञा अवबोधने ( ०९.००४३ ज्ञा अवबोधने )
तु  गतिवृद्धिहिंसासु (अदादिः परस्मैपदी सकर्मकः अनिट् )

२०२३-१२-19 मङ्गलवासरः (2023-12-19 Tuesday)

श्रीधरः नृसिंहः (Shridhara Nrisimha)

नरमृगपतिवर्ष्मालोकनभ्रान्तनारी-
नरदनुजसुपर्वव्रातपाताललोकः ।
करजकुलिशपालीभिन्नदैत्येन्द्रवक्षाः
सुररिपुबलहन्ता श्रीधरोऽस्तु श्रिये वः ॥ कर्णभारम् १
वर्ष्म विग्रहः – शरीरं वर्ष्म विग्रहः इत्यमरः। सुपर्वणां सुमनसाम्। व्राताः सङ्घाः निकरव्रातसङ्घातसञ्चयाः इत्यमरः। करजः करे जातः। कुलिशं वज्रं म्भोलिः शतकोटिः कुलिशम् शम्बः पविः वज्रम् अशनिः स्वरुः भिदुरम् ह्लादिनी इत्यमरः। पालिः अश्रि कोटिः कोणः इत्यमरः।

२०२३-१२-18 सोमवासरः (2023-12-18 Monday)