रक्षकः रक्षति (protector protects)

रक्षकः रक्षति। कन्या रक्षति। चोरः न रक्षति। अपि भवती कन्यां रक्षति। अनेकवारं नेतारः लोकान् न रक्षन्ति। त्वं धनं सदैव रक्षसि। अहं गृहं रक्षामि।

२००८-१०-२२ बुधवासरः (2008-10-22 Wednesday)

गायकः (singer)

गायकः गायति। सः बालकः गायति। सा बालिका गायति। अयं बालकः गायति। इयं बालिका गायति। भवान् गायति। भवती गायति। त्वं गायसि। अहं गायामि।
(सुरभारती – पञ्चमः भागः, संस्कृतः कार्यालयः, श्री‍अरविन्दाश्रमः पुद्दुचेरी-६०५००२)

२००८-१०-२० सोमवासरः (2008-10-20 Monday)

अर्थः इत्यादयः (meaning, etc.)

अर्थः, ग्रन्थः, पदार्थः, रथः, मनोरथः, शपथः, शोथः इति पुंलिङ्गाः शब्दाः सन्ति।
शोथः इति swelling, tumour; शोथकृत् इति causing swellings; शोथहूत् इति tumour removing.
शोथकृत् शोथकृतौ शोथकृतः
शोथकृतम् शोथकृतौ शोथकृतः
शोथकृता शोथकृद्भ्याम् शोथकृद्भिः
शोथकृते शोथकृद्भ्याम् शोथकृद्भ्यः
शोथकृतः शोथकृद्भ्याम् शोथकृद्भ्यः
शोथकृतः शोथकृतोः शोथकृताम्
शोथकृति शोथकृतोः शोथकृत्सु
हेशोथकृत् हेशोथकृतौ हेशोथकृतः

२००८-१०-१९ रविवासरः (2008-10-19 Sunday)

प्रदेशः, निर्देशः (Region, direction)

तव प्रदेशः कुत्र अस्ति तस्य निर्देशः मां दातव्यम्। मम प्रदेशः गुर्जरप्रदेशः अस्ति राजस्थानप्रदेशः अपि अस्ति। ओस्ट्रेलियादेशे मम प्रदेशः ए-सी-टी इति कथ्यते तस्य नाम केन्बरानगरम् अपि अस्ति। निर्देशकः कोऽपि चलचित्रस्य प्राणः अस्ति। बालकान् पितृभ्यां सम्यग् निर्देशः दातव्यः।

२००८-१०-१८ शनिवासरः (2008-10-18 Saturday)

आक्षेपः, विदेशः (harsh speech, foreign country)

इ/ई + ए  (गुणः)।
तस्य आक्षेपः अहं सोढुं न शक्नोमि। आक्षेपः शब्दः क्षिप् इति धातोः प्रभवति। अहं गत षड्विंशत्याः वर्षात् विदेशे वसामि। अयं ओस्ट्रेलियादेशः मत्कृते विदेशः अस्ति। कदा विदेशः स्वदेशः भविष्यति इति अहं न जानामि।

२००८-१०-१७ शुक्रवासरः (2008-10-17 Friday)

वेदः, लेखः (Veda, Article)

इ/ई + ए  (गुणः)।
विद् + अ = वेद। एकः वेदः ऋग्वेदः, अन्यः वेदः सामवेदः, तृतीयः वेदः यजुर्वेदः, चतुर्थः वेदः अथर्ववेदः।
लिख् + अ = लेख। एषः मम लेखः अस्ति, अपि तव लेखः कुत्र अस्ति।
वेदः इति पुंलिङ्गः शब्दः अस्ति तस्मात् लेखः अपि पुंलिङ्गः अस्ति इति स्मर्तव्यम्।

२००८-१०-१६ गुरुवासरः (2008-10-16 Thursday)

समासानां परिचयः (Introduction to Compounds)

काव्यमीमांसायां राजशेखरः समासानां परिचयं सरसतया प्रदत्तवान्। तेन लिखितम्
द्वन्द्वो द्विगुरपि चाहं मद्गेहे नित्यमव्ययीभावः।
तत् पुरुष कर्म धारय येनाहं स्यां बहुव्रीहिः॥
द्वन्दः – चकारबहुलः द्वन्दः। तद्यथा – सुखदुखे, सीतारामौ, लाभालाभौ।
द्विगुः – सङ्ख्यापूर्वः द्विगुः। त्रिलोकी, पञ्चवटी, अष्टाध्यायी, त्रिभुवनम्।
अव्ययीभावः – पूर्वे अव्यये सति अव्ययीभावः। अव्ययीभावसमासे पूर्वपदम् अव्ययं भवति। तद्यथा – यथाशक्ति, यथाविधि, यथाबलम्,  यथाकालम्, यथेच्छम्।
तत्पुरुषः – अमादौ सति तत्पुरुषः। तद्यथा – दुखम् अतीतः इति दुखातीतः, हस्तेन लिखितः इति हस्तलिखितः, देशाय हितम् इति देशहितम्, चोरात् भयम् इति चोरभयम्, देवस्य आलयः इति देवालयः, वने वासः इति वनवासः।
कर्मधारयः – स चासौ कर्मधारयः। तद्यथा – नीलश्च असौ आकाशश्च इति नीलाकाशः, सिद्धश्च असौ पुरुषश्च इति सिद्धपुरुषः, मधुरं च तद् वचनं च इति मधुरवचनम्, पवित्रं च तत् स्थानं च इति पवित्रस्थानम्।
बहुव्रीहिः – यस्य येन बहुव्रीहिः। पीतम् अम्बरं यस्य स पीताम्बरः, गजस्य आननम् इव आननं यस्य स गजाननः, त्रीणि नेत्राणि यस्य स त्रिनेत्रः, वीणा पाणौ यस्याः सा विणापाणिः, धृतं राष्ट्रं येन स धृतराष्ट्रः, धृतं वामनरूपं येन स धृतवामनरूपः।
(सुरभारती – पञ्चमः भागः, संस्कृतः कार्यालयः, श्री‍अरविन्दाश्रमः पुद्दुचेरी-६०५००२)

२००८-१०-१५ बुधवासरः (2008-10-15 Wednesday)