किरातार्जुनीयम् प्रथमः सर्गः – अन्तर्जालशिक्षा

व्योमसंस्कृतपाठशालायाः जालपृष्ठे किरातार्जुनीयकाव्यस्य प्रथमसर्गस्य अन्तर्जालपाठाः उपलब्धाः । सम्प्रति तमिळभाषामाध्यमेन इमं महाकाव्यमध्येतुं शक्नुवन्ति तमिळभाषिणः। अध्यापिका विशालाक्षीवर्या अस्मै परोपकाराय अस्माकं धन्यवादानि पूर्णरूपेण अर्हतीति नात्र संशयः ।
http://www.sanskritfromhome.in/course/kiratarjuniyam-sarga1

२०१७-०७-२९ शनिवासरः (2017-07-29 Saturday)

दूरदर्शनयन्त्रं परिवर्तितम् (Changed the TV)

ह्यः वयम् अस्माकं वडोदरानगरस्य गृहे यत् दूरदर्शनयन्त्रम् आसीत् तस्य स्थाने नूतनं यन्त्रम् अक्रीणीम। किन्तु यन्त्रस्य स्थापना विलम्बेन अभवत् तस्मात् अहं दूरदर्शनेन प्रसारितं वार्तावली इति कार्यक्रमं तस्मिन् यन्त्रे द्रष्टुं न अशक्नवम्।

२०१७-०७-२३ रविवासरः (2017-07-23 Sunday)

कृदन्ताः (krt suffixes)

सौम्यावर्या संस्कृतवाक्यरचना-कृदन्ताः (http://www.sanskritfromhome.in/course/krdantas) इति पाठ्यक्रमम् अध्यापयति। पाठः शनिवासरे प्रातः सार्धपञ्चवादने प्रवर्तते। यदा अहं केन्बरानगरे अस्मि तदा अयं कालः मह्यम् अतीव अनुकूलः अस्ति यतो हि तत्र प्रातः दशवादनं वा एकादशवादनम् इति कालः भवति। अद्य अहं वडोदरानगरे अस्मि तस्मात् प्रातः सार्धपञ्चवादने कक्षायाम् आगच्छम्। अद्य मया ज्ञातं कथं सार्धपञ्चवादनं इति कष्टप्रदः कालः अस्ति। सौम्यावर्या न केवलं सार्धपञ्चवादने पाठम् आरभते किन्तु तस्य कालस्य पूर्वम् एव पाठम् अपि सज्जीकरोति। सा खलु धन्यवादार्हा अस्ति।

२०१७-०७-२२ शनिवासरः (2017-07-22 Saturday)

औस्ट्रेलियावृन्दं पराजितम् (Australia Defeated)

ह्यः भारतीयमहिलाफालकवृन्देन औस्ट्रेलियावृन्दं पराजितम्। मया पराजयाय शोचितव्यं अथवा जयाय हर्षितव्यम् इति न जानामि। यदा काश्चन् भारतीयनागरिकाः पाकिस्तानदेशेन भारतस्य पराजयम् आमानयन्ते तदा वयं तेभ्यः क्रुध्यामः। तस्मात् चिन्तयामि हर्षितव्यम् अथवा शोचितव्यम्।

२०१७-०७-२१ शुक्रवासरः (2017-07-21 Friday)

गीतामाध्यमेन संस्कृतम्

मम सब्रह्मचारी शङ्करवर्यः गतत्रयवर्षेभ्यः भगवद्गीतां   शाङ्करसम्प्रदायप्रवेशव्याख्यामाध्यमेन पाठयति । सः सदैव माम् पृच्छति स्म – छात्राः कथं गीतापठनार्थं संस्कृतशिक्षां प्राप्नुवन्ति? अपि तदर्थं कोऽपि पुस्तकोऽस्ति?

ये हिन्दीभाषां न जानन्ति तेभ्यः प्रयोजनीयं पुस्तकमेकं मया दृष्टः।  अस्मिन् पुस्तके सर्वे दृष्टान्ताः गीतायाः हितोपदेशाद्वा उद्धृताः। अत्र पश्यतु –

http://amzn.to/2uf3e7I

२०१७-०७-२० गुरुवासरः (2017-07-20 Thursday)

रामनाथः (Ramnath)

रामनाथः अद्य भारतस्य राष्ट्रपतिः वृत्तः। सः प्रत्याशितेभ्यः मतेभ्यः अधिकानि मतानि लब्धवान्। अहं तस्य निर्वाचनाय प्रसन्नः अस्मि।

२०१७-०७-२० गुरुवासरः (2017-07-20 Thursday)

भोजनम् (Lunch)

अद्य अहं मम भार्यायाः मातृस्वसुः गृहं भोजनाय अगच्छत्। सा अतिस्वादूनि भोजनानि अपचत्। खादित्वा अहम् आनन्दम् अन्वभवम्।

(2017-07-19 Wednesday)

अध्येतव्यम् (Should study)

मया संस्कृतं नित्यम् अध्येतव्यम्। अस्मिन् वृत्तपत्रे नित्यं किञ्चित् लेखितव्यं च। गतेभ्यः केभ्यश्चित् मासेभ्यः प्रभृति अहं व्यापृतः आसम्। आशासे अस्मात् दिनात् परं लेखिष्यामि।

२०१७-०७-१२ बुधवासरः (2017-07-12 Wednesday)

बिडाले गते क्रीडन्ति मूषकाः (When the cat's away, the mice will play)

गतशुक्रवासरे पोटावर्यः फ़्रान्सदेशे टूलूसनगर्यां पर्यटनं कुर्वन् मया सह चलभाषसंभाषणं अकुर्वत् । तदनन्तरं बेल्जियम्देशे ब्रसल्सनगरात् मम चलभाषोपकरणे एक: अपराद्धसंदेशोऽपि तेन प्रेषितः। तद्पश्चाद् मुम्बई उड्डयनकेन्द्रात् देवानाम्प्रियः पुनरेकं वारं तेन स्मृतः। अधुना बरोडानगरे स्व मात्रा सार्धं क्वचिद् कालं अत्र विरमति इत्यपि श्रूयते । एवं सति इदं वृत्तपत्रमपि इन्दुरहिततारागणमिव दृश्यते । अतः अहमद्य लिखामि।

२०१७-०७-१७ सोमवासरः (2017-07-17 Monday)