उपाहारगृहे खादनम् (Eating at a restaurant)

आवयोः कन्यायाः जन्मदिवसस्य उत्सवे वयं National Arboretum इति नाम एकमुपहारगृहमगच्छाम। तत्र खाद्यानां यत् मूल्यमस्ति तस्मात् न बोधामि ते स्वर्णं विक्रीणन्ति अथवा खाद्यम्। मम अपत्यानि किं कस्य मूल्यम् इति विषये किमपि न जानन्ति। तेषां विनोदाय मया किमपि महार्घं खाद्यमखादम्। यदि एकलः स्यां न किमपि खादेयम्।

Village Centre – National Arroretum – https://www.nationalarboretum.act.gov.au/visit/village-centre

२०२१-०७-३१ शनिवासरः (2021-07-31 Saturday)

मोदे शुक्रवासर आगतः (TGIF)

न मया पूर्वमनुभूतः शुक्रवासरस्य आगमनस्य क आनन्दः। किन्तु इदानीमनुभवामि तस्य आनन्दः। पुरा मम शोधछात्राः मां मेलनाय प्रत्यक्षं मम कक्षे आगच्छन् यदा मेलनस्य आवश्यकतासीत् तदैव। किन्तु अधुना ते सर्वे टीम्स्-इति माध्यमेन निश्चितकाले मेलनं कुर्वन्ति तस्मात् प्रातः प्रभृतिः सायङ्कालं पर्यन्तं मेलनानि वर्तन्ते। तस्माद् क्लान्तोऽहं शुक्रवारे सायङ्काले भृशं मोदे।

२०२१-०७-३० शुक्रवासरः (2021-07-30 Friday)

कोऽहम् (Who am I?)

अन्तर्जालपात्राणि कथं जायते इति महत्वपूर्णः प्रश्नः। परीक्षणं कृत्वा ज्ञायते अनेकानां पत्राणां जनक एक एव इति। पश्यतु कथं ए बी सी इति सी एन एन इति समवायौ एकमेव पत्रं प्रकाशयतः। परञ्च ते यत् प्रकाशयन्ति तेषां पत्राणां जनकः रहसि स्थित्वा इदं कार्यं करोति। तस्माद् यत् किमपि वयं पठामि तस्मिन्नवधानं ददाम।
https://www.abc.net.au/news/2021-07-29/indian-artefacts-repatriated-from-national-gallery-australia/100331278
https://edition.cnn.com/style/article/national-gallery-australia-india-kapoor/index.html

इदं चित्रं एकस्य गुर्जरकुटुम्बस्यास्ति। चिन्तयामि अस्मिन् चित्रे कोऽहम्?

२०२१-०७-२९ गुरुवासरः (2021-07-29 Thursday)

नेदं शिक्षणम् (This is not education)

अहं छात्रेभ्यः द्वे समस्ये अददाम्। प्रथामायां समस्यायां याः परिमितयः सन्ति तासां द्वितीयां समस्यायां एकं विकारिं अनुवृत्त्वा परिवर्तनं करणीयम्। प्रथमा समस्या तु खलु समस्या या छात्रैः करणीया। किन्तु ते आग्रहं कुर्वन्ति प्रथमायाः समस्यायाः समाधानं ददातु तत् परमेव द्वितीयायाः समस्यायाः उत्तरं दास्यामः। नेदं शिक्षणं किन्तु प्रशिक्षणम्। किं करणीयम्।

२०२१-०७-२८ बुधवासरः (2021-07-28 Wednesday)

केशकर्तनम् (A haircut)

अद्याहं केशकर्तनायागच्छम्। नापितां दृष्ट्वा अपृच्छम् – अडिलेडनगरं न गतं भवत्या। सा प्रत्यभाषत् नाहं सा इति। ताः सर्वाः मां समाना एव प्रतीयन्ते। अद्य कीदृशं केशकर्तनम् इति सा अपृच्छत्। षष्ठः क्रमाङ्कः इति। प्रथमं वारं यदा सा केशान् कर्तित्वा परीक्षणं कुरु इति अकथयत् तदा परीक्षणं कृत्वा मया सर्वं सुष्ठ्वस्ति इति ज्ञातम्। यतो हि सामान्यरूपे अत्राधिकं तत्राधिकं कृन्ततु इति निर्देशं ददामि किन्तु न तथाद्य। केशकर्तनं दृष्ट्वा प्रसन्नोऽस्मि। मम द्वितीयापि मयि दृष्टे केशकर्तनमित्याह।

२०२१-०७-२७ मङ्गलवासरः (2021-07-27 Tuesday)

चत्वारिंशत्किलोमीटरमिता गतिसीमा (Forty km per hour speed limit)

केन्बरानगर्स्य मध्ये यानचालनस्य चत्वारिंशत्किलोमीटरमिता गतिसीमास्ति। इयं सीमा इदानीमेव स्थापिता तस्माद् जनाः न जानन्ति भृशं ($305) दण्डमपि ददति। मीतामहाभागापि अनया सीमया निगडिता। अहं तत्र न गच्छमि तस्मात् रक्षितोऽस्मि। मया अद्य प्रतिज्ञातं न कुत्रापि गतिसीमायाः उल्लङ्घनं करिष्यामि। अद्य तु मया उल्लङ्घनं न कृतं न जाने कदा यावत् इमां प्रतिज्ञां पालयिष्यामि।

Canberra City – 40 km per hour zone

२०२१-०७-२६ सोमवासरः (2021-07-26 Monday)

नूतनः पाठ्यक्रमः (A New Course)

अस्मिन् सत्रे मया नूतनः पाठ्यक्रमः कल्पितव्यः। अनेन कार्येण व्यापृतोऽस्मि।

२०२१-०७-२५ रविवासरः (2021-07-25 Sunday)

गुरुभ्योः नमः (Naman to Gurus)

अनुगृहितोऽस्मि यतो हि अद्य गुरुपूर्णिमापर्वणि सौम्यामहाभागायां नीलेशमहाभागानां च दर्शनं तेषां वाण्यमृतस्य श्रवणं च अभवत्। अद्य कृदन्तप्रकरणम् इति पाठ्यक्रमस्य समापनमासीत् तस्मात् तौ एकसार्थमागच्छताम्।
यौ अस्मिन् चित्रे स्तः ताभ्यां द्वाभ्यां गुरुभ्यां नमो नमः।

Two of the greatest Sanskrit Teachers – Sowmyaji and Neeleshji

https://www.sanskritfromhome.in/course/kaumudi12-krdantas/
https://drive.google.com/file/d/1pEGjUD37NlAwgOmwFUkNMLvHRjexeKkR/view

२०२१-०७-२४ शनिवासरः (2021-07-24 Saturday)

गृध्रसूत्रम् (The Vulture Sutra)

अथातो सत्ताप्रलोभः । १.१ ।

(Then therefore is the greed for power)

विदूषणाद्यस्य यतः । १.२ ।

(Which the source of all corruption)

आङ्लयोनित्वात् । १.३ ।

(English and things English are the sole source)

तत्तु समन्वयात् । १.४ ।

(Because it is the main purpose)

२०२१-०७-२३ शुक्रवासरः (2021-07-21 Friday)

सप्ताहमेकं जातम् (One week is over)

यो नूतनः पाठ्यक्रमः मया आरब्धः तस्य सप्ताहमेकं गतम्। तस्मै नेकानि कार्याणि करणीयानि। प्रयोगशालाभ्यासाः व्याख्यानसामग्री इत्यादयः। मया परिश्रमः कर्तव्यः।

२०२१-०७-२३ शुक्रवासरः (2021-07-23 Friday)